View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.83 अयोध्याकांड - त्र्याशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ त्र्याशीतितमस्सर्गः ।

तत स्समुत्थितः काल्यमास्थाय स्यंदनोत्तमम् ।
प्रययौ भरतश्शीघ्रं रामदर्शनकांक्षया ॥ 1 ॥

अग्रतः प्रययुस्तस्य सर्वे मंत्रिपुरोधसः ।
अधिरुह्य हयैर्युक्तान्रथान्सूर्यरथोपमान् ॥ 2 ॥

नवनागसहस्राणि कल्पितानि यथाविधि ।
अन्वयुर्भरतं यांतमिक्ष्वाकुकुलनंदनम् ॥ 3 ॥

षष्टी रथसहस्राणि धन्विनो विविधायुधाः ।
अन्वयुर्भरतं यांतं राजपुत्रं यशस्विनम् ॥ 4 ॥

शतं सहस्राण्यश्वानां समारूढानि राघवम् ।
अन्वयुर्भरतं यांतं सत्यसंधं जितेंद्रियम् ॥ 5 ॥

कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।
रामानयनसंहृष्टा ययुर्यानेन भास्वता ॥ 6 ॥

प्रयाताश्चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम् ।
तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः ॥ 7 ॥

मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् ।
कदा द्रक्ष्यामहे रामं जगत श्शोकनाशनम् ॥ 8 ॥

दृष्ट एव हि न श्शोकमपनेष्यति राघवः ।
तम स्सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥ 9 ॥

इत्येवं कथयंतस्ते संप्रहृष्टाः कथा श्शुभाः ।
परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः ॥ 10 ॥

ये च तत्रापरे सर्वे सम्मता ये च नैगमाः ।
रामं प्रति ययुर्हृष्टा स्सर्वाः प्रकृतयस्तथा ॥ 11 ॥

मणिकाराश्च ये केचित्कुंभकाराश्च शोभनाः ।
सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः ॥ 12 ॥

मयूरकाः क्राकचिका रोचका वेधकास्तथा ।
दंतकारा स्सुधाकारा स्तथा गंधोपजीविनः ॥ 13 ॥

सुवर्णकाराः प्रख्यातास्तथा कंबलधावकाः ।
स्नापकोष्णोदका वैद्याधूपकाश्शौंडिकास्तथा ॥ 14 ॥

रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः ।
शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्तकास्तथा ॥ 15 ॥

समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः ।
गोरथैर्भरतं यांतमनुजग्मु स्सहस्रशः ॥ 16 ॥

सुवेषा श्शुद्धवसनास्ताम्रमृष्टानुलेपनाः ।
सर्वे ते विविधैर्यानै श्शनैर्भरतमन्वयुः ॥ 17 ॥

प्रहृष्टमुदिता सेना साऽन्वयात्कैकयीसुतम् ।
भ्रातुरानयने यांतं भरतं भ्रातृवत्सलम् ॥ 18 ॥

ते गत्वा दूरमध्वानं रथयानाश्वकुंजरैः ।
समासेदुस्ततो गंगां शृंगीबेरपुरं प्रति ॥ 19 ॥

यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ।
निवसत्यप्रमादेन देशं तं परिपालयन् ॥ 20 ॥

उपेत्य तीरं गंगायाश्चक्रवाकैरलंकृतम् ।
व्यवातिष्ठत सा सेना भरतस्यानुयायिनी ॥ 21 ॥

निरीक्ष्यानुगतां सेनां तां च गंगां शिवोदकाम् ।
भरतस्सचिवान्सर्वानब्रवीद्वाक्यकोविदः ॥ 22 ॥

निवेशयत मे सैन्यमभिप्रायेण सर्वतः ।
विश्रांताः प्रतरिष्यामश्श्व इदानीमिमां नदीम् ॥ 23 ॥

दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः ।
और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम् ॥ 24 ॥

तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः ।
न्यवेशयंस्तां छंदेन स्वेन स्वेन पृथक्पृथक् ॥ 25 ॥

निवेश्य गंगामनु तां महानदीं चमूं विधानैः परिबर्हशोभिनीम् ।
उवास रामस्य तदा महात्मनो विचिंतयानो भरतो निवर्तनम् ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे त्र्याशीतितमस्सर्गः ॥




Browse Related Categories: