View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.61 बालकांड - एकषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकषष्टितमस्सर्गः ।

विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन् ।
अब्रवीन्नरशार्दूलस्सर्वांस्तान्वनवासिनः ॥ 1 ॥

महान्विघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् ।
दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥ 2 ॥

पश्चिमायां विशालायां पुष्करेषु महात्मनः ।
सुखं तपश्चरिष्यामः परं तद्धि तपोवनम् ॥ 3 ॥

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः ।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ 4 ॥

एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः ।
अंबरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ 5 ॥

तस्य वै यजमानस्य पशुमिंद्रो जहार ह ।
प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ 6 ॥

पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात् ।
अरक्षितारं राजानं घ्नंति दोषा नरेश्वर ॥ 7 ॥

प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ ।
आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते ॥ 8 ॥

उपाध्यायवचश्श्रुत्वा स राजा पुरुषर्षभ ।
अन्वियेष महाबुद्धिः पशुं गोभिस्सहस्रशः ॥ 9 ॥

देशान् जनपदांस्तां स्तान्नगराणि वनानि च ।
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ 10 ॥

स पुत्रसहितं तात सभार्यं रघुनंदन ।
भृगुतुंदे समासीनमृचीकं संददर्श ह ॥ 11 ॥

तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।
ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ॥ 12 ॥

पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः ।
गवां शतसहस्रेण विक्रीणीषे सुतं यदि ॥ 13 ॥

पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव ।
सर्वे परिसृता देशा याज्ञीयं न लभे पशुम् ॥ 14 ॥

दातुमर्हसि मूल्येन सुतमेकमितो मम ।
4 एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः ॥ 15 ॥

नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन ।
ऋचीकस्य वचश्श्रुत्वा तेषां माता महात्मनाम् ॥ 16 ॥

उवाच नरशार्दूलमंबरीषं तपस्विनी ।
अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ॥ 17 ॥

ममापि दयितं विद्धि कनिष्ठं शुनकं नृप ।
तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव ॥ 18 ॥

प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।
मातृणां तु कनीयांसस्तस्माद्रक्षे कनीयसम् ॥ 19 ॥

उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च ।
शुनश्शेफस्स्वयं राम मध्यमो वाक्यमब्रवीत् ॥ 20 ॥

पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् ।
विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम् ॥ 21 ॥

गवां शतसहस्रेण शुनश्शेफं नरेश्वरः ।
गृहीत्वा परमप्रीतो जगाम रघुनंदन ॥ 22 ॥

अंबरीषस्तु राजर्षी रथमारोप्य सत्वरः ।
शुनश्शेफं महातेजा जगामाशु महायशाः ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकषष्टितमस्सर्गः ॥




Browse Related Categories: