View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.36 अयोध्याकांड - षट्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षट्त्रिंशस्सर्गः ।

ततस्सुमंत्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया ।
सबाष्पमतिनिश्श्वश्य जगादेदं पुनः पुनः ॥ 1 ॥

सूत रत्नसुसंपूर्णा चतुर्विधबला चमूः ।
राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ 2 ॥

रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः ।
शोभयंतु कुमारस्य वाहिनीं सुप्रसारिताः ॥ 3 ॥

आयुधानि च मुख्यानि नागरा श्शकटानि च ।
अनुगच्छंतु काकुत्स्थं व्याधाश्चारण्य गोचराः ॥ 4 ॥

निघ्नन् मृगान् कुंजरांश्च पिबंश्चारण्यकं मधु ।
नदीश्च विविधाः पश्यन्न राज्यस्य स्मरिष्यति ॥ 5 ॥

धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः ।
तौ राममनुगच्छेतां वसंतं निर्जने वने ॥ 6 ॥

यजन् पुण्येषु देशेषु विसृजं श्चाप्तदक्षिणाः ।
ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ 7 ॥

भरतश्च महाबाहुरयोध्यां पालयिष्यति ।
सर्वकामैः सह श्रीमान् रामः संसाध्यतामिति ॥ 8 ॥

एवं ब्रुवति काकुत्स्थे कैकेय्या भय मागतम् ।
मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत ॥ 9 ॥

सा विषण्णा च संत्रस्ता मुखेन परिशुष्यता ।
राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ 10 ॥

राज्यं गतजनं साधो पीतमंडां सुरामिव ।
निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ 11 ॥

कैकेय्यां मुक्तलज्जायां वदंत्यामतिदारुणाम् ।
राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ 12 ॥

वहंतं किं तुदसि मां नियुज्य धुरि माऽहिते ।
अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः ॥ 13 ॥

तस्यैतत्क्रोधसंयुक्तमुक्तं श्रुत्वा वरांगना ।
कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ 14 ॥

वैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत् ।
असमंज इति ख्यातं तथायं गंतुमर्हति ॥ 15 ॥

एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् ।
व्रीडितश्च जनस्सर्व स्सा च तं नावबुध्यत ॥ 16 ॥

असमंजो गृहीत्वा तु क्रीडतः पथि बालकान् ।
सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ 17 ॥

तं दृष्ट्वा नागरा स्सर्वे कृद्धा राजानमब्रुवन् ।
असमंजं वृणीष्वैकमस्मान्वा राष्ट्रवर्धन ॥ 18 ॥

तानुवाच ततो राजा किन्निमित्तमिदं भयम् ।
ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥ 19 ॥

डक्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रांतचेतनः ।
सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते ॥ 20 ॥

स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः ।
तं तत्याजाहितं पुत्रं तेषां प्रियचिकीर्षया ॥ 21 ॥

तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम् ।
यावज्जीवं विवास्योऽयमिति स्वानन्वशात्पिता ॥ 22 ॥

स फालपिटकं गृह्य गिरिदुर्गाण्यलोडयत् ।
दिश स्सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥ 23 ॥

इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः ।
रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ 24 ॥

न हि कंचन पश्यामो राघवस्यागुणं वयम् ।
दुर्लभो ह्यस्य निरय श्शशांकस्येव कल्मषम् ॥ 25 ॥

अथवा देवि दोषं त्वं कंचित्पश्यसि राघवे ।
तमद्य ब्रूहि तत्वेन तदा रामो विवास्यताम् ॥ 26 ॥

अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च ।
निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥ 27 ॥

तदलं देवि रामस्य श्रिया विहतया त्वया ।
लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने ॥ 28 ॥

श्रुत्वा तु सिद्धार्थवचो राजा श्रांततरस्वनः ।
शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ 29 ॥

एतद्वचो नेच्छसि पापवृत्ते हितं न जानासि ममात्मनो वा ।
आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता ॥ 30 ॥

अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च ।
सहैव राज्ञा भरतेन च त्वं यथासुखं भुंक्ष्व चिराय राज्यम् ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षट्त्रिंशस्सर्गः ॥




Browse Related Categories: