View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.48 अयोध्याकांड - अष्टचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अष्टचत्वारिंशस्सर्गः ।

तेषामेवं विषण्णानां पीडितानामतीव च ।
बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ॥ 1 ॥

अनुगम्य निवृत्तानां रामं नगरवासिनाम् ।
उद्गतानीव सत्वानि बभूवुरमनस्विनाम् ॥ 2 ॥

तेषामेवं विषण्णानां पीडितानामतीव च ।
बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ॥ 3 ॥

अनुगम्य निवृत्तानां रामं नगरवासिनाम् ।
उद्गतानीव सत्वानि बभूवुरमनस्विनाम् ॥ 4 ॥

स्वं स्वं निलयमागम्य पुत्रदारैस्समावृता ।
अश्रूणि मुमुचुस्सर्वे बाष्पेण पिहिताननाः ॥ 5 ॥

न चाहृष्यन् नचामोदन् वणिजो न प्रसारयन् ।
न चाशोभंत पण्यानि नापचन् गृहमेधिनः ॥ 6 ॥

नष्टं दृष्ट्वा नाभ्यनंदन् विपुलं वा धनागमम् ।
पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनंदत ॥ 7 ॥

गृहे गृहे रुदंत्यश्च भर्तारं गृहमागतम् ।
व्यगर्हयंत दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान् ॥ 8 ॥

किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा ।
पुत्रैर्वा किं सुखैर्वापि ये न पश्यंति राघवम् ॥ 9 ॥

एकः सत्पुरुषो लोके लक्ष्मण स्सह सीतया ।
योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने ॥ 10 ॥

आपगाः कृतपुण्यास्ता पद्मिन्यश्च सरांसि च ।
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ॥ 11 ॥

शोभयिष्यंति काकुत्स्थमटव्यो रम्यकाननाः ।
आपगाश्च महानूपाः सानुमंतश्च पर्वताः ॥ 12 ॥

काननं वापि शैलं वा यं रामोऽधिगमिष्यति ।
प्रियातिथिमिव प्राप्तं नैनं शक्ष्यंत्यनर्चितुम् ॥ 13 ॥

विचित्रकुसुमापीडा बहुमंजरि धारिणः ।
राघवं दर्शयिष्यंति नगा भ्रमरशालिनः ॥ 14 ॥

अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।
दर्शयिष्यंत्यनुक्रोशाद्गिरयो राममागतम् ॥ 15 ॥

प्रस्रविष्यंति तोयानि विमलानि महीधराः ।
विदर्शयंतो विविधान् भूयश्चित्रांश्च निर्झरान् ॥ 16 ॥

पादपाः पर्वताग्रेषु रमयिष्यंति राघवम् ।
यत्र रामो भयं नात्र नास्ति तत्र पराभवः ॥ 17 ॥

स हि शूरो महाबाहुः पुत्रो दशरथस्य च ।
पुरा भवति नोदूरादनुगच्छाम राघवम् ॥ 18 ॥

पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः ।
स हि नाथो जनस्यास्य स गति स्सपरायणम् ॥ 19 ॥

वयं परिचरिष्यामः सीतां यूयं तु राघवम् ।
इति पौरस्त्रियो भर्तृन् दुखार्तास्तत्तदब्रुवन् ॥ 20 ॥

युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति ।
सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥ 21 ॥

को न्वनेनाऽप्रतीतेन सोत्कंठितजनेन च ।
संप्रियेतामनोज्ञेन वासेन हृतचेतसा ॥ 22 ॥

कैकेय्या यदि चे द्राज्यं स्यादधर्म्यमनाथवत् ।
न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥ 23 ॥

यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् ।
कं सा परिहरेदन्यं कैकेयी कुलपांसनी ॥ 24 ॥

कैकेय्या न वयं राज्ये भृतका निवसेमहि ।
जीवंत्या जातु जीवंत्यः पुत्रैरपि शपामहे ॥ 25 ॥

या पुत्रं पार्थिवेंद्रस्य प्रवासयति निर्घृणा ।
कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम् ॥ 26 ॥

उपद्रुतमिदं सर्वमनालंबमनायकम् ।
कैकेय्या हि कृते सर्वं विनाशमुपयास्यति ॥ 27 ॥

न हि प्रव्रजिते रामे जीविष्यति महीपतिः ।
मृते दशरथे व्यक्तं विलापस्तदनंतरम् ॥ 28 ॥

ते विषं पिबतालोड्य क्षीणपुण्या स्सुदुर्गताः ।
राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत ॥ 29 ॥

मिथ्याप्रव्राजितो राम स्ससीत स्सहलक्ष्मणः ।
भरते सन्निसृष्टास्स्म स्सौनिके पशवो यथा ॥ 30 ॥

पूर्णचंद्रानन श्श्यामो गूढजत्रुररिंदमः ।
आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः ॥ 31 ॥

पूर्वाभिभाषी मधुर स्सत्यवादी महाबलः ।
सौम्यस्सर्वस्य लोकस्य चंद्रवत्प्रियदर्शनः ॥ 32 ॥

नूनं पुरुषशार्दूलो मत्तमातंगविक्रमः ।
शोभयिष्यत्यरण्यानि विचरन् स महारथः ॥ 33 ॥

तास्तथा विलपंत्यस्तु नगरे नागरस्त्रियः ।
चुक्रुशु र्दुःखसंतप्ता मृत्योरिव भयागमे ॥ 34 ॥

इत्येवं विलपंतीनां स्त्रीणां वेश्मसु राघवम् ।
जगामास्तं दिनकरो रजनी चाभ्यवर्तत ॥ 35 ॥

नष्टज्वलनसंतापा प्रशांताध्यायसत्कथा ।
तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ ॥ 36 ॥

उपशांतवणिक्पण्या नष्टहर्षा निराश्रया ।
अयोध्या नगरी चासीन्नष्टतारमिवांबरम् ॥ 37 ॥

तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते ।
विलप्य दीना रुरुदुर्विचेतस स्सूतैर्हि तासामधिको हि सोऽभवत् ॥ 38 ॥

प्रशांतगीतोत्सवनृत्तवादना व्यपास्तहर्षा पिहितापणोदया ।
तदा ह्ययोध्या नगरी बभूव सा महार्णव स्संक्षपितोदको यथा ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अष्टचत्वारिंशस्सर्गः ॥




Browse Related Categories: