View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.64 बालकांड - चतुःषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ चतुःषष्टितमस्सर्गः ।

सुरकार्यमिदं रंभे कर्तव्यं सुमहत्त्वया ।
लोभनं कौशिकस्येह काममोहसमन्वितम् ॥ 1 ॥

तथोक्ता साऽप्सरा राम सहस्राक्षेण धीमता ।
व्रीडिता प्रांजलिर्वाक्यं प्रत्युवाच सुरेश्वरम् ॥ 2 ॥

अयं सुरपते घोरो विश्वामित्रो महामुनिः ।
घोरमुत्सृजते क्रोधं मयि देव न संशयः ॥ 3 ॥

ततो हि मे भयं देव प्रासादं कर्तुमर्हसि ।
एवमुक्तस्तया राम रंभया भीतया तदा ॥ 4 ॥

तामुवाच सहस्राक्षो वेपमानां कृतांजलिम् ।
माभैषी रंभे भद्रं ते कुरुष्व मम शासनम् ॥ 5 ॥

कोकिलो हृदयग्राही माधवे रुचिरद्रुमे ।
अहं कंदर्पसहित स्स्थास्यामि तव पार्श्वतः ॥ 6 ॥

त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ।
तमृषिं कौशिकं रंभे भेदयस्व तपस्विनम् ॥ 7 ॥

सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् ।
लोभयामास ललिता विश्वामित्रं शुचिस्मिता ॥ 8 ॥

कोकिलस्य च शुश्राव वल्गु व्याहरतः स्वनम् ।
संप्रहृष्टेन मनसा तत एनामुदैक्षत ॥ 9 ॥

अथ तस्य च शब्देन गीतेनाप्रतिमेन च ।
दर्शनेन च रंभाया मुनिस्संदेहमागतः ॥ 10 ॥

सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुंगवः ।
रंभां क्रोधसमाविष्ट श्शशाप कुशिकात्मजः ॥ 11 ॥

यन्मां लोभयसे रंभे कामक्रोधजयैषिणम् ।
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥ 12 ॥

ब्राह्मण स्सुमहातेजा स्तपोबलसमन्वितः ।
उद्धरिष्यति रंभे त्वां मत्क्रोधकलुषीकृताम् ॥ 13 ॥

एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः ।
अशक्नुवन् धारयितुं क्रोधं संतापमागतः ॥ 14 ॥

तस्य शापेन महता रंभा शैली तदाऽभवत् ।
वचश्शृत्वा च कंदर्पो महर्षेस्स च निर्गतः ॥ 15 ॥

कोपेन स महातेजास्तपोऽपहरणे कृते ।
इंद्रियैरजितै राम न लेभे शांतिमात्मनः ॥ 16 ॥

बभूवास्य मनश्चिंता तपोऽपहरणे कृते ।
नैव क्रोधं गमिष्यामि न च वक्ष्ये कथंचन ॥ 17 ॥

अथवा नोच्छवसिष्यामि संवत्सरशतान्यपि ।
अहं विशोषयिष्यामि ह्यात्मानं विजितेंद्रियः ॥ 18 ॥

तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसाऽऽर्जितम् ।
अनुच्छवसन्नभुंजान स्तिष्ठेयं शाश्वतीस्समाः ॥ 19 ॥

न हि मे तप्यमानस्य क्षयं यास्यंति मूर्तयः ।
एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः ॥ 20 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे चतुःषष्टितमस्सर्गः ॥




Browse Related Categories: