View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.5 अयोध्याकांड - पंचम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ पंचमस्सर्गः ।

संदिश्य रामं नृपति श्श्वोभाविन्यभिषेचने ।
पुरोहितं समाहूय वशिष्ठमिदमब्रवीत् ॥ 1 ॥

गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन ।
श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥ 2 ॥

तथेति च स राजानमुक्त्वा वेदविदां वरः ।
स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम् ॥ 3 ॥

उपवासयितुं रामं मंत्रवन्मंत्रकोविदः ।
ब्राह्मं रथवरं युक्तमास्थाय सुदृढव्रतः ॥ 4 ॥

स रामभवनं प्राप्य पांडुराभ्रघनप्रभम् ।
तिस्रः कक्ष्या रथेनैव विवेशमुनिसत्तमः ॥ 5 ॥

तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः ।
मानयिष्यन्समानार्हं निश्चक्राम निवेशनात् ॥ 6 ॥

अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः ।
ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥ 7 ॥

स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च ।
प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः ॥ 8 ॥

प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि ।
उपवासं भवानद्य करोतु सह सीतया ॥ 9 ॥

प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।
पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ 10 ॥

इत्युक्त्वा स तदा राममुपवासं यतव्रतम् ।
मंत्रवत्कारयामास वैदेह्या सहितं मुनिः ॥ 11 ॥

ततो यथावद्रामेण स राज्ञो गुरुरर्चितः ।
अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ 12 ॥

सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः ।
सभाजितो विवेशाऽथ ताननुज्ञाप्य सर्वशः ॥ 13 ॥

हृष्टनारीनरयुतं रामवेश्म तदा बभौ ।
यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥ 14 ॥

स राजभवनप्रख्यात्तस्माद्रामनिवेशानात् ।
निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥ 15 ॥

बृंदबृंदैरयोध्यायां राजमार्गास्समंततः ।
बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ॥ 16 ॥

जनबृंदोर्मिसंघर्षहर्षस्वनवतस्तदा ।
बभूव राजमार्गस्य सागरस्येव निस्वनः ॥ 17 ॥

सिक्तसम्मृष्टरथ्या हि तदहर्वनमालिनी ।
आसीदयोध्यानगरी समुच्छ्रितगृहध्वजा ॥ 18 ॥

तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः ।
रामाभिषेकमाकांक्षन्नाकांक्षदुदयं रवेः ॥ 19 ॥

प्रजालंकारभूतं च जनस्यानंदवर्धनम् ।
उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥ 20 ॥

एवं तज्जनसंबाधं राजमार्गं पुरोहितः ।
व्यूहन्निव जनौघं तं शनै राजकुलं ययौ ॥ 21 ॥

सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः ।
समीयाय नरेंद्रेण शक्रेणेव बृहस्पतिः ॥ 22 ॥

तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ।
पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥ 23 ॥

चैव तदा तुल्यं सहासीनास्सभासदः ।
आसनेभ्यस्समुत्तस्थुः पूजयंतः पुरोहितम् ॥ 24 ॥

गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् ।
विवेशांतः पुरं राजा सिंहो गिरिगुहामिव ॥ 25 ॥

तदग्य्रवेषप्रमदाजनाकुलं महेंद्रवेश्मप्रतिमं निवेशनम् ।
विदीपयंश्चारु विवेश पार्थिव श्शशीव तारागणसंकुलं नभः ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे पंचमस्सर्गः ॥




Browse Related Categories: