View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.64 किष्किंधाकांड - चतुःषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ चतुःषष्टितमस्सर्गः ।

आख्याता गृध्रराजेन समुत्प्लुत्य प्लवंगमाः ।
संगताः प्रीतिसंयुक्ता विनेदुर्भीमविक्रमाः ॥ 1 ॥

संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।
हृष्टास्सागरमाजग्मुस्सीतादर्शनकांक्षिणः ॥ 2 ॥

अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः ।
कृत्स्नं लोकस्य महतः प्रतिबिंबमिव स्थितम् ॥ 3 ॥

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ।
सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः ॥ 4 ॥

सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले ।
व्यात्तास्यैस्सुमहाकायैरूर्मिभिश्च समाकुलम् ॥ 5 ॥

प्रसुप्तमिव चान्यत्र क्रीडंतमिव चान्यतः ।
क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम् ॥ 6 ॥

संकुलं दानवेंद्रैश्च पातालतलवासिभिः ।
रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुंजराः ॥ 7 ॥

आकाशमिव दुष्पारं सागरं प्रेक्षय वानराः ।
विषेदु स्सहसासर्वे कथं कार्यमिति ब्रुवन् ॥ 8 ॥

विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ।
आश्वासयामास हरीन्भयार्तान् हरिसत्तमः ॥ 9 ॥

तान्विषादेन महता विषण्णान्वानरर्षभान् ।
उवाच मतिमान्काले वालिसूनुर्महाबलः ॥ 10 ॥

न विषादे मनः कार्यं विषादो दोषवत्तमः ।
विषादो हंति पुरुषं बालं क्रुद्ध इवोरगः ॥ 11 ॥

यो विषादं प्रसहते विक्रमे पर्युपस्थिते ।
तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति ॥ 12 ॥

तस्यां रात्र्यां व्यतीतायामंगदो वानरैस्सह ।
हरिवृद्धैस्समागम्य पुनर्मंत्रममंत्रयत् ॥ 13 ॥

सा वानराणां ध्वजिनी परिवार्यांगदं बभौ ।
वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥ 14 ॥

कोऽन्यस्तां वानरीं सेनां शक्तःस्तंभयितुं भवेत् ।
अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ 15 ॥

ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिंदमः ।
अनुमान्यांगदश्श्रीमान्वाक्यमर्थवदब्रवीत् ॥ 16 ॥

क इदानीं महातेजा लंघयिष्यति सागरम् ।
कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम् ॥ 17 ॥

को वीरो योजनशतं लंघयेत प्लवंगमाः ।
इमांश्च यूथपान् सर्वान्मोक्षयेत्को महाभयात् ॥ 18 ॥

कस्य प्रभावाद्धारांश्च पुत्रांश्चैव गृहाणि च ।
इतो निवृत्ताः पश्येम सिद्धार्थास्सुखिनो वयम् ॥ 19 ॥

कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् ।
अभिगच्छेम संहृष्टास्सुग्रीवं च वनौकसम् ॥ 20 ॥

यदि कश्चित्समर्थो वस्सागरप्लवने हरिः ।
स ददा त्विह न शशीघ्रं पुण्यामभयदक्षिणाम् ॥ 21 ॥

अंगदस्य वच श्शृत्वा न कश्चित् किंचिदब्रवीत् ।
स्तिमिते वा भवत्सर्वा सा तत्र हरिवाहिनी ॥ 22 ॥

पुनरेवांगदः प्राह तान्हरीन्हरिसत्तमः ।
सर्वे बलवतां श्रेष्ठा भवंतो दृढविक्रमाः ॥ 23 ॥

व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः ।
न हि वो गमने संगः कदाचित्कस्यचित्क्वचित् ।
ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे चतुःषष्टितमस्सर्गः ॥




Browse Related Categories: