View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.88 अयोध्याकांड - अष्टाशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अष्टाशीतितमस्सर्गः ।

तच्छ्रुत्वा निपुणं सर्वं भरत स्सह मंत्रिभिः ।
इंगुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ॥ 1 ॥

अब्रवीज्जननी स्सर्वा इह तेन महात्मना ।
शर्वरी शयिता भूमाविदमस्य विमर्दितम् ॥ 2 ॥

तच्छ्रुत्वा निपुणं सर्वं भरत स्सह मंत्रिभिः ।
इंगुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ॥ 3 ॥

अब्रवीज्जननी स्सर्वा इह तेन महात्मना ।
शर्वरी शयिता भूमाविदमस्य विमर्दितम् ॥ 4 ॥

महाभागकुलीनेन महाभागेन धीमता ।
जातो दशरथेनोर्व्यां न रामस्स्वप्तु मर्हति ॥ 5 ॥

अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये ।
शयित्वा पुरुषव्याघ्रः कथं शेते महीतले ॥ 6 ॥

प्रासादाग्रविमानेषु वलभीषु च सर्वदा ।
हैमराजतभौमेषु वरास्तरणशालिषु ॥ 7 ॥

पुष्पसंचयचित्रेषु चंदनागरुगंधिषु ।
पांडुराभ्रप्रकाशेषु शुकसंघरूतेषुच ॥ 8 ॥

प्रासादवरवर्येषु शीतवत्सु सुगंधिषु ।
उषित्वामेरुकल्पेषु कृतकांचन भित्तिषु ॥ 9 ॥

गीतवादित्रनिर्घोषैर्वराभरणनिस्स्वनैः ।
मृदंगवरशब्दैश्च सततं प्रतिबोधितः ॥ 10 ॥

वंदिभिर्वंदितः काले बहुभि स्सूतमागधैः ।
गाथाभिरनुरूपाभि स्स्तुतिभिश्च परंतपः ॥ 11 ॥

अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा ।
मुह्यते खलु मे भाव स्स्वप्नोऽयमिति मे मतिः ॥ 12 ॥

न नूनं दैवतं किंचित्कालेन बलवत्तरम् ।
यत्र दाशरथी रामो भूमावेव शयीत सः ॥ 13 ॥

विदेहराजस्य सुता सीता च प्रियदर्शना ।
दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ 14 ॥

इयं शय्या मम भ्रातुरिदं हि परिवर्तितम् ।
स्थंडिले कठिने सर्वं गात्रै र्विमृदितं तृणम् ॥ 15 ॥

मन्ये साभरणा सुप्ता सीताऽस्मिंछयनोत्तमे ।
तत्र तत्र हि दृश्यंते सक्ताः कनकबिंदवः ॥ 16 ॥

उत्तरीयमिहाऽसक्तं सुव्यक्तं सीतया तदा ।
तथा ह्येते प्रकाशंते सक्ताः कौशेयतंतवः ॥ 17 ॥

मन्ये भर्तु स्सुखा शय्या येन बाला तपस्विनी ।
सुकुमारी सती दुःखं न हि विजानाति मैथिली ॥ 18 ॥

हा हंताऽस्मि नृशंसोऽहं यत्सभार्यः कृते मम ।
ईदृशीं राघवश्शय्यामधिशेते ह्यनाथवत् ॥ 19 ॥

सार्वभौमकुले जात स्सर्वलोकस्य सम्मतः ।
सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तम् ॥ 20 ॥

कथमिंदीवरश्यामो रक्ताक्षः प्रियदर्शनः ।
सुखभागी न दुःखार्ह श्शयितो भुवि राघवः ॥ 21 ॥

धन्यः खलु महाभागो लक्ष्मण श्शुभलक्षणः ।
भ्रातरं विषमे काले यो राममनुवर्तते ॥ 22 ॥

सिद्धार्था खलु वैदेही पतिं याऽनुगता वनम् ।
वयं संशयिता स्सर्वे हीनास्तेन महात्मना ॥ 23 ॥

आकर्णधारा पृथिवी नौः इव प्रतिभाति मा ।
गते दशरथे स्वर्गं रामे चारण्यमाश्रिते ॥ 24 ॥

न च प्रार्थयते कच्चिन्मनसापि वसुंधराम् ।
वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ॥ 25 ॥

शून्यसंवरणारक्षामयंत्रितहयद्विपाम् ।
अपावृतपुरद्वारां राजधानीमरक्षिताम् ॥ 26 ॥

अप्रहृष्टबलां शून्यां विषमस्थामनावृताम् ।
शत्रवो नाभिमन्यंते भक्षान्विषकृतानिव ॥ 27 ॥

अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा ।
फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥ 28 ॥

तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने ।
तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ॥ 29 ॥

वसंतं भ्रातुरर्थाय शत्रुघ्नो माऽनुवत्स्यति ।
लक्ष्मणेन सहत्वार्यो ह्ययोध्यां पालयिष्यति ॥ 30 ॥

अभिषेक्ष्यंति काकुत्स्थमयोध्यायां द्विजातयः ।
अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् ॥ 31 ॥

प्रसाद्यमान श्शिरसा मया स्वयं बहुप्रकारं यदि नाभिपत्स्यते ।
ततोऽनुवत्स्यामि चिराय राघवं वनेचरन्नार्हति मामुपेक्षितुम् ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अष्टाशीतितमस्सर्गः ॥




Browse Related Categories: