View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.57 किष्किंधाकांड - सप्तपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ सप्तपंचाशस्सर्गः ।

तत्तु श्रुत्वा तथा वाक्यमंगदस्य मुखोद्गतम् ।
अब्रवीद्वचनं गृध्रस्तीक्ष्णतुंडो महास्वनः ॥ 1 ॥

कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे ।
जटायुषो वधं भ्रातुः कंपयन्निव मे मनः ॥ 2 ॥

कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः ।
नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ 3 ॥

इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् ।
यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥ 4 ॥

अतिदीर्घस्य कालस्य परितुष्टोऽस्मि परिकीर्तनात् ।
तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ 5 ॥

भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ।
तस्यैव च मम भ्रातुस्सखा दशरथः कथम् ॥ 6 ॥

यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ।
सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम् ॥ 7 ॥

इच्छेयं पर्वतादस्मादवतर्तु मरिंदमाः ।
शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः ।
श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शंकिताः ॥ 8 ॥

ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः ।
चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति ॥ 9 ॥

सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति ।
कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥ 10 ॥

एतां बुद्धिं ततश्चक्रुस्सर्वे ते वानरर्षभाः ।
अवतार्य गिरेश्शृंगाद्गृध्रमाहांगदस्तदा ॥ 11 ॥

बभूवर्क्षरजा नाम वानरेंद्रः प्रतापवान् ।
ममार्यः पार्थिवः पक्षिन् धार्मिक स्तस्य चात्मजौ ॥ 12 ॥

सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ ।
लोकेविश्रुतकर्माभूद्राजा वाली पिता मम ॥ 13 ॥

राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः ।
रामो दाशरथिः श्रीमान्प्रविष्टो दंडकावनम् ॥ 14 ॥

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।
पितुर्निदेशनिरतो धर्म्यं पंथानमाश्रितः ॥ 15 ॥

तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ।
रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् ॥ 16 ॥

ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ।
रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ।
परिश्रांतश्च वृद्धश्च रावणेन हतो रणे ॥ 17 ॥

एवं गृध्रो हतस्तेन रावणेन बलीयसा ।
संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ॥ 18 ॥

ततो मम पितृव्येण सुग्रीवेण महात्मना ।
चकार राघवस्सख्यं सोऽवधीत्पितरं मम ॥ 19 ॥

मम पित्रा विरुद्धो हि सुग्रीवस्सचिवैस्सह ।
निहत्य वालिनं रामस्ततस्तमभिषेचयत् ॥ 20 ॥

स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ 21 ॥

एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः ।
वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ॥ 22 ॥

ते वयं दंडकारण्यं विचित्य सुसमाहिताः ॥ 23 ॥

अज्ञानात्तु प्रविष्टास्स्म धर्मिण्या विवृतं बिलम् ।
मयस्य मायाविहितं तद्बिलं च विचिन्वताम् ॥ 24 ॥

व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ।
ते वयं कपिराजस्य सर्वे वचनकारिणः ॥ 25 ॥

कृतां संस्थामतिक्रांता भयात्प्रायमुपास्महे ।
क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे सप्तपंचाशस्सर्गः ॥




Browse Related Categories: