View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.27 युद्धकांड - सप्तविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तविंशस्सर्गः ।

तांस्तुतेऽहंप्रवक्ष्यामिप्रेक्षमाणस्ययूथपान् ।
राघवार्थेपराक्रांतायेनरक्षंतिजीवितम् ॥ 1 ॥

स्निग्धायस्यबहुव्यामावालालांगूलमाश्रिताः ।
ताम्राःपीतास्सिताश्श्वेताःप्रकीर्णाघोरकर्मणः ॥ 2 ॥

प्रगृहीताःप्रकाशंतेसूर्यस्येवमरीचयः ।
पृथिव्यांचानुकृष्यंतेहरोनामैषयूथपः ॥ 3 ॥

यंपृष्ठतोऽनुगच्छंतिशतशोऽथसहस्रशः ।
द्रुमानुद्यम्यसहसालंकारोहणतत्पराः ॥ 4 ॥

यूथपाहरिराजस्यकिंकरास्समुपस्थिताः ।
नीलानिवमहामेघांस्तिष्ठतोयांस्तुपश्यसि ॥ 5 ॥

असितांजनसंकाशान् युद्धेसत्यपराक्रमान् ।
असङ् ख्येयाननिर्देश्यान्परंपारमिवोदधेः ॥ 6 ॥

पर्वतेषुचयेकेचिद्विषमेषुनदीषुच ।
एतेत्वामभिवर्तंतेराजन्नृक्षास्सुदारुणाः ॥ 7 ॥

एषां मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः ।
पर्जन्य इव जीमूतैः समंतात् परिवारितः ॥ 8 ॥

ऋक्षवंतंगिरिश्रेष्ठमध्यास्तेनर्मदांपिबन् ।
सर्वऋक्षाणामधिपतिर्धूम्रोनामैषयूथपः ॥ 9 ॥

यवीयानस्यतुभ्रातापश्यैनंपर्वतोपमम् ।
भ्रात्रासमानोरूपेणविशिष्टस्तुपराक्रमैः ॥ 10 ॥

सएषजांबवान्नाममहायूथपयूथपः ।
प्रक्रांतोगुरुवर्तीचसंप्रहारेष्वमर्षण ॥ 11 ॥

एतेनसाह्यंसुमहत्कृतंशक्रस्यधीमता ।
देवासुरेजांबवतालब्धाश्चबहवोवराः ॥ 12 ॥

आरुह्यपर्वताग्रेभ्योमहाभ्रविपुलाः शिलाः ।
मुंचंतिविपुलाकारानमृत्योरुद्विजंतिच ॥ 13 ॥

राक्षसानांचसदृशाःपिशाचानांचरोमशाः ।
एतस्यसैन्याबहवोविचरंत्यग्नितेजसः ॥ 14 ॥

यंत्वेनमभिसम्रब्धंप्लवमानमिवस्थितम् ।
प्रेक्षंतेवानरास्सर्वेस्थितायूथपयूथपम् ॥ 15 ॥

एषराजन् सहस्राक्षंपर्युपास्तेहरीश्वरः ।
बलेनबलसंपन्नोदंभोनामैषयूथपः ॥ 16 ॥

यःस्थितंयोजनेशैलंगच्छन्पार्श्वेनसेवते ।
ऊर्ध्वंतथैवकायेनगतःप्राप्नोतियोजनम् ॥ 17 ॥

यस्मान्नपरमंरूपंचतुष्पादेषुविद्यते ।
श्रुतस्संन्नादनोनामवानराणांपितामहाः ॥ 18 ॥

येनयुद्धंपुरादत्तंरणेशक्रस्यधीमता ।
पराजयश्चनप्राप्तस्सोऽयंयूथपयूथपः ॥ 19 ॥

यस्यविक्रममाणस्यशक्रस्येवपराक्रमः ।
एषगंधर्वकन्यायामुत्पन्नःकृष्णवर्त्मनः ॥ 20 ॥

तदादेवासुरेयुद्धेसाह्यार्थंत्रिदिवौकसां यस्यवैश्रवणोराजाजंबूमुपनिषेवते ॥ 21 ॥

योराजापर्वतेंद्राणांबहुकिन्नरसेविनाम् ।
विहारसुखदोनित्यंभ्रातुस्तेराक्षसाधिप ॥ 22 ॥

तत्रैषवसतिश्रीमान्बलवान्वानरर्षभः ।
युद्धेष्वकत्थनोनित्यंक्रोधनोनामयूथपः ॥ 23 ॥

वृतःकोटिसहस्रेणहरीणांसमुपस्थितः ।
एषैवाशंसतेलंकांस्वेनानीकेनमर्दितुम् ॥ 24 ॥

योगंगामनुपर्येतित्रासयन्गजयूथपान् ।
हस्तिनांवानराणांचपूर्ववैरमनुस्मरन् ॥ 25 ॥

एषयूथपतिर्नेतागच्छन् गिरिगुहाशयः ।
गजान्योधयतेवन्यान्गिरींश्चैवमहीरुहान् ॥ 26 ॥

हरीणांवाहिनीमुख्योनदींहैमवतीमनु ।
उशीरबीजमाश्रित्यपर्वतंमंदरोपमम् ॥ 27 ॥

रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् ।
एनं शत सहस्राणां सहस्रं अभिवर्तते ॥ 28 ॥

सएषनेताचैतेषांवानराणांमहात्मनाम् ।
सएषदुर्धरोराजन्प्रमाथीनामयूथपः ॥ 29 ॥

वातेनेवोद्धतंमेघंयमेनमनुपश्यसि ।
अनीकमभिसंरब्धंवानराणांतरस्विनाम् ॥ 30 ॥

अनीकमपि सम्रब्धं वानराणां तरस्विनाम् ।
उद्धूतमरुणाभासं पवनेन समंततः ॥ 31 ॥

एतेऽसितमुखाघोरागोलांगूलामहाबलाः ।
शतंशतहस्राणिदृष्ट्वावैसेतुबंधनम् ॥ 32 ॥

गोलांगूलंमहावेगंगवाक्षंनामयूधपम् ।
परिवार्याभिवर्तंतेलंकांमर्दितुमोजसा ॥ 33 ॥

भ्रमराचरितायत्रसर्वकालफलद्रुमाः ॥ 34 ॥

यंसूर्यस्तुल्यपर्णाभमनुपर्येतिपर्वतम् ।
यस्यभासासदाभांतितद्वर्णामृगपक्षिणः ॥ 35 ॥

यस्यप्रस्थंमहात्मानोनत्यजंतिमहर्षयः ।
सर्वकालफलावृक्षास्सदाफलसमन्विताः ॥ 36 ॥

मधूनिचमहार्हाणियस्मिन्पर्वतसत्तमे ।
तत्रैवरमतेराजन्रम्येकांचनपर्वते ॥ 37 ॥

मुख्योवानरमुख्यानांकेसरीनामयूथपः ।
षष्टिर्गिरिसहस्राणांरम्याःकांचनपर्वता ॥ 38 ॥

तेषांमध्येगिरिवरस्त्वमिवानघरक्षसाम् ।
तत्रैतेकपिलाश्श्वेतास्ताम्रास्यामधुपिंगलाः ॥ 39 ॥

निवसंत्युत्तमगिरौतीक्ष्णदंष्ट्रानखायुधाः ।
सिंहाइवचतुर्दंष्ट्राव्याघ्राइवदुरासदाः ॥ 40 ॥

सर्वेवैश्वानरसमाज्वलिताशीविषोपमाः ।
सुदीर्घांचितलांगूलामत्तमातंगसन्निभाः ॥ 41 ॥

महापर्वतसंकाशामहाजीमूतनिस्स्वनाः ।
वृत्तपिंगलरक्ताक्षाभीमाभीमगतिस्वराः ॥ 42 ॥

मर्दयंतीवतेसर्वेतस्थुर्लङकासमीक्ष्यते ।
एषचैषामधिपतिर्मध्येतिष्ठतिवीर्यवान् ॥ 43 ॥

जयार्थीनित्यमादित्यमुपतिष्ठतिबुद्धिमान् ।
नाम्नापृथिव्यांविख्यातोराजन् शतबलीतियः ॥ 44 ॥

एषैवाशंसतेलंकांस्वेनानीकेनमर्दितुम् ।
विक्रांतोबलवान् शूरःपौरुषेस्वेव्यवस्थितः ।
रामप्रियार्थंप्राणानांदयांनकुरुतेहरिः ॥ 45 ॥

गजोगवाक्षोगवयोनलोनीलश्चवानरः ।
एकैकएवयोधानांकोटीभिर्दशभिर्वृतः ॥ 46 ॥

तथाऽऽन्येवानरश्रेष्ठाविंध्यपर्वतवासिनः ।
नशक्यंतेबहुत्वात्तुसङ् ख्यातुंलघुविक्रमाः ॥ 47 ॥

सर्वेमहाराजमहाप्रभावास्सर्वेमहाशैलनिकाशकायाः ।
सर्वेसमर्थापृथिवींक्षणेनकर्तुंप्रविध्वस्तविकीर्णशैलाम् ॥ 48 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तविंशस्सर्गः ॥




Browse Related Categories: