View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.65 अयोध्याकांड - पंचषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ पंचषष्टितमस्सर्गः ।

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि ।
वंदिनः पर्युपातिष्ठंस्तत्पार्थिव निवेशनम् ॥ 1 ॥

सूताः परमसंस्कारा मंगलाश्चोत्तमश्रुताः ।
गायकाः स्तुतिशीलाश्च निगदंतः पृथक् पृथक् ॥ 2 ॥

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि ।
वंदिनः पर्युपातिष्ठंस्तत्पार्थिव निवेशनम् ॥ 3 ॥

सूताः परमसंस्कारा मंगलाश्चोत्तमश्रुताः ।
गायकाः स्तुतिशीलाश्च निगदंतः पृथक् पृथक् ॥ 4 ॥

राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम् ।
प्रासादाऽभोगविस्तीर्णः स्तुतिशब्दोह्यवर्तत ॥ 5 ॥

ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः ।
अपदानान्युदाहृत्य पाणिवादा नवादयन् ॥ 6 ॥

तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।
शाखास्थाः पंजरस्थाश्च ये राजकुलगोचराः ॥ 7 ॥

व्याहृताः पुण्यशब्दाश्च वीणानां चापि निस्स्वनाः ।
आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ॥ 8 ॥

तत श्शुचिसमाचाराः पर्युपस्थानकोविदाः ।
स्त्रीवर्ष धरभूयिष्ठा उपतस्थुर्यथापुरम् ॥ 9 ॥

हरिचंदनसंपृक्तमुदकं कांचनैर्घटैः ।
आनिन्युस्स्नानशिक्षाज्ञा यथाकालं यथाविधि ॥ 10 ॥

मंगलालंभनीयानि प्राशनीयान्युपस्करान् ।
उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः ॥ 11 ॥

सर्वलक्षणसंपन्नं सर्वं विधिवदर्चितम् ।
सर्वं सुगुणलक्ष्मीवत्तद्बभूवाभिहारिकम् ॥ 12 ॥

तत स्सूर्योदयं यावत्सर्वं परिसमुत्सुकम् ।
तस्थावनुपसंप्राप्तं किंस्विदित्युपशंकितम् ॥ 13 ॥

अथ याः कोसलेंद्रस्य शयनं प्रत्यनंतराः ।
ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ॥ 14 ॥

तथाप्युचितवृत्ता स्ता विनयेन नयेन च ।
नह्यस्य शयनं स्पृष्ट्वा किंचिदप्युपलेभिरे ॥ 15 ॥

ताः स्त्रियस्स्वप्नशीलज्ञाश्चेष्टासंचलनादिषु ता वेपथुपरीताश्च राज्ञः प्राणेषु शंकिताः ।
प्रतिस्रोतस्तृणाग्राणां सदृशं संचकाशिरे ॥ 16 ॥

अथ संदेहमानानां स्त्रीणां दृष्ट्वा च पार्थिवम् ।
यत्तदाशंकितं पापं तस्य जज्ञे विनिश्चयः ॥ 17 ॥

कौसल्या च सुमत्रच पुत्रशोकपराजिते ।
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ॥ 18 ॥

निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ।
न व्यराजत कौसल्या तारेव तिमिरावृता ॥ 19 ॥

कौसल्याऽनंतरं राज्ञस्सुमित्रा तदंतनरम् ।
न स्म विभ्राजते देवी शोकाश्रुलुलितानना ॥ 20 ॥

ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तं नृपम् ।
सुप्तमेवोद्गतप्राणमंतःपुरमदृश्यत ॥ 21 ॥

ततः प्रचुक्रुशुर्दीना स्सस्वरं ता वरांगनाः ।
करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥ 22 ॥

तासामाक्रंदशब्देन सहसोद्धतचेतने ।
कौसल्या च सुमित्रा च त्यक्त निद्रे बभूवतुः ॥ 23 ॥

कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ।
हा नाथेति परिक्रुश्य पेततुर्धरणीतले ॥ 24 ॥

सा कोसलेंद्रदुहिता वेष्टमाना महीतले ।
न बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता ॥ 25 ॥

नृपे शांतगुणे जाते कौसल्यां पतितां भुवि ।
अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव ॥ 26 ॥

ततस्सर्वा नरेंद्रस्य कैकेयीप्रमुखाः स्त्रियः ।
रुदंत्य श्शोकसंतप्ता निपेतुर्गतचेतनाः ॥ 27 ॥

ताभिस्स बलवान्नादः क्रोशंतीभिरनुद्रुतः ।
येन स्फीतीकृतं भूयस्तद्गृहं समनादयत् ॥ 28 ॥

तत् परित्रस्तंत्रसंभ्रांत पर्युत्सुकजनाकुलम् ।
सर्वतस्तुमुलाक्रंदं परितापार्तबांधवम् ॥ 29 ॥

सद्यो निपतितानंदं दीनविक्लबदर्शनम् ।
बभूव नरदेवस्य सद्म दिष्टांतमीयुषः ॥ 30 ॥

अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं संपरिवार्य पत्नयः ।
भृशं रुदंत्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत् ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे पंचषष्टितमस्सर्गः ॥




Browse Related Categories: