View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.50 अयोध्याकांड - पंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ पंचाशस्सर्गः ।

विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः ।
अयोध्याभिमुखो धीमान् प्रांजलिर्वाक्यमब्रवीत् ॥ 1 ॥

आपृच्छे त्वां पुरीश्रेष्ठे काकुत्स्थपरिपालिते ।
दैवतानि च यानि त्वां पालयंति वसंति च ॥ 2 ॥

निवृत्तवनवासस्त्वामनृणो जगतीपतेः ।
पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह संगतः ॥ 3 ॥

ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् ।
अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम् ॥ 4 ॥

अनुक्रोशो दया चैव यथार्हं मयि वः कृतः ।
चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥ 5 ॥

तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम् ।
विलपंतो नरा घोरं व्यतिष्ठंत क्वचित् क्वचित् ॥ 6 ॥

तथा विलपतां तेषामतृप्तानां च राघवः ।
अचक्षुर्विषयं प्रायाद्यथार्कः क्षणदामुखे ॥ 7 ॥

ततो धान्यधनोपेतान् दानशीलजनान् शिवान् ।
अकुतश्चिद्भयान् रम्यांश्चैत्ययूपसमावृतान् ॥ 8 ॥

उद्यानाम्रवनोपेतान् संपन्नसलिलाशयान् ।
तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥ 9 ॥

लक्षणीयान्नरेंद्राणां ब्रह्मघोषाभिनादितान् ।
रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥ 10 ॥

मध्येनमुदितं स्फीतं रम्योद्यानसमाकुलम् ।
राज्यं भोग्यं नरेंद्राणां ययौ धृतिमतां वरः ॥ 11 ॥

तत स्त्रिपथगां दिव्यां शिवतोयामशैवलाम् ।
ददर्श राघवो गंगां पुण्यामृषिनिषेविताम् ॥ 12 ॥

आश्रमैरविदूरस्थैः श्रीमद्भिस्समलंकृताम् ।
कालेऽप्सरोभिर्हृष्टाभि स्सेवितांभोह्रदां शिवाम् ॥ 13 ॥

देवदानवगंधर्वैः किन्नरैरुपशोभिताम् ।
नानागंधर्वपत्नीभि स्सेवितां सततं शिवाम् ॥ 14 ॥

देवाऽऽक्रीडशताकीर्णां देवोद्यानशतायुताम् ।
देवार्थमाकाशगमां विख्यातां देवपद्मिनीम् ॥ 15 ॥

जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम् ।
क्वचिद्वेणीकृतजलां क्वचिदावर्तशोभिताम् ॥ 16 ॥

क्वचित् स्तिमितगंभीरां क्वचिद्वेगजलाकुलाम् ।
क्वचिद्गंभीरनिर्घोषां क्वचिद्भैरवनिस्वनाम् ॥ 17 ॥

देवसंघाप्लुतजलां निर्मलोत्पलशोभिताम् ।
क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम् ॥ 18 ॥

हंससारससंघुष्टां चक्रवाकोपकूजिताम् ।
सदा मदैश्च विहगैरभिसन्नादितांतराम् ॥ 19 ॥

क्वचित्तीररुहैर्वृक्षैर्मालाभिरिवशोभिताम् ।
क्वचित्फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम् ॥ 20 ॥

क्वचित्कुमुदषंडैश्च कुड्मलैरुपशोभिताम् ।
नानापुष्परजोध्वस्तां समदामिव च क्वचित् ॥ 21 ॥

व्यपेतमलसंघातां मणिनिर्मलदर्शनाम् ।
दिशागजैर्वनगजै र्मत्तैश्च वरवारणैः ॥ 22 ॥

देवोपवाह्यैश्च मुहुस्सन्नादितवनांतराम् ।
प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः ॥ 23 ॥

फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा ।
शिंशुमारैश्च नक्रैश्च भुजंगैश्च निषेविताम् ॥ 24 ॥

विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ।
तां शंकरजटाजूटाद्भ्रष्टां सागरतेजसा ॥ 25 ॥

समुद्रमहिषीं गंगां सारसक्रौंचनादिताम् ।
आससाद महाबाहुः शृंगिबेरपुरं प्रति ॥ 26 ॥

तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः ।
सुमंत्रमब्रवीत्सूतमिहैवाद्य वसामहे ॥ 27 ॥

अविदूरादयं नद्या बहुपुष्पप्रवालवान् ।
सुमहानिंगुदीवृक्षो वसामोऽत्रैव सारथे ॥ 28 ॥

द्रक्ष्याम स्सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम् ।
देवदानवगंधर्वमृगमानुषपक्षिणाम् ॥ 29 ॥

लक्ष्मणश्च सुमंत्रश्च बाढमित्येव राघवम् ।
उक्त्वा तमिंगुदीवृक्षं तदोपययतुर्हयैः ॥ 30 ॥

रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनंदनः ।
रथादवातरत्तस्मात्सभार्य स्सहलक्ष्मणः ॥ 31 ॥

सुमंत्रोऽप्यवतीर्यास्मान्मोचयित्वा हयोत्तमान् ।
वृक्षमूलगतं राममुपतस्थे कृतांजलिः ॥ 32 ॥

तत्र राजा गुहो नाम रामस्यात्मसमस्सखा ।
निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः ॥ 33 ॥

स शृत्वा पुरुषव्याघ्रं रामं विषयमागतम् ।
वृद्धैः परिवृतोऽमात्यैः ज्ञातिभिश्चाभ्युपागतः ॥ 34 ॥

ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम् ।
सह सौमित्रिणा राम स्समागच्छद्गुहेन सः ॥ 35 ॥

तमार्तस्संपरिष्वज्य गुहो राघवमब्रवीत् ।
यथाऽयोध्या तथेयं ते राम किं करवाणि ते ॥ 36 ॥

ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम् ।
ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् ॥ 37 ॥

अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच ह ।
स्वागतं ते महाबाहो तवेयमखिला मही ॥ 38 ॥

वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः ।
भक्ष्यं भोज्यं च पेयं च लेह्यंचेदमुपस्थितम् ॥ 39 ॥

शयनानि च मुख्यानि वाजिनां खादनं च ते ।
एवं ब्रुवाणं तु गुहं राघवः प्रत्युवाच ह ॥ 40 ॥

अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् ।
पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन च ॥ 41 ॥

भुजाभ्यां साधु पीनाभ्यां पीडयन्वाक्यमब्रवीत् ।
दिष्ट्या त्वां गुह पश्यामि ह्यरोगं सह बांधवैः ।
अपि ते कुशलं राष्ट्रे मित्रेषु च धनेषु च ॥ 42 ॥

यत्त्विदं भवता किंचित्प्रीत्या समुपकल्पितम् ।
सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे ॥ 43 ॥

कुशचीराजिनधरं फलमूलाशिनं च माम् ।
विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥ 44 ॥

अश्वानां खादनेनाहमर्थी नान्येन केनचित् ।
एतावताऽत्र भवता भविष्यामि सुपूजितः ॥ 45 ॥

एते हि दयिता राज्ञः पितुर्दशरथस्य मे ।
एतैस्सुविहितैरश्वै भविष्याम्यहमर्चितः ॥ 46 ॥

अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् ।
गुहस्तत्रैव पुरुषां स्त्वरितं दीयतामिति ॥ 47 ॥

ततश्चीरोत्तरासंगः संध्यामन्वास्य पश्चिमाम् ।
जलमेवाददे भोज्यं लक्ष्मणेनाऽऽहृतं स्वयम् ॥ 48 ॥

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।
सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥ 49 ॥

गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन् ।
अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः ॥ 50 ॥

तथा शयानस्य ततोऽस्य धीमतो यशस्विनो दाशरथेर्महात्मनः ।
अदृष्टदुःखस्य सुखोचितस्य सा तदाव्यतीयाय चिरेण शर्वरी ॥ 51 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे पंचाशस्सर्गः ॥




Browse Related Categories: