View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.122 युद्धकांड - द्वाविंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्वाविंशत्यधिकशततमस्सर्गः ।

एतच्छ्रुत्वाशुभंवाक्यंराघवेणानुभाषितम् ।
ततश्शुभतरंवाक्यंव्याजहारमहेश्वरः ॥ 1 ॥

पुष्कराक्ष महाबाहो महावक्ष परंतप ।
दिष्ट्याकृतमिदंकर्मत्वयाधर्मभृतांवर ॥ 2 ॥

दिष्ट्यासर्वस्यलोकस्यप्रवृद्धंदारुणंतमः ।
अपावृत्तंत्वयासंख्येरामरावणजंभयम् ॥ 3 ॥

आश्वास्यभरतंदीनंकौसल्यां च यशस्विनीम् ।
कैकेयीं च सुमित्रां च दृष्टवालक्ष्मणमातरम् ॥ 4 ॥

प्राप्यराज्यमयोध्यायांनंदयित्वासुहृज्जनम् ।
इक्ष्वाकूणांकुलेवंशंस्थापयित्वामहाबल ॥ 5 ॥

इष्टवातुरगमेधेनप्राप्यचानुत्तमंयशः ।
ब्राह्मणेभ्योधनंदत्त्वात्रिदिवंगंतुमर्हसि ॥ 6 ॥

एषराजादशरथोविमानस्थःपितातव ।
काकुत्स्थमानुषेलोकेगुरुस्तवमहायशाः ॥ 7 ॥

इंद्रलोकंगतःश्रीमांस्त्वयापुत्रेणतारितः ।
लक्ष्मणेनसहभ्रात्रात्वमेममभिवादय ॥ 8 ॥

महदेववच्श्रुत्वाराघवःसहलक्ष्मणः ।
लक्ष्मणेनसहभ्रात्राददर्शपितरंप्रभुः ॥ 9 ॥

दीप्यमानंस्वयालक्ष्मविरजोऽंभरधारिणम् ।
लक्ष्मणेनसहभ्रात्राददर्शपितरंप्रभुः ॥ 10 ॥

हर्षेणमहताविष्टोविमनस्थोमहीपतिः ।
प्राणैःप्रियतरंदृष्टवापुत्रंदशरथस्तदा ॥ 11 ॥

आरोप्यांकेमहबाहुर्वरासनगतःप्रभुः ।
बाहुभ्यांसंपरिष्वज्यततोवाक्यंसमाददे ॥ 12 ॥

न मेस्वर्गोबहुमतस्सम्मानश्चसुरर्षभैः ।
त्वयारामविहीनस्यसत्यंप्रतिशृणोमिते ॥ 13 ॥

अद्यत्वांनिहतामित्रंदृष्टवासंपूर्णमानसम् ।
निस्तीर्णवनवासं च प्रीतिरासीत्परामम ॥ 14 ॥

कैकेय्यायानिचोक्तानिवाक्यानिवदतांवर ।
तवप्रव्राजनार्थानिस्थितानिहृदयेमम ॥ 15 ॥

त्वांतुदृष्टवाकुशलिनंपरिष्वज्यसलक्ष्मणम् ।
अद्यदुःखाद्विमुक्तोऽस्मिनीहारादिवभास्करः ॥ 16 ॥

तारितोऽहंत्वयापुत्र सुपुत्रेणमहात्मना ।
अष्टावक्रेणधर्मात्माकहोलोब्राह्मणोयथा ॥ 17 ॥

इदानीं च विजानामियथासौम्य सुरेश्वरैः ।
वधार्थंरावणस्येहविहितंपुरुषोत्तम ॥ 18 ॥

सिद्धार्थाखलुकौसल्यायात्वांराम गृहंगतम् ।
वनान्निवृत्तंसंहृष्टाद्रक्ष्यतेशत्रुसूदनम् ॥ 19 ॥

सिद्धार्थाःखलुतेराम नरायेत्वांपुरींगतम् ।
राज्येचावाभिषिक्तं च द्रक्ष्यंतेवसुधाधिपम् ॥ 20 ॥

अनुरक्तेनबलिनाशुचिनाधर्मचारिणा ।
इच्छेयंत्वामहंद्रष्टुंभरतेनसमागतम् ॥ 21 ॥

चतुर्दशसमास्सौम्यवनेनिर्यातितास्त्वया ।
वसतासीतयासार्धंलक्ष्मणेन च धीमता ॥ 22 ॥

निवृत्तवनवासोऽसिप्रतिज्ञापूरितात्वया ।
रावणं च रणेहत्वादेवताःपरितोषिताः ॥ 23 ॥

कृतंकर्मयशश्श्लाघ्यंप्राप्तंतेशत्रुसूदन ।
भ्रातृभिःसहराज्यस्थोदीर्घमायुरवाप्नुहि ॥ 24 ॥

इतिब्रुवाणंराजानंरामःप्रांजलिरब्रवीत् ।
कुरुप्रसादंधर्मज्ञकैकेय्याभरतस्य च ॥ 25 ॥

सपुत्रांत्वांत्यजामीतियदुक्ताकेकयीत्वया ।
स शापःकेकयींघोरस्सपुत्रां न स्पृशेत्प्रभो ॥ 26 ॥

तथेति स महाराजोराममुक्त्वाकृतांजलिम् ।
लक्ष्मणं च परिष्वज्यपुनर्वाक्यमुवाच ह ॥ 27 ॥

रामंशुश्रूषताभक्त्यावैदेह्यासहसीतया ।
कृतमममहाप्रीतिःप्राप्तंधर्मफलं च ते ॥ 28 ॥

धर्मंप्राप्स्यसिधर्मज्ञ यशश्चविपुलंभुवि ।
रामेप्रसन्नेस्वर्गं च महिमानंतथोत्तमाम् ॥ 29 ॥

रामंशुश्रूषभद्रंतेसुमित्रानंदवर्धन ।
रामस्सर्वस्यलोकस्यसुभेष्वभिरतःसदा ॥ 30 ॥

एतेसेंद्रास्त्रयोलोकास्सिद्धाश्चपरमर्षयः ।
अभिगम्यमहात्मानमर्चंतिपुरुषोत्तमम् ॥ 31 ॥

एतत्तदुक्तमव्यक्तमक्षरंब्रह्मनिर्मितम् ।
देवानांहृदयंसौम्य गुह्यंरामःपरंतप ॥ 32 ॥

अवाप्तंधर्मचरणंयशश्चविपुलंत्वया ।
एनंशुश्रूषताभक्त्यावैदेह्यासहसीतया ॥ 33 ॥

इत्युक्त्वालक्ष्मणंराजास्नुषांबद्धांजलिंस्थिताम् ।
पुत्रीत्याभाष्यमधुरंशनैरेनामुवाच ह ॥ 34 ॥

कर्तव्यो न तुवैदेहीमन्युस्त्यागमिमंप्रति ।
रामेणेत्वद्विशुध्यर्थंकृतमेतद्धितैषिणा ॥ 35 ॥

सुदुष्करमिदंपुत्रितवचारित्रलक्षणम् ।
कृतंयत्तेऽन्यनारीणांयशोह्यभिभविष्यति ॥ 36 ॥

न त्वंकामंसमाधेयाभर्तृशुश्रूषणंप्रति ।
अवश्यंतुमयावाच्यमेषतेदैवतंपरम् ॥ 37 ॥

इतिप्रतिसमादिश्यपुत्रौसीतां च राघवः ।
इंद्रलोकंविमानेनययौदशरथोज्वलन् ॥ 38 ॥

विमानमास्थायमहानुभावःश्रिया च सम्हृष्टतन्नुर्नृपोत्तमः ।
आमंत्यपुत्रौसहसीतया च जगामदेवप्रवरस्यलोकम् ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्वाविंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: