श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ पंचाशस्सर्गः ।
विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः ।
अयोध्याभिमुखो धीमान् प्रांजलिर्वाक्यमब्रवीत् ॥ 1 ॥
आपृच्छे त्वां पुरीश्रेष्ठे काकुत्स्थपरिपालिते ।
दैवतानि च यानि त्वां पालयंति वसंति च ॥ 2 ॥
निवृत्तवनवासस्त्वामनृणो जगतीपतेः ।
पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह संगतः ॥ 3 ॥
ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् ।
अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम् ॥ 4 ॥
अनुक्रोशो दया चैव यथार्हं मयि वः कृतः ।
चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥ 5 ॥
तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम् ।
विलपंतो नरा घोरं व्यतिष्ठंत क्वचित् क्वचित् ॥ 6 ॥
तथा विलपतां तेषामतृप्तानां च राघवः ।
अचक्षुर्विषयं प्रायाद्यथार्कः क्षणदामुखे ॥ 7 ॥
ततो धान्यधनोपेतान् दानशीलजनान् शिवान् ।
अकुतश्चिद्भयान् रम्यांश्चैत्ययूपसमावृतान् ॥ 8 ॥
उद्यानाम्रवनोपेतान् संपन्नसलिलाशयान् ।
तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥ 9 ॥
लक्षणीयान्नरेंद्राणां ब्रह्मघोषाभिनादितान् ।
रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥ 10 ॥
मध्येनमुदितं स्फीतं रम्योद्यानसमाकुलम् ।
राज्यं भोग्यं नरेंद्राणां ययौ धृतिमतां वरः ॥ 11 ॥
तत स्त्रिपथगां दिव्यां शिवतोयामशैवलाम् ।
ददर्श राघवो गंगां पुण्यामृषिनिषेविताम् ॥ 12 ॥
आश्रमैरविदूरस्थैः श्रीमद्भिस्समलंकृताम् ।
कालेऽप्सरोभिर्हृष्टाभि स्सेवितांभोह्रदां शिवाम् ॥ 13 ॥
देवदानवगंधर्वैः किन्नरैरुपशोभिताम् ।
नानागंधर्वपत्नीभि स्सेवितां सततं शिवाम् ॥ 14 ॥
देवाऽऽक्रीडशताकीर्णां देवोद्यानशतायुताम् ।
देवार्थमाकाशगमां विख्यातां देवपद्मिनीम् ॥ 15 ॥
जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम् ।
क्वचिद्वेणीकृतजलां क्वचिदावर्तशोभिताम् ॥ 16 ॥
क्वचित् स्तिमितगंभीरां क्वचिद्वेगजलाकुलाम् ।
क्वचिद्गंभीरनिर्घोषां क्वचिद्भैरवनिस्वनाम् ॥ 17 ॥
देवसंघाप्लुतजलां निर्मलोत्पलशोभिताम् ।
क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम् ॥ 18 ॥
हंससारससंघुष्टां चक्रवाकोपकूजिताम् ।
सदा मदैश्च विहगैरभिसन्नादितांतराम् ॥ 19 ॥
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिवशोभिताम् ।
क्वचित्फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम् ॥ 20 ॥
क्वचित्कुमुदषंडैश्च कुड्मलैरुपशोभिताम् ।
नानापुष्परजोध्वस्तां समदामिव च क्वचित् ॥ 21 ॥
व्यपेतमलसंघातां मणिनिर्मलदर्शनाम् ।
दिशागजैर्वनगजै र्मत्तैश्च वरवारणैः ॥ 22 ॥
देवोपवाह्यैश्च मुहुस्सन्नादितवनांतराम् ।
प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः ॥ 23 ॥
फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा ।
शिंशुमारैश्च नक्रैश्च भुजंगैश्च निषेविताम् ॥ 24 ॥
विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ।
तां शंकरजटाजूटाद्भ्रष्टां सागरतेजसा ॥ 25 ॥
समुद्रमहिषीं गंगां सारसक्रौंचनादिताम् ।
आससाद महाबाहुः शृंगिबेरपुरं प्रति ॥ 26 ॥
तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः ।
सुमंत्रमब्रवीत्सूतमिहैवाद्य वसामहे ॥ 27 ॥
अविदूरादयं नद्या बहुपुष्पप्रवालवान् ।
सुमहानिंगुदीवृक्षो वसामोऽत्रैव सारथे ॥ 28 ॥
द्रक्ष्याम स्सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम् ।
देवदानवगंधर्वमृगमानुषपक्षिणाम् ॥ 29 ॥
लक्ष्मणश्च सुमंत्रश्च बाढमित्येव राघवम् ।
उक्त्वा तमिंगुदीवृक्षं तदोपययतुर्हयैः ॥ 30 ॥
रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनंदनः ।
रथादवातरत्तस्मात्सभार्य स्सहलक्ष्मणः ॥ 31 ॥
सुमंत्रोऽप्यवतीर्यास्मान्मोचयित्वा हयोत्तमान् ।
वृक्षमूलगतं राममुपतस्थे कृतांजलिः ॥ 32 ॥
तत्र राजा गुहो नाम रामस्यात्मसमस्सखा ।
निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः ॥ 33 ॥
स शृत्वा पुरुषव्याघ्रं रामं विषयमागतम् ।
वृद्धैः परिवृतोऽमात्यैः ज्ञातिभिश्चाभ्युपागतः ॥ 34 ॥
ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम् ।
सह सौमित्रिणा राम स्समागच्छद्गुहेन सः ॥ 35 ॥
तमार्तस्संपरिष्वज्य गुहो राघवमब्रवीत् ।
यथाऽयोध्या तथेयं ते राम किं करवाणि ते ॥ 36 ॥
ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम् ।
ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् ॥ 37 ॥
अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच ह ।
स्वागतं ते महाबाहो तवेयमखिला मही ॥ 38 ॥
वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः ।
भक्ष्यं भोज्यं च पेयं च लेह्यंचेदमुपस्थितम् ॥ 39 ॥
शयनानि च मुख्यानि वाजिनां खादनं च ते ।
एवं ब्रुवाणं तु गुहं राघवः प्रत्युवाच ह ॥ 40 ॥
अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् ।
पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन च ॥ 41 ॥
भुजाभ्यां साधु पीनाभ्यां पीडयन्वाक्यमब्रवीत् ।
दिष्ट्या त्वां गुह पश्यामि ह्यरोगं सह बांधवैः ।
अपि ते कुशलं राष्ट्रे मित्रेषु च धनेषु च ॥ 42 ॥
यत्त्विदं भवता किंचित्प्रीत्या समुपकल्पितम् ।
सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे ॥ 43 ॥
कुशचीराजिनधरं फलमूलाशिनं च माम् ।
विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥ 44 ॥
अश्वानां खादनेनाहमर्थी नान्येन केनचित् ।
एतावताऽत्र भवता भविष्यामि सुपूजितः ॥ 45 ॥
एते हि दयिता राज्ञः पितुर्दशरथस्य मे ।
एतैस्सुविहितैरश्वै भविष्याम्यहमर्चितः ॥ 46 ॥
अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् ।
गुहस्तत्रैव पुरुषां स्त्वरितं दीयतामिति ॥ 47 ॥
ततश्चीरोत्तरासंगः संध्यामन्वास्य पश्चिमाम् ।
जलमेवाददे भोज्यं लक्ष्मणेनाऽऽहृतं स्वयम् ॥ 48 ॥
तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।
सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥ 49 ॥
गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन् ।
अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः ॥ 50 ॥
तथा शयानस्य ततोऽस्य धीमतो यशस्विनो दाशरथेर्महात्मनः ।
अदृष्टदुःखस्य सुखोचितस्य सा तदाव्यतीयाय चिरेण शर्वरी ॥ 51 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे पंचाशस्सर्गः ॥