View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.100 अयोध्याकांड - शततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ शततमस्सर्गः ।

जटिलं चीरवसनं प्रांजलिं पतितं भुवि ।
ददर्श रामो दुर्दर्शं युगांते भास्करंयथा ॥ 1 ॥

कथंचिदभिविज्ञाय विवर्णवदनं कृशम् ।
भ्रातरं भरतं रामः परिजग्राह बाहुना ॥ 2 ॥

आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः ।
अंके भरतमारोप्य पर्यपृच्छत्समाहितः ॥ 3 ॥

क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः ।
न हि त्वं जीवतस्तस्य वनमागंतुमर्हसि ॥ 4 ॥

चिरस्य बत पश्यामि दूराद्भरतमागतम् ।
दुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः ॥ 5 ॥

कच्चिद्धारयते तात राजा यत्त्वमिहाऽगतः ।
कच्चिन्न दीन स्सहसा राजा लोकांतरं गतः ॥ 6 ॥

कच्चित्सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ।
कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ 7 ॥

कच्चिद्धशरथो राजा कुशली सत्यसंंगरः ।
राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः ॥ 8 ॥

स कच्चिद्ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः ।
इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ 9 ॥

सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती ।
सुखिनी कच्चिदार्या च देवी नंदति कैकयी ॥ 10 ॥

कच्चिद्विनयसंपन्नः कुलपुत्रो बहुश्रुतः ।
अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ 11 ॥

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।
हुतं च होष्यमाणं च काले वेदयते सदा ॥ 12 ॥

कच्चिद्देवान्पित्रून् मातृर्गुरून्पितृसमानपि ।
वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ 13 ॥

इष्वस्त्रवरसंपन्नमर्थशास्त्र विशारदम् ।
सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ 14 ॥

कच्चिदात्मसमा श्शूरा श्श्रुतवंतो जितेंद्रियाः ।
कुलीनाश्चेंगितज्ञाश्च कृतास्ते तात मंत्रिणः ॥ 15 ॥

मंत्रो विजयमूलं हि राज्ञां भवति राघव ।
सुसंवृतो मंत्रधरैरमात्यै श्शास्त्रकोविदैः ॥ 16 ॥

कच्चिन्निद्रावशं नैषीः कच्चित् कालेऽवबुध्यसे ।
कच्चिच्चापररात्रेषु चिंतियस्यर्थनैपुणम् ॥ 17 ॥

कच्चिन्मंत्रयसे नैकः कच्चिन्न बहुभिस्सह ।
कच्चित्ते मंत्रितो मंत्रो राष्ट्रं न परिधावति ॥ 18 ॥

कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।
क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव ॥ 19 ॥

कच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः ।
विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥ 20 ॥

कच्चिन्नतर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः ।
त्वया वा तवामात्यैर्बुध्यते तात मंत्रितम् ॥ 21 ॥

कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पंडितम् ।
पंडितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं महत् ॥ 22 ॥

सहस्राण्यपि मूर्खाणां युद्युपास्ते महीपतिः ।
अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ 23 ॥

एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ 24 ॥

कच्चिन्मुख्या महात्स्वेव मध्यमेषु च मध्यमाः ।
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥ 25 ॥

अमात्यानुपधातीतान्पितृपैतामहांछुचीन् ।
श्रेष्ठांछ्रेष्ठेषुकच्चित्वं नियोजयसि कर्मसु ॥ 26 ॥

कच्चिन्नोग्रेण दंडेन भृशमुद्वेजितप्रजम् ।
राष्ट्रं तवानुजानंति मंत्रिणः कैकयीसुत ॥ 27 ॥

कच्चित्त्वां नावजानंति याजकाः पतितं यथा ।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ 28 ॥

उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् ।
शूरमैश्वर्यकामं च यो न हंति स हन्यते ॥ 29 ॥

कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमान् शुचिः ।
कुलीनश्चानुरक्तश्च दक्षस्सेनापतिः कृतः ॥ 30 ॥

बलवंतश्च कच्चित्ते मुख्या युध्दविशारदाः ।
दृष्टापदाना विक्रांतास्त्वया सत्कृत्यमानिताः ॥ 31 ॥

कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।
संप्राप्तकालं दातव्यं ददासि न विलंबसे ॥ 32 ॥

कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः ।
भर्तुः कुप्यंति दुष्यंति सोऽनर्थ स्सुमहान् स्मृतः ॥ 33 ॥

कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ।
कच्चित्प्राणां स्तवार्थेषु संत्यजंति समाहिताः ॥ 34 ॥

कच्चिज्जानपदो विद्वांदक्षिणः प्रतिभानवान् ।
यथोक्तवादी दूतस्ते कृतो भरत पंडितः ॥ 35 ॥

कच्चिदष्टादशान्येषु स्वपक्षे दश पंच च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ 36 ॥

कच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा ।
दुर्बलाननवज्ञाय वर्तसे रिपुसूदन ॥ 37 ॥

कच्चिन्न लौकायतिकान्ब्राह्मणांस्तात सेवसे ।
अनर्थकुशला ह्येते बालाः पंडितमानिनः ॥ 38 ॥

धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः ।
बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदंति ते ॥ 39 ॥

वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः ।
सत्यनामां दृढ द्वारां हस्त्यश्वरथसंकुलाम् ॥ 40 ॥

ब्राह्मणैः क्षत्रियैर्वैश्यै स्स्वकर्मनिरतैस्सदा ।
जितेंद्रियैर्महोत्साहैर्वृतामार्यै स्सहस्रशः ॥ 41 ॥

प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।
कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ 42 ॥

कच्चिच्चैत्यशतैर्जुष्ट स्सुनिविष्टजनाकुलः ।
देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥ 43 ॥

प्रहृष्टनरनारीकस्समाजोत्सवशोभितः ।
सुकृष्टसीमा पशुमान्हिंसाभिः परिवर्जितः ॥ 44 ॥

अदेवमातृको रम्य श्श्वापदैः परिवर्जितः ।
परित्यक्तो भयैस्सर्वैः खनिभिश्चोपशोभितः ॥ 45 ॥

विवर्जितो नरैः पापैर्मम पूर्वै स्सुरक्षितः ।
कच्चिज्जनपदस्स्फीतः सुखं वसति राघव ॥ 46 ॥

कच्चित्ते दयितास्सर्वे कृषिगोरक्षजीविनः ।
वार्तायां संश्रितस्तात लोको हि सुखमेधते ॥ 47 ॥

तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् ।
रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ 48 ॥

कच्चिस्त्रिय स्सांत्वयसि कच्चित्ताश्च सुरक्षिताः ।
कच्चिन्न श्रद्धास्यासां कच्चिद्गुह्यं न भाषसे ॥ 49 ॥

कच्चिन्नागवनं गुप्तं कच्चित्ते संति धेनुकाः ।
कच्चिन्न गणिकाश्वानां कुंजराणां च तृप्यसि ॥ 50 ॥

कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।
उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ 51 ॥

कच्चिन्न सर्वे कर्मांताः प्रत्यक्षास्तेऽविशंकया ।
सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ 52 ॥

कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः ।
यंत्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ 53 ॥

आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः ।
अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ 54 ॥

देवतार्थे च पित्रर्थेब्राह्मणाभ्यागतेषु च ।
योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥ 55 ॥

कच्चिदार्यो विशुद्धात्मा क्षारित श्चापरकर्मणा ।
अपृष्ट श्शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ 56 ॥

गृहीतश्चैव पृष्टश्च काले दृष्टस्सकारणः ।
कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ 57 ॥

व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।
अर्थं विरागाः पश्यंति तवामात्या बहुश्रुताः ॥ 58 ॥

यानि मिथ्याभिशस्तानां पतंत्यश्रूणि राघव ।
तानि पुत्रान्पशून्घ्नंति प्रीत्यर्थमनुशासतः ॥ 59 ॥

कच्चिद्वृद्धांश्च बालांश्च वैद्यामुख्यांश्च राघव ।
दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ 60 ॥

कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् ।
चैत्यांश्च सर्वान्सिध्दार्थान्ब्राह्मणांश्च नमस्यसि ॥ 61 ॥

कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः ।
उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ 62 ॥

कच्चिदर्थं च धर्मं च कामं च जयतां वर ।
विभज्य काले कालज्ञ सर्वान्वरद सेवसे ॥ 63 ॥

कच्चित्ते ब्राह्मणा श्शर्म सर्वशास्त्रार्थकोविदाः ।
आशंसंते महाप्राज्ञ पौरजानपदैस्सह ॥ 64 ॥

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।
अदर्शनं ज्ञानवतामालस्यं पंचवृत्तिताम् ॥ 65 ॥

एकचिंतनमर्थानामनर्थज्ञैश्च मंत्रणम् ।
निश्चितानामनारंभं मंत्रस्यापरिरक्षणम् ॥ 66 ॥

मंगलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः ।
कच्चित्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ॥ 67 ॥

दशपंचचतुर्वर्गान्सप्तवर्गं च तत्त्वतः ।
अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ 68 ॥

इंद्रियाणां जयं बुद्ध्या षाड्गुण्यं दैवमानुषम् ।
कृत्यं विंशतिवर्गं च तथा प्रकृतिमंडलम् ॥ 69 ॥

यात्रादंडविधानं च द्वियोनी संधिविग्रहौ ।
कच्चिदेतान्महाप्राज्ञ यथावदनुमन्यसे ॥ 70 ॥

मंत्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ।
कच्चित्समस्तैर्व्यस्तैश्च मंत्रं मंत्रयसे मिथः ॥ 71 ॥

कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः ।
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ 72 ॥

कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव ।
आयुष्या च यशस्या च धर्मकामार्थ संहिता ॥ 73 ॥

यां वृत्तिं वर्तते तातो यां च नः प्रपितामहाः ।
तां वृत्तिं वर्तसे कच्चिद्याच सत्पथगा शुभा ॥ 74 ॥

कच्चित्स्वादु कृतं भोज्यमेको नाश्नासि राघव ।
कच्चिदाशंसमानेभ्यो मित्रेभ्य स्संप्रयच्छसि ॥ 75 ॥

राजा तु धर्मेण हि पालयित्वा महामतिर्दंडधरः प्रजानाम् ।
अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत स्स्वर्गमुपैति विद्वान् ॥ 76 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे शततमस्सर्गः ॥




Browse Related Categories: