View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.7 अयोध्याकांड - सप्तम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्तमस्सर्गः ।

ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता ।
प्रासादं चंद्रसंकाशमारुरोह यदृच्छया ॥ 1 ॥

सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् ।
अयोध्यां मंथरा तस्मात्प्रासादादन्ववैक्षत ॥ 2 ॥

पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम् ।
वृतां छंदपथैश्चापि शिरस्स्नातजनैर्वृताम् ॥ 3 ॥

माल्यमोदकहस्तैश्च द्विजेंद्रैरभिनादिताम् ।
शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम् ॥ 4 ॥

संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।
प्रहृष्टवरहस्त्यश्वां संप्रणर्दितगोवृषाम् ॥ 5 ॥

प्रहृष्टमुदितैः पौरैरुच्छ्रितध्वजमालिनीम् ।
अयोध्यां मंथरा दृष्ट्वा परं विस्मयमागता ॥ 6 ॥

प्रहर्षोत्फुल्लनयनां पांडुरक्षौमवासिनीम् ।
अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मंथरा ॥ 7 ॥

उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ।
राममाता धनं किन्नु जनेभ्यस्संप्रयच्छति ॥ 8 ॥

अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे ।
कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥ 9 ॥

विदीर्यमाणा हर्षेण धात्री तु परया मुदा ।
आचचक्षेऽथ कुब्जायै भूयसीं राघव श्रियम् ॥ 10 ॥

श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।
राजा दशरथो राममभिषेचयिताऽनघम् ॥ 11 ॥

धात्र्यास्तु वचनं शृत्वा कुब्जा क्षिप्रममर्षिता ।
कैलासशिखराकारा त्प्रासादादवरोहत ॥ 12 ॥

सा दह्यमाना कोपेन मंथरा पापदर्शिनी ।
शयानामेत्य कैकेयीमिदं वचनमब्रवीत् ॥ 13 ॥

उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।
उपप्लुतामौघेन किमात्मानं न बुध्यसे ॥ 14 ॥

अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे ।
चलं हि तव सौभाग्यं नद्यास्स्रोत इवोष्णगे ॥ 15 ॥

एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।
कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥ 16 ॥

कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं नु मंथरे ।
विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥ 17 ॥

मंथरा तु वच श्श्रुत्वा कैकेय्या मधुराक्षरम् ।
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥ 18 ॥

सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।
विषादयंती प्रोवाच भेदयंती च राघवम् ॥ 19 ॥

अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् ।
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥ 20 ॥

साऽस्म्यगाधे भये मग्ना दुःखशोकसमन्विता ।
दह्यमानाऽनलेनेव त्वद्धितार्थमिहागता ॥ 21 ॥

तव दुःखेन कैकेयि मम दुःखं महद्भवेत् ।
त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥ 22 ॥

नराधिपकुले जाता महिषी त्वं महीपतेः ।
उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥ 23 ॥

धर्मावादी शठो भर्ता श्लक्ष्णवादी च दारुणः ।
शुद्धभावे न जानीषे तेनैव मतिसंधिता ॥ 24 ॥

उपस्थितः प्रयुंजानस्त्वयि सांत्वमनर्थकम् ।
अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥ 25 ॥

उपवाह्य स दुष्टात्मा भरतं तव बंधुषु ।
काल्ये स्थापयिता रामं राज्ये निहतकंटके ॥ 26 ॥

शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।
आशीविष इवांकेन बाले परिधृतस्त्वया ॥ 27 ॥

यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।
राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ 28 ॥

पापेनानृतसांत्वेन बाले नित्यसुखोचिते ।
रामं स्थापयता राज्ये सानुबंधा हता ह्यसि ॥ 29 ॥

सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव ।
त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ 30 ॥

मंथाराया वचश्श्रुत्वा शयाना सा शुभानना ।
उत्तस्थौ हर्षसंपूर्णा चंद्रलेखेव शारदी ॥ 31 ॥

अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता ।
एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥ 32 ॥

दत्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।
कैकेयी मंथरां दृष्ट्वा पुनरेवाब्रवीदिदम् ॥ 33 ॥

इदं तु मंथरे मह्यमाख्यासि परमं प्रियम् ।
एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥ 34 ॥

रामे वा भरते वाऽहं विशेषं नोपलक्षये ।
तस्मात्तुष्टाऽस्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥ 35 ॥

न मे परं किंचिदितस्त्वया पुनः प्रियं प्रियार्हे सुवचं वचःपरम् ।
तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु ॥ 36 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्तमस्सर्गः ॥




Browse Related Categories: