View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.53 अरण्यकांड - त्रिपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ त्रिपंचाशस्सर्गः ।

खमुत्पतंतं तं दृष्ट्वा मैथिली जनकात्मजा ।
दुःखिता परमोद्विग्ना भये महति वर्तिनी ॥ 1 ॥

रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् ।
रुदंती करुणं सीता ह्रियमाणेदमब्रवीत् ॥ 2 ॥

न व्यपत्रपसे नीच कर्मणानेन रावण ।
ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे ॥ 3 ॥

त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता ।
ममापवाहितो भर्ता मृगरूपेण मायया ॥ 4 ॥

यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः ।
गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥ 5 ॥

परमं खलु ते वीर्यं दृश्यते राक्षसाधम ।
विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया ॥ 6 ॥

ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे ।
स्त्रियाश्च हरणं नीच रहिते च परस्य च ॥ 7 ॥

कथयिष्यंति लोकेषु पुरुषाः कर्म कुत्सितम् ।
सुनृशंसमधर्मिष्ठं तव शौंडीर्यमानिनः ॥ 8 ॥

धिक्ते शौर्यं च सत्त्वं च यत्त्वं कथितवांस्तदा ।
कुलाक्रोशकरं लोके धिक्ते चारित्रमीदृशम् ॥ 9 ॥

किं कर्तुं शक्यमेवं हि यज्जवेनैव धावसि ।
मुहूर्तमपि तिष्ठस्व न जीवन्प्रतियास्यसि ॥ 10 ॥

न हि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः ।
ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ 11 ॥

न त्वं तयोश्शरस्पर्शं सोढुं शक्तः कथंचन ।
वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः ॥ 12 ॥

साधु कुर्वाऽऽत्मनः पथ्यं साधु मां मुंच रावण ।
मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम ॥ 13 ॥

विधास्यति विनाशाय त्वं मां यदि न मुंचसि ।
येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ॥ 14 ॥

व्यवसायस्स ते नीच भविष्यति निरर्थकः ।
न ह्यहं तमपश्यंती भर्तारं विबुधोपमम् ॥ 15 ॥

उत्सहे शत्रुवशगा प्राणांधारयितुं चिरम् ।
न नूनं चात्मनः पथ्यं श्रेयो वा समवेक्षसे ॥ 16 ॥

मृत्युकाले यथा मर्त्यो विपरीतानि सेवते ।
मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते ॥ 17 ॥

पश्याम्यद्य हि कंठेत्वां कालपाशावपाशितम् ।
यथा चास्मिन्भयस्थाने न बिभेषि दशानन ॥ 18 ॥

व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान् ।
नदीं वैतरणीं घोरां रुधिरौघनिवाहिनीम् ॥ 19 ॥

असिपत्रवनं चैव भीमं पश्यसि रावण ।
तप्तकांचनपुष्पां च वैडूर्यप्रवरच्छदाम् ॥ 20 ॥

द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कंटकैश्चिताम् ।
न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ॥ 21 ॥

धरितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः ।
बद्धस्त्वं कालपाशेन दुर्निवारेण रावण ॥ 22 ॥

क्वगतो लप्स्यसे शर्म भर्तुर्मम महात्मनः ।
निमेषांतरमात्रेण विना भ्रात्रा महावने ॥ 23 ॥

राक्षसा निहता येन सहस्राणि चतुर्दश ।
स कथं राघवो वीरस्सर्वास्त्रकुशलो बली ॥ 24 ॥

न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् ।
तच्चान्यच्च परुषं वैदेही रावणांकगा ॥ 25 ॥

भयशोकसमाविष्टा करुणं विललाप ह ।
तथा भृशार्तां बहुचैव भाषिणीं विलापपूर्वं करुणं च भामिनीम् ।
जहार पापः करुणं विचेष्टतीं नृपात्मजामागतगात्रवेपथुम् ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे त्रिपंचाशस्सर्गः ॥




Browse Related Categories: