View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.3 अयोध्याकांड - तृतीय सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ तृतीयस्सर्गः ।

तेषामंजलिपद्मानि प्रगृहीतानि सर्वशः ।
प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ 1 ॥

अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।
यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ 2 ॥

इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत् ।
वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥ 3 ॥

चैत्रश्श्रीमानयं मासः पुण्यः पुष्पितकाननः ।
यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ 4 ॥

राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।
शनैस्तस्मिन्प्रशांते च जनघोषे जनाधिपः ॥ 5 ॥

वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ।
अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ॥ 6 ॥

तदद्य भगवन् सर्वमाज्ञापयितु मर्हसि ।
तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ॥ 7 ॥

आदिदेशाग्रतो राज्ञ स्स्थितान्युक्तान् कृतांजलीन् ।
सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥ 8 ॥

शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ।
अहतानि च वासांसि रथं सर्वायुधान्यपि ॥ 9 ॥

चतुरंगबलं चैव गजं च शुभलक्षणम् ।
चामरव्यजने श्वेते ध्वजं छत्रं च पांडुरम् ॥ 10 ॥

शतं च शातकुंभानां कुंभानाग्निवर्चसाम् ।
हिरण्यशृंगमृषभं समग्रं व्याघ्रचर्म च ॥ 11 ॥

उपस्थापयत प्रातरग्न्यगारं महीपतेः ।
सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥ 12 ॥

शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ।
अहतानि च वासांसि रथं सर्वायुधान्यपि ॥ 13 ॥

चतुरंगबलं चैव गजं च शुभलक्षणम् ।
चामरव्यजने श्वेते ध्वजं छत्रं च पांडुरम् ॥ 14 ॥

शतं च शातकुंभानां कुंभानाग्निवर्चसाम् ।
हिरण्यशृंगमृषभं समग्रं व्याघ्रचर्म च ॥ 15 ॥

उपस्थापयत प्रातरग्न्यगारं महीपतेः ।
यच्चान्यत्किंचिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥ 16 ॥

अंतःपुरस्य द्वाराणि सर्वस्य नगरस्य च ।
चंदनस्रग्भिरर्च्यंतां धूपैश्च घ्राणहारिभिः ॥ 17 ॥

प्रशस्तमन्नं गुणवद्दधिक्षीरोपसेचनम् ।
द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥ 18 ॥

सत्कृत्य द्विजमुख्यानां श्वःप्रभाते प्रदीयताम् ।
घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥ 19 ॥

सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।
ब्राह्मणाश्च निमंत्र्यंतां कल्प्यंतामासनानि च ॥ 20 ॥

आबध्यंतां पताकाश्च राजमार्गश्च सिंच्यताम् ।
सर्वे च तालावचरा गणिकाश्च स्वलंकृताः ॥ 21 ॥

कक्ष्यां द्वितीयामासाद्य तिष्ठंतु नृपवेश्मनः ।
देवायतनचैत्येषुसान्नभक्षा स्सदक्षिणाः ॥ 22 ॥

उपस्थापयितव्या स्स्युर्माल्ययोग्याः पृथक्पृथक् ।
दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः ॥ 23 ॥

महाराजांगणं सर्वे प्रविशंतु महोदयम् ।
एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ ॥ 24 ॥

चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ।
कृतमित्येव चाब्रूतां अभिगम्य जगत्पतिम् ॥ 25 ॥

यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ।
ततस्सुमंत्रं द्युतिमान्राजा वचनमब्रवीत् ।
रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ 26 ॥

स तथेति प्रतिज्ञाय सुमंत्रो राजशासनात् ॥ 27 ॥

रामं तत्रानयांचक्रे रथेन रथिनां वरम् ।
अथ तत्र समासीना स्तदा दशरथं नृपम् ॥ 28 ॥

प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ।
म्लेच्छाश्चार्याश्च ये चान्ये वनशैलांतवासिनः ॥ 29 ॥

उपासांचक्रिरे सर्वे तं देवा इव वासवम् ।
तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ॥ 30 ॥

प्रासादस्थो रथगतं ददर्शायांतमात्मजम् ।
गंधर्वराजप्रतिमं लोके विख्यातपौरुषम् ॥ 31 ॥

दीर्घबाहुं महासत्त्वं मत्तमातंगगामिनम् ।
चंद्रकांताननं राममतीव प्रियदर्शनम् ॥ 32 ॥

रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ।
घर्माभितप्ताः पर्जन्यं ह्लादयंतमिव प्रजाः ॥ 33 ॥

न ततर्प समायांतं पश्यमानो नराधिपः ।
अवतार्य सुमंत्रस्तं राघवं स्यंदनोत्तमात् ॥ 34 ॥

पितुस्समीपं गच्छंतं प्रांजलिः पृष्ठतोऽन्वगात् ।
स तं कैलासशृंगाभं प्रासादं नरपुंगवः ॥ 35 ॥

आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ।
स प्रांजलिरभिप्रेत्य प्रणतः पितुरंतिके ॥ 36 ॥

नाम स्वं श्रावयन्रामो ववंदे चरणौ पितुः ।
तं दृष्ट्वा प्रणतं पार्श्वे कृतांजलिपुटं नृपः ॥ 37 ॥

गृह्यांजलौ समाकृष्य सस्वजे प्रियमात्मजम् ।
तस्मै चाभ्युदितं दिव्यं मणिकांचनभूषितम् ॥ 38 ॥

दिदेश राजा रुचिरं रामाय परमासनम् ।
तदासनवरं प्राप्य व्यदीपयत राघवः ॥ 39 ॥

स्वयैव प्रभया मेरुमुदये विमलो रविः ।
तेन विभ्राजता तत्र सा सभाऽभिव्यरोचत ॥ 40 ॥

विमलग्रहनक्षत्रा शारदी द्यौरिवेंदुना ।
तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् ॥ 41 ॥

अलंकृतमिवात्मानमादर्शतलसंस्थितम् ।
स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ॥ 42 ॥

उवाचेदं वचो राजा देवेंद्रमिव काश्यपः ।
ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशस्सुतः ॥ 43 ॥

उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ।
यतस्त्वया प्रजाश्चेमा स्स्वगुणैरनुरंजिताः ॥ 44 ॥

तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ।
कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ॥ 45 ॥

गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ।
भूयो विनयमास्थाय भव नित्यं जितेंद्रियः ॥ 46 ॥

कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ।
परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥ 47 ॥

अमात्यप्रभृतीस्सर्वाःप्रकृतीश्चानुरंजय ।
कोष्ठागारायुधागारैःकृत्वा सन्निचयान्बहून् ॥ 48 ॥

तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ।
तस्यनंदंति मित्राणि लब्ध्वाऽमृतमिवामराः ॥ 49 ॥

तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ।
तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ॥ 50 ॥

त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ।
सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥ 51 ॥

व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ।
अथाऽभिवाद्य राजानं रथमारुह्य राघवः ॥ 52 ॥

ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ।
ते चापि पौरा नृपतेर्वचस्त च्छृत्वा तथा लाभमिवेष्टमाशु ।
नरेंद्रमामंत्र्य गृहाणि गत्वा देवान्समानर्चुरतिप्रहृष्टाः ॥ 53 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे तृतीयस्सर्गः ॥




Browse Related Categories: