View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.26 अयोध्याकांड - षड्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षड्विंशस्सर्गः ।

अभिवाद्य च कौसल्यां राम स्संप्रस्थितो वनम् ।
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ 1 ॥

विराजयन्राजसुतो राजमार्गं नरैर्वृतम् ।
हृदयान्याममंथेव जनस्य गुणवत्तया ॥ 2 ॥

अभिवाद्य च कौसल्यां राम स्संप्रस्थितो वनम् ।
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ 3 ॥

विराजयन्राजसुतो राजमार्गं नरैर्वृतम् ।
हृदयान्याममंथेव जनस्य गुणवत्तया ॥ 4 ॥

वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी ।
तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ 5 ॥

देवकार्यं स्वयं कृत्वा कृतज्ञा हृष्टचेतना ।
अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥ 6 ॥

प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् ।
प्रहृष्टजनसंपूर्णं ह्रिया किंचिदवाङ्मुखः ॥ 7 ॥

अथ सीता समुत्पत्य वेपमाना च तं पतिम् ।
अपश्यच्छोकसंतप्तं चिंताव्याकुलितेंद्रियम् ॥ 8 ॥

तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ।
तं शोकं राघवः सोढुं ततो विवृततां गतः ॥ 9 ॥

विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् ।
आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो ॥ 10 ॥

अद्य बार्हस्पत श्श्रीमान्युक्तः पुष्योऽनु राघव ।
प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥ 11 ॥

न ते शतशलाकेन जलफेननिभेन च ।
आवृतं वदनं वल्गु छत्रेणापि विराजते ॥ 12 ॥

व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् ।
चंद्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ 13 ॥

वाग्मिनो वंदिनश्चापि प्रहृष्टास्त्वां नरर्षभ ।
स्तुवंतो नात्र दृश्यंते मंगलैः स्सूतमागधाः ॥ 14 ॥

न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः ।
मूर्ध्नि मूर्धाभिषिक्तस्य ददति स्म विधानतः ॥ 15 ॥

न त्वां प्रकृतय स्सर्वा श्श्रेणीमुख्याश्च भूषिताः ।
अनुव्रजितुमिच्छंति पौरजानपदास्तथा ॥ 16 ॥

चतुर्भिर्वेगसंपन्नैर्हयैः कांचनभूषितैः ।
मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः ॥ 17 ॥

हस्ती चाग्रत श्श्रीमां स्तव लक्षणपूजितः ।
प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः ॥ 18 ॥

न च कांचनचित्रं ते पश्यामि प्रियदर्शन ।
भद्रासनं पुरस्कृत्य यांतं वीर पुरस्कृतम् ॥ 19 ॥

अभिषेको यथा सज्जः किमिदानीमिदं तव ।
अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ 20 ॥

इतीव विलपंतीं तां प्रोवाच रघुनंदनः ।
सीते तत्र भवांस्तातः प्रव्राजयति मां वनम् ॥ 21 ॥

कुले महति संभूते धर्मज्ञे धर्मचारिणि ।
शृणु जानकि येनेदं क्रमेणाभ्यागतं मम ॥ 22 ॥

राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन च ।
कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ ॥ 23 ॥

तयाऽद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते ।
प्रचोदित स्स समयो धर्मेण प्रतिनिर्जितः ॥ 24 ॥

चतुर्दश हि वर्षाणि वस्तव्यं दंडके मया ।
पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ॥ 25 ॥

सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ।
भरतस्य समीपे तु नाहं कथ्यः कदाचन ॥ 26 ॥

बुद्धियुक्ता हि पुरुषा न सहंते परस्तवम् ।
तस्मान्नते गुणाः कथ्या भरतस्याग्रतो मम ॥ 27 ॥

नापि त्वं तेन भर्तव्या विशेषेण कदाचन ।
अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम् ॥ 28 ॥

तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् ।
स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥ 29 ॥

अहं चापि प्रतिज्ञां तां गुरोस्समनुपालयन् ।
वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ॥ 30 ॥

याते च मयि कल्याणि वनं मुनिनिषेवितम् ।
व्रतोपवासपरया भवितव्यं त्वयाऽनघे ॥ 31 ॥

काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ।
वंदितव्यो दशरथः पिता मम नरेश्वरः ॥ 32 ॥

वंदितव्याश्च ते नित्यं या श्शेषा मम मातरः ।
स्नेह प्रणयसंभोगै स्समा हि मम मातरः ॥ 33 ॥

भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः ।
त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ 34 ॥

विप्रियं न च कर्तव्यं भरतस्य कदाचन ।
स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥ 35 ॥

आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः ।
राजान स्संप्रसीदंति कुप्यंतिच विपर्यये ॥ 36 ॥

औरसानपि पुत्रान्हि त्यजंत्यहितकारिणः ।
समर्थान्संप्रगृह्णंति जनानपि नराधिपाः ॥ 37 ॥

सा त्वं वसेह कल्याणि राज्ञस्समनुवर्तिनी ।
भरतस्य रता धर्मे सत्यव्रतपरायणा ॥ 38 ॥

अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि ।
यथा व्यलीकं कुरुषे न कस्य चि त्तथा त्वया कार्यमिदं वचो मम ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षड्विंशस्सर्गः ॥




Browse Related Categories: