View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.72 अरण्यकांड - द्विसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ द्विसप्ततितमस्सर्गः ।

एवमुक्तौतु तौ वीरौ कबंधेन नरेश्वरौ ।
गिरिप्रदरमासाद्य पावकं विससर्जतुः ॥ 1 ॥

लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिस्समंततः ।
चितामादीपयामास सा प्रजज्वाल सर्वतः ॥ 2 ॥

तच्छरीरं कबंधस्य घृतपिंडोपमं महत् ।
मेदसा पच्यमानस्य मंदं दहति पावकः ॥ 3 ॥

स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः ।
अरजे वाससी बिभ्रन्मालां दिव्यां महाबलः ॥ 4 ॥

ततश्चिताया वेगेन भास्वरो विमलांबरः ।
उत्पपाताशु संहृष्टस्सर्वप्रत्यंगभूषणः ॥ 5 ॥

विमाने भास्वरे तिष्ठन्हंसयुक्ते यशस्करे ।
प्रभया च महातेजा दिशो दश विराजयन् ॥ 6 ॥

सोऽंतरिक्षगतो रामं कबंधो वाक्यमब्रवीत् ।
शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि ॥ 7 ॥

राम षड्युक्तयो लोके याभिस्सर्वं विमृश्यते ।
परिमृष्टो दशांतेन दशाभागेन सेव्यते ॥ 8 ॥

दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः ।
यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् ॥ 9 ॥

तदवश्यं त्वया कार्यस्ससुहृत्सुहृदां वर ।
अकृत्वा हि न ते सिद्धिमहं पश्यामि चिंतयन् ॥ 10 ॥

श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः ।
भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना ॥ 11 ॥

ऋश्यमूके गिरिवरे पंपापर्यंतशोभिते ।
निवसत्यात्मवान्वीरश्चतुर्भिस्सह वानरैः ॥ 12 ॥

वानरेंद्रो महावीर्यस्तेजोवानमितप्रभः ।
सत्यसंधो विनीतश्च धृतिमान्मतिमान्महान् ॥ 13 ॥

दक्षः प्रगल्भो द्युतिमान्महाबलपराक्रमः ।
भ्रात्रा विवासितो राम राज्यहेतोर्महाबलः ॥ 14 ॥

स ते सहायो मित्रं च सीतायाः परिमार्गणे ।
भविष्यति हिते राम मा च शोके मनः कृथाः ॥ 15 ॥

भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा ।
कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः ॥ 16 ॥

गच्छ श्रीघ्रमितो राम सुग्रीवं तं महाबलम् ।
वयस्यं तं कुरु क्षिप्रमितो गत्वाऽद्य राघव ॥ 17 ॥

अद्रोहाय समागम्य दीप्यमाने विभावसौ ।
स च ते नावमंतव्यस्सुग्रीवो वानराधिपः ॥ 18 ॥

कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् ।
शक्तौह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् ॥ 19 ॥

कृतार्थो वाऽकृतार्थो वा कृत्यं तव करिष्यति ।
स ऋक्षरजसः पुत्रः पंपामटति शंकितः ॥ 20 ॥

भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः ।
सन्निधायायुधं क्षिप्रमृष्यमूकालयं कपिम् ॥ 21 ॥

कुरु राघव सत्येन वयस्यं वनचारिणम् ।
स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुंजरः ॥ 22 ॥

नरमांसाशिनां लोके नैपुण्यादधिगच्छति ।
न तस्याविदितं लोकेकिंचिदस्ति हि राघव ॥ 23 ॥

यावत्सूर्यः प्रतपति सहस्रांशुररिंदम ।
स नदीर्विपुलान्शैलान् गिरिदुर्गाणि कंदरान् ॥ 24 ॥

अन्वीक्ष्य वानरैस्सार्धं पत्नीं तेऽधिगमिष्यति ।
वानरांश्च महाकायान्प्रेषयिष्यति राघव ॥ 25 ॥

दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् ।
स ज्ञास्यति वरारोहां निर्मलां रावणालये ॥ 26 ॥

स मेरुशृंगाग्रगतामनिंदितां प्रविश्य पातालतलेऽपि वा श्रिताम् ।
प्लवंगमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे द्विसप्ततितमस्सर्गः ॥




Browse Related Categories: