View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.55 किष्किंधाकांड - पंचपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ पंचपंचाशस्सर्गः ।

श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् ।
स्वामिसत्कारसंयुक्तमंगदो वाक्यमब्रवीत् ॥ 1 ॥

स्थैर्यमात्ममनश्शौचमानृशंस्यमथाऽर्जवम् ।
विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥ 2 ॥

भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् ।
धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ॥ 3 ॥

कथं स धर्मं जानीते येन भ्रात्रा महात्मना ।
युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥ 4 ॥

सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः ।
विस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥ 5 ॥

लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा ।
आदिष्टा मार्गितुं सीतां धर्ममस्मिन्कथं भवेत् ॥ 6 ॥

तस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि ।
आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ॥ 7 ॥

राज्ये पुत्रः प्रतिष्ठाप्यस्सगुणो विगुणोऽपि वा ।
कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ 8 ॥

भिन्नमंत्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् ।
किष्किंधां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ 9 ॥

पांशुदंडेन हि मां बंधने नोपपादयेत् ।
शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ 10 ॥

बंधनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम् ।
अनुजानीत मां सर्वे गृहं गच्छंतु वानराः ॥ 11 ॥

अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् ।
इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ 12 ॥

अभिवादनपूर्वं हि राघवौ बलशालिनौ ।
अभिवादनपूर्वं तु राजा कुशलमेव च ॥ 13 ॥

वाच्यस्तातो यवीयान्मे सुग्रीवो वानरेश्वरः ।
आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे ॥ 14 ॥

मातरं चैव मे तारामाश्वासयितुमर्हथ ।
प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ॥ 15 ॥

विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ।
एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च ॥ 16 ॥

विवेश चांगदो भूमौ रुदंदर्भेषु दुर्मनाः ।
तस्य संविशतस्तत्र रुदंतो वानरर्षभाः ॥ 17 ॥

नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ।
सुग्रीवं चैव निंदंतः प्रशंसंतश्च वालिनम् ॥ 18 ॥

परिवार्यांगदं सर्वे व्यवसन्प्रायमासितुम् ।
मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः ॥ 19 ॥

उपस्पृश्योदकं तत्र प्राङ्मुखास्समुपाविशन् ।
दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः ॥ 20 ॥

मुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म ह ।
रामस्य वनवासं च क्षयं दशरथस्य च ॥ 21 ॥

जनस्थानवधं चैव वधं चैव जटायुषः ।
हरणं चैव वैदेह्या वालिनश्च वधं रणे ॥ 22 ॥

रामकोपं च वदतां हरीणां भयमागतम् ।
स संविशद्भिबहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवंगमैः ।
बभूव सन्नादितनिर्दरांतरो भृशं नदद्भिर्जलदैरिवोल्बणैः ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे पंचपंचाशस्सर्गः ॥




Browse Related Categories: