View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.12 अरण्यकांड - द्वादश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ द्वादशस्सर्गः ।

सप्रविश्याऽश्रमपदं लक्ष्मणो राघवानुजः ।
अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ॥ 1 ॥

राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली ।
रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ॥ 2 ॥

लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः ।
अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥ 3 ॥

ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् ।
द्रष्टुमिच्छामहे सर्वे भगवंतं निवेद्यताम् ॥ 4 ॥

तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य तपोधनः ।
तथेत्युक्त्वाऽग्निशरणं प्रविवेश निवेदितुम् ॥ 5 ॥

स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् ।
कृतांजलिरुवाचेदं रामागमनमंजसा ॥ 6 ॥

यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः ।
पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च ॥ 7 ॥

प्रविष्टावाश्रमपदं सीतया सह भार्यया ।
द्रष्टुं भवंतमायातौ शुश्रूषार्थमरिंदमौ ॥ 8 ॥

यदत्रानंतरं तत्त्वमाज्ञापयितुमर्हसि ।
ततश्शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ॥ 9 ॥

वैदेहीं च महाभागामिदं वचनमब्रवीत् ।
दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः ॥ 10 ॥

मनसा कांक्षितं ह्यस्य मयाप्यागमनं प्रति ।
गम्यतां सत्कृतो रामस्सभार्यस्सहलक्ष्मणः ॥ 11 ॥

प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः ।
एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना ॥ 12 ॥

अभिवाद्याब्रवीच्छिष्यस्तथेति नियतांजलिः ।
ततो निष्क्रम्य संभ्रांतश्शिष्यो लक्ष्मणमब्रवीत् ॥ 13 ॥

क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् ।
ततो गत्वाऽऽश्रमपदं शिष्येण सह लक्ष्मणः ॥ 14 ॥

दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ।
तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं ब्रुवन् ॥ 15 ॥

प्रावेशयद्यथान्यायं सत्कारार्हं सुसत्कृतम् ।
प्रविवेश ततो रामस्सीतया सहलक्ष्मणः ॥ 16 ॥

प्रशांतहरिणाकीर्णमाश्रमं ह्यवलोकयन् ।
स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ॥ 17 ॥

विष्णोः स्थानं महेंद्रस्य स्थानं चैव विवस्वतः ।
सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ॥ 18 ॥

दातुर्विधातुः स्थानेच वायोः स्थानं तथैव च ।
नागराजस्य च स्थानमनंतस्य महात्मनः ॥ 19 ॥

स्थानं तथैव गायत्र्या वसूनां स्थानमेव च ।
स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ॥ 20 ॥

कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ।
स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ॥ 21 ॥

विष्णोः स्थानं महेंद्रस्य स्थानं चैव विवस्वतः ।
सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ॥ 22 ॥

धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च ।
नागराजस्य च स्थानमनंतस्य महात्मनः ॥ 23 ॥

स्थानं तथैव गायत्र्या वसूनां स्थानमेव च ।
स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ॥ 24 ॥

कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ।
स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ॥ 25 ॥

विष्णोः स्थानं महेंद्रस्य स्थानं चैव विवस्वतः ।
सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ॥ 26 ॥

दातुर्विधातुः स्थानेच वायोः स्थानं तथैव च ।
नागराजस्य च स्थानमनंतस्य महात्मनः ॥ 27 ॥

स्थानं तथैव गायत्र्या वसूनां स्थानमेव च ।
स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ॥ 28 ॥

कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ।
ततश्शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ॥ 29 ॥

तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् ।
अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ॥ 30 ॥

एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः ।
औदार्येणावगच्छामि निधानं तपसामिमम् ॥ 31 ॥

एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम् ।
जग्राह परमप्रीतस्तस्य पादौ परंतपः ॥ 32 ॥

अभिवाद्य तु धर्मात्मा तस्थौ रामः कृतांजलिः ।
सीतया सह वैदेह्या तदा रामः सलक्ष्मणः ॥ 33 ॥

प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः ।
कुशलप्रश्नमुक्त्वा च आस्यतामिति चाब्रवीत् ॥ 34 ॥

अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य च ।
वानप्रस्थ्येन धर्मेण स तेषां भोजनं ददौ ॥ 35 ॥

प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः ।
उवाच राममासीनं प्रांजलिं धर्मकोविदम् ॥ 36 ॥

अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत् ।
अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् ॥ 37 ॥

दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ।
राजा सर्वस्य लोकस्य धर्मचारी महारथः ॥ 38 ॥

पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः ।
एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् ॥ 39 ॥

पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् ।
इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ॥ 40 ॥

वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ।
अमोघस्सूर्यसंकाशो ब्रह्मदत्तश्शरोत्तमः ॥ 41 ॥

दत्तौ मम महेंद्रेण तूणी चाक्षयसायकौ ।
संपूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः ॥ 42 ॥

महारजतकोशोऽयमसिर्हेमविभूषितः ।
अनेन धनुषा राम हत्वा संख्ये महासुरान् ॥ 43 ॥

आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ।
तद्धनुस्तौ च तूणीरौ शरं खंगं च मानद ॥ 44 ॥

जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ।
एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् ।
दत्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ॥ 45 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे द्वादशस्सर्गः ॥




Browse Related Categories: