View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.71 अयोध्याकांड - एकसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकसप्ततितमस्सर्गः ।

स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।
ततः सुदामां द्युतिमान् सम्तीर्वावेक्ष्य तां नदीम् ॥ 1 ॥

ह्लादिनीं दूरपारां च प्रत्यक्स्रोतस्तरंगिणीम् ।
शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनंदनः ॥ 2 ॥

स प्राङ्मुखो राजगृहादभिनिर्याय राघवः ।
ततस्सुदामां द्युतिमान् संतीर्यावेक्ष्य तां नदीम् ॥ 3 ॥

ह्लादिनीं दूरपारां च प्रत्यक्स्रोतस्तरंगिणीम् ।
शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनंदनः ॥ 4 ॥

ऐलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् ।
शिलामकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्षणम् ॥ 5 ॥

सत्यसंधश्शुचिश्श्रीमान्प्रेक्षमाण श्शिलावहाम् ।
अत्ययात्स महाशैलान्वनं चैत्ररथं प्रति ॥ 6 ॥

सरस्वतीं च गंगां च युग्मेन प्रतिपद्यच ।
उत्तरान्वीरमत्स्यानां भारुंडं प्राविशद्वनम् ॥ 7 ॥

वेगिनीं च कुलिंगाख्यां ह्लादिनीं पर्वताऽऽवृताम् ।
यमुनां प्राप्य संतीर्णः बलमाश्वासयत्तदा ॥ 8 ॥

सशीतीकृत्य तु गात्राणि क्लांतानाश्वास्य वाजिनः ।
तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् ॥ 9 ॥

राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् ।
भद्रो भद्रेण यानेन मारुतः खमिवात्ययात् ॥ 10 ॥

भागीरथीं दुष्प्रतरामंशुधाने महानदीम् ।
उपायाद्राघवस्तूर्णं प्राग्वटे विश्रुते पुरे ॥ 11 ॥

स गंगां प्राग्वटे तीर्त्वा समायात्कुटिकोष्ठिकाम् ।
सबल स्तां स तीर्त्वाऽथ समायाद्धर्मवर्धनम् ॥ 12 ॥

तोरणं दक्षिणार्धेन जंभूप्रस्थमुपागमत् ।
वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः ॥ 13 ॥

तत्र रम्ये वने वासं कृत्वाऽसौ प्राङ्मुखो ययौ ।
उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ॥ 14 ॥

सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः ।
अनुज्ञाप्याथ भरतः वाहिनीं त्वरितो ययौ ॥ 15 ॥

वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम् ।
अन्या नदीश्च विविधाः पार्वतीयैस्तुरंगमैः ॥ 16 ॥

हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत ।
ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् ॥ 17 ॥

एकसाले स्थाणुमतीं विनते गोमतीं नदीम् ।
कलिंगनगरे चापि प्राप्य सालवनं तदा ॥ 18 ॥

भरतः क्षिप्रमागच्छत्सुपरिश्रांतवाहनः ।
वनं च समतीत्याशुशर्वर्यामरुणोदये ॥ 19 ॥

अयोध्यां मनुना राज्ञा निर्मितां संददर्श ह ।
तां पुरीं पुरुषव्याघ्रस्सप्तरात्रोषितः पथि ॥ 20 ॥

अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत् ।
एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी ॥ 21 ॥

अयोध्या दृश्यते दूरात्सारथे पांडुमृत्तिका ।
यज्वभिर्गुणसंपन्नैर्ब्राह्मणैर्वेदपारगैः ॥ 22 ॥

भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता ।
एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी ॥ 23 ॥

अयोध्या दृश्यते दूरात्सारथे पांडुमृत्तिका ।
यज्वभिर्गुणसंपन्नैर्ब्राह्मणैर्वेदपारगैः ॥ 24 ॥

भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता ।
अयोध्यायां पुरा शब्दश्श्रूयते तुमुलो महान् ॥ 25 ॥

समंतान्नरनारीणां तमद्य न श्रुणोम्यहम् ।
उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः ॥ 26 ॥

समंतात्परिधावद्भिः प्रकाशंते ममान्यथा ।
तान्यद्यानुरुदंतीव परित्यक्तानि कामिभिः ॥ 27 ॥

अरण्यभूतेव पुरी सारथे प्रतिभाति मे ।
न ह्यत्र यानैर्दृश्यंते न गजैर्न च वाजिभिः ॥ 28 ॥

निर्यांतो वाऽभियांतो वा नरमुख्या यथापुरम् ।
उद्यानानि पुरा भांति मत्तप्रमुदितानि च ॥ 29 ॥

जनानां रतिसंयोगेष्वत्यंतगुणवंति च ।
तान्येतान्यद्य पश्यामि निरानंदानि सर्वशः ॥ 30 ॥

स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव द्रुमैः ।
नाद्यापि श्रूयते शब्दः मत्तानां मृगपक्षिणाम् ॥ 31 ॥

संरक्तां मधुरां वाणीं कलं व्याहरतां बहु ।
चंदनागरुसंपृक्तो धूपसम्मूर्छितोऽतुलः ॥ 32 ॥

प्रवाति पवन श्श्रीमान्किन्नुनाद्य यथापुरम् ।
भेरीमृदंगवीणानां कोणसंघट्टितः पुनः ॥ 33 ॥

किमद्य शब्दो विरतस्सदा दीनगतिः पुरा ।
अनिष्टानि च पापानि पश्यामि विविधानि च ॥ 34 ॥

निमित्तान्यमनोज्ञानितेन सीदति मे मनः ।
सर्वथा कुशलं सूत दुर्लभं मम बंदुषु ॥ 35 ॥

तथाह्यसति सम्मोहे हृदयं सीदतीव मे ।
विषण्ण श्श्रांतहृदयस्त्रस्त स्सुलुलितेंद्रियः ॥ 36 ॥

भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।
द्वारेण वैजयंतेन प्राविशच्छ्रांतवाहनः ॥ 37 ॥

द्वास्स्थैरुत्थाय विजयं पृष्टस्तै स्सहितो ययौ ।
स त्वनेकाग्रहृदयो द्वास्स्थं प्रत्यर्च्य तं जनम् ॥ 38 ॥

सूतमश्वपतेः क्लांतमब्रवीत्तत्र राघवः ।
किमहं त्वरयाऽनीतः कारणेन विनानघ ॥ 39 ॥

अशुभाशंकि हृदयं शीलं च पततीव मे ।
श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने ॥ 40 ॥

आकारांस्तानहं सर्वानिहपश्यामि सारथे ।
सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥ 41 ॥

असंयत कवाटानि श्रीविहीनानि सर्वशः ।
बलिकर्मविहीनानि धूपसम्मोदनेन च ॥ 42 ॥

अनाशितकुटुंबानि प्रभाहीनजनानि च ।
अलक्ष्मीकानि पश्यामि कुटुंबिभवनान्यहम् ॥ 43 ॥

सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥ 44 ॥

असंयत कवाटानि श्रीविहीनानि सर्वशः ।
बलिकर्मविहीनानि धूपसम्मोदनेन च ॥ 45 ॥

अनाशितकुटुंबानि प्रभाहीनजनानि च ।
अलक्ष्मीकानि पश्यामि कुटुंबिभवनान्यहम् ॥ 46 ॥

अपेतमाल्यशोभानि ह्यसम्मृष्टाजिराणि च ।
देवागाराणि शून्यानि न चाभांति यथापुरम् ॥ 47 ॥

देवतार्चाः प्रविद्धाश्च यज्ञगोष्ठ्यस्तथाविधाः ।
माल्यापणेषु राजंते नाद्य पण्यानि वा तथा ॥ 48 ॥

दृश्यंते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।
ध्यानसंविग्नहृदयाः नष्टव्यापारयंत्रिताः ॥ 49 ॥

देवायतनचैत्येषु दीनाः पक्षिगणास्तथा ॥ 50 ॥

मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् ।
सस्त्रीपुंसं च पश्यामि जनमुत्कंठितं पुरे ॥ 51 ॥

इत्येवमुक्त्वा भरतस्सूतं तं दीनमानसः ।
तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ ॥ 52 ॥

तां शून्यशृंगाटकवेश्मरथ्यां रजोऽरुणद्वारकवाटयंत्राम् ।
दृष्ट्वा पुरीमिंद्रपुरप्रकाशां दुःखेन संपूर्णतरो बभूव ॥ 53 ॥

बहूनि पश्यन्मनसोऽप्रियाणि यान्यन्यदा नास्य पुरे बभूवुः ।
अवाक्छिरा दीनमना नहृष्टः पितुर्महात्मा प्रविवेश वेश्म ॥ 54 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकसप्ततितमस्सर्गः ॥




Browse Related Categories: