View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.32 सुंदरकांड - द्वात्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ द्वात्रिंशस्सर्गः ।

ततश्शाखांतरे लीनं दृष्ट्वा चलितमानसा ।
वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिंगलम् ॥ 1 ॥

सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ।
फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ॥ 2 ॥

मैथिली चिंतयामास विस्मयं परमं गता ।
अहो भीममिदं रूपं वानरस्य दुरासदम् ॥ 3 ॥

दुर्निरीक्षमिति ज्ञात्वा पुनरेव मुमोह सा ।
विललाप भृशं सीता करुणं भयमोहिता ॥ 4 ॥

रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ।
रुरोद बहुधा सीता मंदं मंदस्वरा सती ॥ 5 ॥

सा तं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् ।
मैथिली चिंतयामास स्वप्नोऽयमिति भामिनी ॥ 6 ॥

सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेंद्रस्य यथोक्तकारम् ।
ददर्श पिंगाधिपते रमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ॥ 7 ॥

सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेन बभूव सीता ।
चिरेण संज्ञां प्रतिलभ्य भूयो विचिंतयामास विशालनेत्रा ॥ 8 ॥

स्वप्ने मयाऽयं विकृतोऽद्य दृष्टश्शाखामृगश्शास्त्रगणैर्निषिद्धः ।
स्वस्त्यस्तु रामाय स लक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥ 9 ॥

स्वप्नोऽपि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः ।
सुखं हि मे नास्ति यतोऽस्मि हीना तेनेंदुपूर्णप्रतिमाननेन ॥ 10 ॥

रामेति रामेति सदैव बुद्ध्या विचिंत्य वाचा ब्रुवती तमेव ।
तस्यानुरूपां च कथां तदर्थमेवं प्रपश्यामि तथा शृणोमि ॥ 11 ॥

अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा ।
विचिंतयंती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥ 12 ॥

मनोरथस्स्यादिति चिंतयामि तथापि बुद्ध्या च वितर्कयामि ।
किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥ 13 ॥

नमोऽस्तु वाचस्पतये सवज्रिणे स्वयंभुवे चैव हुताशनाय च ।
अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्छ तथास्तु नान्यथा ॥ 14 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे द्वात्रिंशस्सर्गः ॥




Browse Related Categories: