View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.26 किष्किंधाकांड - षड्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ षड्विंशस्सर्गः ।

ततश्शोकाभिसंतप्तं सुग्रीवं क्लिन्नवाससम् ।
शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥ 1 ॥

अभिगम्य महाबाहुं राममक्लिष्टकारिणम् ।
स्थिताः प्रांजलयस्सर्वे पितामहमिवर्षयः ॥ 2 ॥

ततः कांचनशैलाभ स्तरुणार्कनिभाननः ।
अब्रवीत्प्रांजलिर्वाक्यं हनूमान्मारुतात्मजः ॥ 3 ॥

भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् ।
वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो ॥ 4 ॥

भवता समनुज्ञातः प्रविश्य नगरं शुभम् ॥ 5 ॥

संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ।
स्नातोऽयं विविधैर्गंधैरौषधैश्च यथाविधि ॥ 6 ॥

अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ।
इमां गिरिगुहां रम्यामभिगंतुमितोऽर्हसि ॥ 7 ॥

कुरुष्व स्वामिसंबंधं वानरान्संप्रहर्षय ।
एवमुक्तो हनुमता राघवः परवीरहा ॥ 8 ॥

प्रत्युवाच हनूमंतं बुद्धिमान्वाक्यकोविदः ।
चतुर्दश समास्सौम्य ग्रामं वा यदि वा पुरम् ॥ 9 ॥

न प्रवेक्ष्यामि हनुमन्पितुर्निर्देशपालकः ।
सुसमृद्धां गुहां रम्यां सुग्रीवो वानरर्षभः ॥ 10 ॥

प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् ।
एवमुक्त्वा हनूमंतं रामस्सुग्रीवमब्रवीत् ॥ 11 ॥

वृत्तज्ञो वृत्तसंपन्नमुदारबलविक्रमम् ।
इममप्यंगदं वीर यौवराज्येऽभिषेचय ॥ 12 ॥

ज्येष्ठस्य स सुतो ज्येष्ठस्सदृशो विक्रमेण ते ।
अंगदोऽयमदीनात्मा यौवराज्यस्य भाजनम् ॥ 13 ॥

पूर्वोऽयं वार्षिको मासः श्रावणस्सलिलागमः ।
प्रवृत्तास्सौम्य चत्वारो मासा वार्षिकसज्ञिकाः ॥ 14 ॥

नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ।
अस्मिन्वत्स्याम्यहं सौम्य पर्वते सह लक्ष्मणः ॥ 15 ॥

इयं गिरिगुहा रम्या विशाला युक्तमारुता ।
प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥ 16 ॥

कार्तिके समनुप्राप्ते त्वं रावणवधे यत ।
एष नस्समयस्सौम्य प्रविश त्वं स्वमालयम् ॥ 17 ॥

अभिषिक्तस्व राज्ये च सुहृदस्संप्रहर्षय ।
इति रामाभ्यनुज्ञातस्सुग्रीवो वानराधिपः ॥ 18 ॥

प्रविवेश पुरीं रम्यां किष्किंधां वालिपालिताम् ।
तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् ॥ 19 ॥

अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन् ।
ततः प्रकृतयस्सर्वा दृष्ट्वा हरिगणेश्वरम् ॥ 20 ॥

प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ।
सुग्रीवः प्रकृतीस्सर्वास्संभाष्योत्थाप्य वीर्यवान् ॥ 21 ॥

भ्रातुरंतःपुरं सौम्यं प्रविवेश महाबलः ।
प्रविश्य त्वभिनिष्क्रांतं सुग्रीवं प्लवगेश्वरम् ॥ 22 ॥

अभ्यषिंचंत सुहृदस्सहस्राक्षमिवामराः ।
तस्य पांडुरमाजह्रुश्छत्रं हेमपरिष्कृतम् ॥ 23 ॥

शुक्ले च वालव्यजने हेमदंडे यशस्करे ।
तथा सर्वाणि रत्नानि सर्वबीजौषधीरपि ॥ 24 ॥

सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च ।
शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् ॥ 25 ॥

सुगंधीनि च माल्यानि स्थलजान्यंबुजानि च ।
चंदनानि च दिव्यानि गंधांश्च विविधान्बहून् ॥ 26 ॥

अक्षतं जातरूपं च प्रियंगुमधुसर्पिषी ।
दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ ॥ 27 ॥

समालंभनमादाय रोचनां समनश्शिलाम् ।
आग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश ॥ 28 ॥

ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि ।
रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान् ॥ 29 ॥

ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम् ।
मंत्रपूतेन हविषा हुत्वा मंत्रविदो जनाः ॥ 30 ॥

ततो हेमप्रतिष्ठाने वरास्तरणसंवृते ।
प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥ 31 ॥

प्राङ्मुखं विविधैर्मंत्रैः स्थापयित्वा वरासने ।
नदीनदेभ्यस्संहृत्य तीर्थेभ्यश्च समंततः ॥ 32 ॥

आहृत्य च समुद्रेभ्यस्सर्वेभ्यो वानरर्षभाः ।
अपः कनककुंभेषु निधाय विमलाश्शुभाः ॥ 33 ॥

शुभैर्वृषभशृंगैश्च कलशैश्चापि कांचनैः ।
शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ 34 ॥

गजो गवाक्षो गवयश्शरभो गंधमादनः ।
मैंदश्च द्विविदश्चैव हनुमान्जांबवान्नलः ॥ 35 ॥

अभ्यषिंचंत सुग्रीवं प्रसन्नेन सुगंधिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ 36 ॥

अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः ।
प्रचुक्रुशुर्महात्मानो हृष्टा स्तत्र सहस्रशः ॥ 37 ॥

रामस्य तु वचः कुर्वन्सुग्रीवो हरिपुंगवः ।
अंगदं संपरिष्वज्य यौवराज्येऽभ्यषेचयत् ॥ 38 ॥

अंगदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः ।
साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ॥ 39 ॥

रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः ।
प्रीताश्च तुष्टुवुस्सर्वे तादृशे तत्र वर्तिते ॥ 40 ॥

हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता ।
बभूव नगरी रम्या किष्किंधा गिरिगह्वरे ॥ 41 ॥

निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः ।
रुमां च भार्यं प्रतिलभ्य वीर्यवा नवाप राज्यं त्रिदशाधिपो यथा ॥ 42 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे षड्विंशस्सर्गः ॥




Browse Related Categories: