View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.50 युद्धकांड - पंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचाशस्सर्गः ।

अथोवाचमहातेजाहरिराजोमहाबलः ।
किमियंव्यथितासेनामूढवातेवनौर्जले ॥ 1 ॥

सुग्रीवस्यवचश्श्रुत्वावालिपुत्रोऽंगदोऽब्रवीत् ।
नत्वंपश्यसिरामंचलक्ष्मणंचमहारथम् ॥ 2 ॥

शरजालचितौवीरावुभौदशरथात्मजौ ।
शरतल्पेमहात्मानौशयानौरुधिरोक्षितौ ॥ 3 ॥

अथाब्रवीद्वानरेंद्रस्सुग्रीवःपुत्रमंगदम् ।
नानिमित्तमिदंमन्येभवितव्यंभयेनतु ॥ 4 ॥

विषण्णवदनाह्येतेत्यक्तप्रहरणादिशः ।
प्रपलायंतिहरयस्त्रासादुत्फुल्ललोचनाः ॥ 5 ॥

अन्योन्यस्यनलज्जंतेनिरीक्षंतिपृष्ठतः ।
विप्रकर्षंतिचान्योन्यंपतितंलंघयंतिच ॥ 6 ॥

एतस्मिन्नंतरेवीरोगदापाणिर्विभीषणः ।
सुग्रीवंवर्धयामासराघवंचनिरैक्षत ॥ 7 ॥

विभीषणंचसुग्रीवोदृष्टवावानरभीषणम् ।
ऋक्षराजंमहात्मानंसमीपस्थमुवाचह ॥ 8 ॥

विभीषणोऽयंसंप्राप्तोयंदृष्टवावानरर्षभाः ।
विद्रवंतिपरितत्रसरावणात्मजशंकया ॥ 9 ॥

शीघ्रमेतान् सुसंत्रस्तान्बहुधाविप्रधावितान् ।
पर्यवस्थापयाख्याहिविभीषणमुपस्थितम् ॥ 10 ॥

सुग्रीवेणैवमुक्तस्तुजांबवानृक्षपार्थिवः ।
वानरान्सांत्वयामाससन्निरुध्यप्रधानतः ॥ 11 ॥

तेनिवृत्ताःपुनःसर्वेवानरास्त्यक्तसंभ्रमाः ।
ऋक्षराजवचश्श्रुत्वातंचदृष्टवाविभीषणम् ॥ 12 ॥

विभीषणस्तुरामस्यदृष्टवागात्रंशरैश्चितम् ।
लक्ष्मणस्यचधर्मात्माबभूवव्यथितस्तदा ॥ 13 ॥

जलक्लिन्नेनहस्तेनतयोर्नेत्रेप्रमृज्यच ।
शोकसंपीडितमनारुरोदविललापच ॥ 14 ॥

इमौतौसत्त्वसंपन्नौविक्रांतौप्रियसम्युगौ ।
इमामवस्थांगमितौराक्षसैःकूटयोधिभिः ॥ 15 ॥

भ्रातुःपुत्रेणमेतेनदुष्पुत्रेणदुरात्मना ।
राक्षस्याजिह्मयाबुध्याचालितावृजुविक्रमौ ॥ 16 ॥

शरैरिमावलंविद्धौरुधिरेणसमुक्षितौ ।
वसुधायामिमौसुप्तौदृश्येतेशल्यकाविव ॥ 17 ॥

ययोर्वीर्यमुपाश्रित्यप्रतिष्ठाकांक्षितामया ।
तावुभौदेहनाशायप्रसुप्तौपुरुषर्षभौ ॥ 18 ॥

जीवन्नद्यविपन्नोऽस्मिनष्टराज्यमनोरथः ।
प्राप्तप्रतिज्ञश्चरिपुःसकामोरावणःकृतः ॥ 19 ॥

एवंविलपमानंतंपरिष्वज्यविभीषणम् ।
सुग्रीवःसत्त्वसंपन्नोहरिराजोऽब्रवीदिदम् ॥ 20 ॥

राज्यंप्राप्स्यसिधर्मज्ञ लंकायांनात्रसंशयः ।
रावणस्सहपुत्रेणस्वकामंनेहलप्स्यते ॥ 21 ॥

नरुजापीडितावेतावुभौराघवलक्ष्मणौ ।
त्यक्त्वामोहंवधिष्येतेसगणंरावणंरणे ॥ 22 ॥

तमेवंसांत्वयित्वातुसमाश्वास्यचराक्षसम् ।
सुषेणंश्वशुरंपार्श्वेसुग्रीवस्तमुवाचह ॥ 23 ॥

सहशूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ ।
गच्छत्वंभ्रातरंगृह्यकिष्किंधांरामलक्ष्मणौ ॥ 24 ॥

अहंतुरावणंहत्वासपुत्रंसहबांधवम् ।
मैथिलीमानयिष्यामिशक्रोनष्टामिवश्रियम् ॥ 25 ॥

श्रुत्वैतद्वानरेंद्रस्यसुषेणोवाक्यमब्रवीत् ।
दैवासुरंमहद्युद्धमनुभूतंसुदारुणम् ॥ 26 ॥

तदास्मदानवाशरसम्स्पर्शकोविदाः ।
निजघ्नुश्शस्त्रविदुषश्चादयंतोमुहुर्मुहुः ॥ 27 ॥

तानार्तान्नष्टसंज्ञांश्चगतासूंश्चबृहस्पतिः ।
विद्याभिर्मंत्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ 28 ॥

तान्यौषधान्यानयितुंक्षीरोदंयांतुसागरम् ।
जवेनवानराःशीघ्रंसंपातिपनसादयः ॥ 29 ॥

हरयस्तुविजानंतिपार्वतीस्तामहौषधीः ।
संजीवकरणींदिव्यांविशल्यांदेवनिर्मिताम् ॥ 30 ॥

चंद्रश्चनामद्रोणश्चक्षीरोदेसागरोत्तमे ।
अमृतंयत्रमथितंतत्रतेपरमौषधी ॥ 31 ॥

तौतत्रविहितेदेवैःपर्वतौमहोदधौ ।
अयंवायुसुतोराजन् हनूमांस्तत्रगच्छतु ॥ 32 ॥

एतस्मिन्नंतरेवायुर्मेगांश्चापिसविद्युतः ।
पर्यस्यसागरेतोयंकंपयननिवमेदिनीम् ॥ 33 ॥

महतापक्षवातेनसर्ववदीपमहाद्रुमाः ।
निपेतुर्भग्नविटपाःसलिलेलवणांभसि ॥ 34 ॥

अभवन् पन्नगास्त्रस्ताभोगिनस्तत्रवासिनः ।
शीघ्रंसर्वाणियादांसिजग्मुश्चलवणार्णवम् ॥ 35 ॥

ततोमुहूर्तार्गरुडंवैनतेयंमहाबलम् ।
वानराददृशुःसर्वेज्वलंतमिवपावकम् ॥ 36 ॥

तमागतमभिप्रेक्ष्यनागास्तेसंप्रदुद्रुवुः ।
यैस्तौसत्पुरुषौबद्धौशरभूतैर्महाबलौ ॥ 37 ॥

ततस्सुपर्णःकाकुत्स्थौस्पृष्टवाप्रत्यभिनदनितः ।
विममर्शचपाणिभ्यांमुखेचंद्रसमप्रभे ॥ 38 ॥

वैनतेयेनसम्स्पृष्टास्तयोःसम्रुरुहुर्व्रणाः ।
सुवर्णेचतनूस्निग्धेतयोराशुबभूवतुः ॥ 39 ॥

तेजो वीर्यं बलं च ओज;उत्साहश् च महा गुणाः ।
प्रदर्शनं च बुद्धिश् च स्मृतिश् च द्विगुणं तयोः ॥ 40 ॥

तावुत्थाप्यमहातेजागरुडोवासवोपमौ ।
उभौतौसस्वजेहृष्टोरामश्चैनमुवाचह ॥ 41 ॥

भवत्प्रसादाद् व्यसनंरावणिप्रभवंमहत् ।
आवामिहव्यतिक्रांतौपूर्ववद् बलिनौकृतौ ॥ 42 ॥

यथातातंदशरथंयथाऽजंचपितामहम् ।
तथाभवंतमासाद्यहृदयंमेप्रसीदति ॥ 43 ॥

कोभवान्रूपसंपन्नोदिव्यस्रगनुलेपनः ।
वसानोविरजेवस्त्रदिव्याभरणभूषितः ॥ 44 ॥

तमुवाचमहातेजावैनतेयोमहाबलः ।
पतत्त्रिराजःप्रीतात्माहर्षपर्याकुलेक्षणः ॥ 45 ॥

अहंसखातेकाकुत्स्थ प्रियःप्राणोबहिश्चरः ।
गरुत्मानिहसंप्राप्तोयुवयोःसाह्यकारणात् ॥ 46 ॥

असुरावामहावीर्यावानरावामहाबलाः ।
सुराश्चापिसगंध्वर्वाःपुरस्कृत्यशतक्रतुम् ॥ 47 ॥

नेमंमोक्षयितुंशक्ताश्शरबंधंसुदारुणम् ।
मायाबलादिंद्रजितानिर्मितंक्रूरकर्मणा ॥ 48 ॥

एतेनागाःकाद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः ।
रक्षोमायाप्रभावेणशराभूत्वास्त्वदाश्रिताः ॥ 49 ॥

सभाग्यश्चासिधर्मज्ञ राम सत्यपराक्रम ।
लक्ष्मणेनसहभ्रात्रासमरेरिपुघातिना ॥ 50 ॥

इमंश्रुत्वातुवृत्तांतंत्वरमाणोऽहमागतः ।
सहसायुवयोःस्नेहात्सखित्वमनुपालयन् ॥ 51 ॥

मोक्षितौचमहाघोरादस्मात्सायकबंधनात् ।
अप्रमादश्चकर्तव्योयुवाभ्यांनित्यमेवच ॥ 52 ॥

प्रकृत्याराक्षसाःसर्वेसंग्रामेकूटयोधिनः ।
शूराणांशुद्धभावानांभवतामरार्जवंबलम् ॥ 53 ॥

तन्नविश्वसनीयंवोराक्षसानांरणाजिरे ।
एतेनैवोपमानेननित्यंजिह्माहिराक्षसाः ॥ 54 ॥

एवमुक्त्वातदारामंसुपर्णस्सुमहाबलः ।
परिष्वज्यचसुहृत्स्निग्धमाप्रष्टुमुपचक्रमे ॥ 55 ॥

सखे राघव धर्मज्ञ रिपूणामपिवत्सल ।
अभ्यनुज्ञातुमिच्छामिगमिष्यामियथामतम् ॥ 56 ॥

नचकौतूहलंकार्यंसखित्वंप्रतिराघव ।
कृतकर्मारणेवीर सखित्वंप्रतिवेत्स्यसि ॥ 57 ॥

बालवृद्धावशेषांतुकृत्वालंकांशरोर्मिभिः ।
रावणंचरिपुंहत्वासीतांत्वंसमुलप्स्यते ॥ 58 ॥

प्रदक्षिणंततःकृत्वापरिष्वज्यचवीर्यवान् ।
जगामाकाशमाविश्यसुपर्णःपवनोयथा ॥ 59 ॥

विरुजौराघवौदृष्टवाततोवानरयूथपाः ।
सिंहनादांस्तदानेदुर्लंगूलंंदुधुवुस्तदा ॥ 60 ॥

ततोभेरीस्समाजघ्नुर्मृदंगांश्चाप्यनादयन् ।
दध्मुश्शंखान्संप्रहृष्टाःक्षेवलंत्यपियथापुरम् ॥ 61 ॥

आस्फोट्याःस्पोट्यविक्रांताःवानराःनगयोधिनः ।
द्रुमानुत्पट्यविविधांस्तस्थुश्शतसहस्रशः ॥ 62 ॥

विसृजंतोमहानादांस्त्रासयंतोनिशाचरान् ।
लंकाद्वाराण्युपाजग्मुर्युद्धकामाःप्लवंगमाः ॥ 63 ॥

तेषांसुखीमस्तुमुलोनिनादोबभूवशाखामृगयूथपानाम् ।
क्षयेनिदाघस्ययथाघनानांनादस्सुभीमोनदतांनिशीथे ॥ 64 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचाशस्सर्गः ॥




Browse Related Categories: