श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचाशस्सर्गः ।
अथोवाचमहातेजाहरिराजोमहाबलः ।
किमियंव्यथितासेनामूढवातेवनौर्जले ॥ 1 ॥
सुग्रीवस्यवचश्श्रुत्वावालिपुत्रोऽंगदोऽब्रवीत् ।
नत्वंपश्यसिरामंचलक्ष्मणंचमहारथम् ॥ 2 ॥
शरजालचितौवीरावुभौदशरथात्मजौ ।
शरतल्पेमहात्मानौशयानौरुधिरोक्षितौ ॥ 3 ॥
अथाब्रवीद्वानरेंद्रस्सुग्रीवःपुत्रमंगदम् ।
नानिमित्तमिदंमन्येभवितव्यंभयेनतु ॥ 4 ॥
विषण्णवदनाह्येतेत्यक्तप्रहरणादिशः ।
प्रपलायंतिहरयस्त्रासादुत्फुल्ललोचनाः ॥ 5 ॥
अन्योन्यस्यनलज्जंतेनिरीक्षंतिपृष्ठतः ।
विप्रकर्षंतिचान्योन्यंपतितंलंघयंतिच ॥ 6 ॥
एतस्मिन्नंतरेवीरोगदापाणिर्विभीषणः ।
सुग्रीवंवर्धयामासराघवंचनिरैक्षत ॥ 7 ॥
विभीषणंचसुग्रीवोदृष्टवावानरभीषणम् ।
ऋक्षराजंमहात्मानंसमीपस्थमुवाचह ॥ 8 ॥
विभीषणोऽयंसंप्राप्तोयंदृष्टवावानरर्षभाः ।
विद्रवंतिपरितत्रसरावणात्मजशंकया ॥ 9 ॥
शीघ्रमेतान् सुसंत्रस्तान्बहुधाविप्रधावितान् ।
पर्यवस्थापयाख्याहिविभीषणमुपस्थितम् ॥ 10 ॥
सुग्रीवेणैवमुक्तस्तुजांबवानृक्षपार्थिवः ।
वानरान्सांत्वयामाससन्निरुध्यप्रधानतः ॥ 11 ॥
तेनिवृत्ताःपुनःसर्वेवानरास्त्यक्तसंभ्रमाः ।
ऋक्षराजवचश्श्रुत्वातंचदृष्टवाविभीषणम् ॥ 12 ॥
विभीषणस्तुरामस्यदृष्टवागात्रंशरैश्चितम् ।
लक्ष्मणस्यचधर्मात्माबभूवव्यथितस्तदा ॥ 13 ॥
जलक्लिन्नेनहस्तेनतयोर्नेत्रेप्रमृज्यच ।
शोकसंपीडितमनारुरोदविललापच ॥ 14 ॥
इमौतौसत्त्वसंपन्नौविक्रांतौप्रियसम्युगौ ।
इमामवस्थांगमितौराक्षसैःकूटयोधिभिः ॥ 15 ॥
भ्रातुःपुत्रेणमेतेनदुष्पुत्रेणदुरात्मना ।
राक्षस्याजिह्मयाबुध्याचालितावृजुविक्रमौ ॥ 16 ॥
शरैरिमावलंविद्धौरुधिरेणसमुक्षितौ ।
वसुधायामिमौसुप्तौदृश्येतेशल्यकाविव ॥ 17 ॥
ययोर्वीर्यमुपाश्रित्यप्रतिष्ठाकांक्षितामया ।
तावुभौदेहनाशायप्रसुप्तौपुरुषर्षभौ ॥ 18 ॥
जीवन्नद्यविपन्नोऽस्मिनष्टराज्यमनोरथः ।
प्राप्तप्रतिज्ञश्चरिपुःसकामोरावणःकृतः ॥ 19 ॥
एवंविलपमानंतंपरिष्वज्यविभीषणम् ।
सुग्रीवःसत्त्वसंपन्नोहरिराजोऽब्रवीदिदम् ॥ 20 ॥
राज्यंप्राप्स्यसिधर्मज्ञ लंकायांनात्रसंशयः ।
रावणस्सहपुत्रेणस्वकामंनेहलप्स्यते ॥ 21 ॥
नरुजापीडितावेतावुभौराघवलक्ष्मणौ ।
त्यक्त्वामोहंवधिष्येतेसगणंरावणंरणे ॥ 22 ॥
तमेवंसांत्वयित्वातुसमाश्वास्यचराक्षसम् ।
सुषेणंश्वशुरंपार्श्वेसुग्रीवस्तमुवाचह ॥ 23 ॥
सहशूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ ।
गच्छत्वंभ्रातरंगृह्यकिष्किंधांरामलक्ष्मणौ ॥ 24 ॥
अहंतुरावणंहत्वासपुत्रंसहबांधवम् ।
मैथिलीमानयिष्यामिशक्रोनष्टामिवश्रियम् ॥ 25 ॥
श्रुत्वैतद्वानरेंद्रस्यसुषेणोवाक्यमब्रवीत् ।
दैवासुरंमहद्युद्धमनुभूतंसुदारुणम् ॥ 26 ॥
तदास्मदानवाशरसम्स्पर्शकोविदाः ।
निजघ्नुश्शस्त्रविदुषश्चादयंतोमुहुर्मुहुः ॥ 27 ॥
तानार्तान्नष्टसंज्ञांश्चगतासूंश्चबृहस्पतिः ।
विद्याभिर्मंत्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ 28 ॥
तान्यौषधान्यानयितुंक्षीरोदंयांतुसागरम् ।
जवेनवानराःशीघ्रंसंपातिपनसादयः ॥ 29 ॥
हरयस्तुविजानंतिपार्वतीस्तामहौषधीः ।
संजीवकरणींदिव्यांविशल्यांदेवनिर्मिताम् ॥ 30 ॥
चंद्रश्चनामद्रोणश्चक्षीरोदेसागरोत्तमे ।
अमृतंयत्रमथितंतत्रतेपरमौषधी ॥ 31 ॥
तौतत्रविहितेदेवैःपर्वतौमहोदधौ ।
अयंवायुसुतोराजन् हनूमांस्तत्रगच्छतु ॥ 32 ॥
एतस्मिन्नंतरेवायुर्मेगांश्चापिसविद्युतः ।
पर्यस्यसागरेतोयंकंपयननिवमेदिनीम् ॥ 33 ॥
महतापक्षवातेनसर्ववदीपमहाद्रुमाः ।
निपेतुर्भग्नविटपाःसलिलेलवणांभसि ॥ 34 ॥
अभवन् पन्नगास्त्रस्ताभोगिनस्तत्रवासिनः ।
शीघ्रंसर्वाणियादांसिजग्मुश्चलवणार्णवम् ॥ 35 ॥
ततोमुहूर्तार्गरुडंवैनतेयंमहाबलम् ।
वानराददृशुःसर्वेज्वलंतमिवपावकम् ॥ 36 ॥
तमागतमभिप्रेक्ष्यनागास्तेसंप्रदुद्रुवुः ।
यैस्तौसत्पुरुषौबद्धौशरभूतैर्महाबलौ ॥ 37 ॥
ततस्सुपर्णःकाकुत्स्थौस्पृष्टवाप्रत्यभिनदनितः ।
विममर्शचपाणिभ्यांमुखेचंद्रसमप्रभे ॥ 38 ॥
वैनतेयेनसम्स्पृष्टास्तयोःसम्रुरुहुर्व्रणाः ।
सुवर्णेचतनूस्निग्धेतयोराशुबभूवतुः ॥ 39 ॥
तेजो वीर्यं बलं च ओज;उत्साहश् च महा गुणाः ।
प्रदर्शनं च बुद्धिश् च स्मृतिश् च द्विगुणं तयोः ॥ 40 ॥
तावुत्थाप्यमहातेजागरुडोवासवोपमौ ।
उभौतौसस्वजेहृष्टोरामश्चैनमुवाचह ॥ 41 ॥
भवत्प्रसादाद् व्यसनंरावणिप्रभवंमहत् ।
आवामिहव्यतिक्रांतौपूर्ववद् बलिनौकृतौ ॥ 42 ॥
यथातातंदशरथंयथाऽजंचपितामहम् ।
तथाभवंतमासाद्यहृदयंमेप्रसीदति ॥ 43 ॥
कोभवान्रूपसंपन्नोदिव्यस्रगनुलेपनः ।
वसानोविरजेवस्त्रदिव्याभरणभूषितः ॥ 44 ॥
तमुवाचमहातेजावैनतेयोमहाबलः ।
पतत्त्रिराजःप्रीतात्माहर्षपर्याकुलेक्षणः ॥ 45 ॥
अहंसखातेकाकुत्स्थ प्रियःप्राणोबहिश्चरः ।
गरुत्मानिहसंप्राप्तोयुवयोःसाह्यकारणात् ॥ 46 ॥
असुरावामहावीर्यावानरावामहाबलाः ।
सुराश्चापिसगंध्वर्वाःपुरस्कृत्यशतक्रतुम् ॥ 47 ॥
नेमंमोक्षयितुंशक्ताश्शरबंधंसुदारुणम् ।
मायाबलादिंद्रजितानिर्मितंक्रूरकर्मणा ॥ 48 ॥
एतेनागाःकाद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः ।
रक्षोमायाप्रभावेणशराभूत्वास्त्वदाश्रिताः ॥ 49 ॥
सभाग्यश्चासिधर्मज्ञ राम सत्यपराक्रम ।
लक्ष्मणेनसहभ्रात्रासमरेरिपुघातिना ॥ 50 ॥
इमंश्रुत्वातुवृत्तांतंत्वरमाणोऽहमागतः ।
सहसायुवयोःस्नेहात्सखित्वमनुपालयन् ॥ 51 ॥
मोक्षितौचमहाघोरादस्मात्सायकबंधनात् ।
अप्रमादश्चकर्तव्योयुवाभ्यांनित्यमेवच ॥ 52 ॥
प्रकृत्याराक्षसाःसर्वेसंग्रामेकूटयोधिनः ।
शूराणांशुद्धभावानांभवतामरार्जवंबलम् ॥ 53 ॥
तन्नविश्वसनीयंवोराक्षसानांरणाजिरे ।
एतेनैवोपमानेननित्यंजिह्माहिराक्षसाः ॥ 54 ॥
एवमुक्त्वातदारामंसुपर्णस्सुमहाबलः ।
परिष्वज्यचसुहृत्स्निग्धमाप्रष्टुमुपचक्रमे ॥ 55 ॥
सखे राघव धर्मज्ञ रिपूणामपिवत्सल ।
अभ्यनुज्ञातुमिच्छामिगमिष्यामियथामतम् ॥ 56 ॥
नचकौतूहलंकार्यंसखित्वंप्रतिराघव ।
कृतकर्मारणेवीर सखित्वंप्रतिवेत्स्यसि ॥ 57 ॥
बालवृद्धावशेषांतुकृत्वालंकांशरोर्मिभिः ।
रावणंचरिपुंहत्वासीतांत्वंसमुलप्स्यते ॥ 58 ॥
प्रदक्षिणंततःकृत्वापरिष्वज्यचवीर्यवान् ।
जगामाकाशमाविश्यसुपर्णःपवनोयथा ॥ 59 ॥
विरुजौराघवौदृष्टवाततोवानरयूथपाः ।
सिंहनादांस्तदानेदुर्लंगूलंंदुधुवुस्तदा ॥ 60 ॥
ततोभेरीस्समाजघ्नुर्मृदंगांश्चाप्यनादयन् ।
दध्मुश्शंखान्संप्रहृष्टाःक्षेवलंत्यपियथापुरम् ॥ 61 ॥
आस्फोट्याःस्पोट्यविक्रांताःवानराःनगयोधिनः ।
द्रुमानुत्पट्यविविधांस्तस्थुश्शतसहस्रशः ॥ 62 ॥
विसृजंतोमहानादांस्त्रासयंतोनिशाचरान् ।
लंकाद्वाराण्युपाजग्मुर्युद्धकामाःप्लवंगमाः ॥ 63 ॥
तेषांसुखीमस्तुमुलोनिनादोबभूवशाखामृगयूथपानाम् ।
क्षयेनिदाघस्ययथाघनानांनादस्सुभीमोनदतांनिशीथे ॥ 64 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचाशस्सर्गः ॥