View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.58 युद्धकांड - अष्टपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अष्टपंचाशस्सर्गः ।

ततःप्रहस्तंनिर्यांतंदृष्टवाभीमपराक्रमम् ।
उवाचसस्मितंरामोविभीषणमरिंदमः ॥ 1 ॥

कएषस्सुमहाकायोबलेनमहतावृतः ।
आचक्ष्वमेमहाबाहो वीर्यवंतंनिशाचरम् ॥ 2 ॥

राघवस्यवचश्श्रुत्वाप्रत्युवाचविभीषणः ॥ 3 ॥

एषसेनापतिस्तस्यप्रहस्तोनामराक्षसः ।
लंकायांराक्षसेंद्रस्यत्रिभागबलसम्वृतः ॥ 4 ॥

वीर्यवानस्त्रविच्छूरःसुप्रख्याश्चपराक्रमे ।
ततःप्रहस्तंनिर्यांतंभीमंभीमपराक्रमम् ॥ 5 ॥

गर्जंतंसुमहाकायंराक्षसैरभिसम्वृतम् ।
ददर्शमहतीसेनावानराणांबलीयसाम् ॥ 6 ॥

अभिसंजातरोषाणांप्रहस्तमभिगर्जताम् ।
खडगशक्त्यृष्णिबाणाश्चशूलानिमुसलानिच ॥ 7 ॥

गदाश्चपरिघाःप्रासाविविधाश्चपरिश्वधाः ।
नूंषिचविचित्राणिराक्षसानांजयैषिणाम् ॥ 8 ॥

प्रगृहीतान्यशोभंतवानरानभिधावताम् ।
जगृहुःपादपांश्चापिपुष्पितान्वानरर्षभाः ॥ 9 ॥

शिलाश्चविपुलादीर्घायोद्धुकामाःप्लवंगमाः ।
तेषामन्योन्यमासाद्यसंग्रामःसुमहानभूत् ॥ 10 ॥

बहूनामश्मवृष्टिंचशरवर्षंचवर्षताम् ।
बहवोराक्षसायुद्धेबहून्वानरयूधपान् ॥ 11 ॥

वानराराक्षसांश्चापिनिजघ्नुर्बहवोबहून् ।
शूलैःप्रमथिताःकेचित्केचिच्चपरमायुधैः ॥ 12 ॥

परिघैराहताःकेचित्केचिच्छिन्नाःपरश्वधैः ।
निरुच्छवासाःकृताः केचित्पतिताधरणीतले ॥ 13 ॥

विभिन्नहृदयाःकेचिदिषुसंधानसंदिताः ।
केचिव्दिधाकृताःखडगैःस्फुरंतःपतिताभुवि ॥ 14 ॥

वानराराक्षसैश्शूलैपार्श्वतश्चावदारिताः ।
वानरैश्चापिसंक्रुद्धैराक्षसौघाःसमंततः ॥ 15 ॥

पादपैर्गिरिशृंगैश्चसंपिष्टावसुधातले ।
वज्रस्पर्शतलैर्हस्स्सैर्मुष्टिभिश्चहताभृशम् ॥ 16 ॥

वेमुश्शोणितमास्येभ्योविशीर्णदशनेक्षणाः ।
आर्तस्वनंचस्वनतांसिंहनादंचनर्दताम् ॥ 17 ॥

बभूवतुमुलश्शब्दोहरीणांरक्षसांयुधि ।
वानराराक्षसाःक्रुद्धावीरमार्गमनुव्रताः ॥ 18 ॥

विवृत्तनयनाःक्रूराश्चक्रुःकर्माण्यभीतवत् ।
नरांतकःकुंभहनुर्महानादस्समुन्नतः ॥ 19 ॥

एतेप्रहस्तसचिवास्सर्वेजघ्नुर्वनौकसः ।
तेषामापततांशीघ्रंनिघ्नतांचापिवानरान् ॥ 20 ॥

द्विविदोगिरिशृंगेणजघानैकंनरांतकम् ।
दुर्मुखःपुनरुत्थायकपिस्सविपुलद्रुमम् ॥ 21 ॥

राक्षसंक्षिप्रहस्तस्तुसमुन्नतमपोथयत् ।
जांबवांस्तुसुसंक्रुद्धःप्रगृह्यमहतींशिलाम् ॥ 22 ॥

पातयामासतेजस्वीमहानादस्यवक्षसि ।
अथकुंभहनुस्तत्रतारेणासाद्यवीर्यवान् ॥ 23 ॥

वृक्षेणाभिहतोमूर्ध्निप्राणान्संत्याजयद्रणे ।
अमृष्यमाणस्तत्कर्मप्रहस्तोरथमाश्रितः ॥ 24 ॥

चकार कदनं घोरं धनुष् पाणिर् वन ओकसाम् ।
आवर्त;इव सम्जज्ने;उभयोह् सेनयोस् तदा ॥ 25 ॥

क्षुभितस्याप्रमेयस्यसागरस्येवनिस्स्वनः ।
महताहिशरौघेणप्रहस्तोयुद्धकोविदः ॥ 26 ॥

अर्दयामाससंक्रुद्धोवानरान् परमाहवे ।
वानराणांशरीरैश्चराक्षसानांचमेदिनी ॥ 27 ॥

बभून्विचिताघोराःपतितैरिवपर्वतै ।
सामहीरुधिरौघेणप्रच्छन्नासंप्रकाशते ॥ 28 ॥

संछन्नामाधवेमासिपलाशैरिवपुष्पितैः ।
हतवीरौघवस्रांतुभग्नायुधमहाद्रुमाम् ॥ 29 ॥

शोणित ओघ महा तोयां यम सागर गामिनीम् ।
यकृत् प्लीह महा पन्कां विनिकीर्ण अंत्र शैबलाम् ॥ 30 ॥

भिन्नकायशिरोमीनामंगावयवशाद्वलाम् ।
गृध्रहंसगणाकीर्णांकंकसारससेविताम् ॥ 31 ॥

मेदःफेनसमाकीर्णामार्तसंतितस्वनाम् ।
तांकापुरषुदुस्तारांयुद्धभूमिमयींनदीम् ॥ 32 ॥

नदीमिवघनापायेहंससारससेविताम् ।
राक्षसाःकपिमुख्याश्चतेरुस्तांदुस्तरांनदीम् ॥ 33 ॥

यथा पद्म रजो ध्वस्तां नलिनीं गज यूथपाः ।
ततः सृजंतं बाण ओघान् प्रहस्तं स्यंदने स्थितम् ॥ 34 ॥

ददर्श तरसा नीलो विनिघ्नंतं प्लवं गमान् ।
उद्धूत इव वायुः खे महादभ्रबलं बलात् ॥ 35 ॥

समीक्ष्याभिद्रुतंयुद्धेप्रहस्तोवाहिनीपतिः ।
रथेनादित्यवर्णेननीलमेवाभिदुद्रुवे ॥ 36 ॥

सधनुर्धन्विनांश्रेष्ठोविकृष्यपरमाहवे ॥ 37 ॥

नीलायव्यसृजद्बाणान्प्रहस्तोवाहिनीपतिः ।
तेप्राप्यविशिखानीलंविनिर्भिद्यसमाहिताः ॥ 38 ॥

महींजग्मुर्महावेगारुषिताइवपन्नगाः ।
नीलःशरैरभिहतोनिशितैर्ज्वलनोपमैः ॥ 39 ॥

सतंपरमदुर्धर्षमापतंतंमहाकपिः ।
प्रहस्तंताडयामासवृक्षमुत्पाट्यवीर्यवान् ॥ 40 ॥

सतेनाभिहतःक्रुद्धोनदन्राक्षसपुंगवः ।
ववर्षशरवर्षाणिप्लवंगानांचमूपतौ ॥ 41 ॥

तस्यबाणगणान्घारान्राक्षसस्यमहाबलः ।
अपारयन्वारयितुंप्रत्यगृह्णान्निमीलितः ॥ 42 ॥

यथैवगोवृषोवर्षंशारदंशीघ्रमागतम् ।
एवमेवप्रहस्तस्यशरवर्षंदुरासदम् ॥ 43 ॥

निमीलिताक्षस्सहसानीलस्सेहेदुरासदान् ।
रोषितश्शरवर्षेणसालेनमहतामहान् ।
प्रजघानहयाननीलःप्रहस्तस्यमहाबलः ॥ 44 ॥

ततन्सचापमुद्गृह्यप्रहस्तस्यमहाबलः ।
बभंजतरसानीलोननादचपुनःपुनः ॥ 45 ॥

विधनुस्तुकृतस्तेनप्रहस्तोवाहिनीपतिः ।
प्रगृह्यमुसलंघोरंस्यंदनादवपुप्लुवे ॥ 46 ॥

तावुभौवाहिनीमुख्यौजातवैरौतरस्विनौ ।
स्थितौक्षतजगदिग्धांगौप्रभिन्नाविवकुंजरौ ॥ 47 ॥

उल्लिखंतौसुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ।
सिंहशार्दूलसदृशौसिंहशार्दूलचेष्टितौ ॥ 48 ॥

विक्रांतविजयौवीरौसमरेष्न्विवर्तिनौ ।
कांक्षमाणौयशःप्राप्तुंवृत्रवासवयोस्सह ॥ 49 ॥

आजघानतदानीलंललाटेमुसलेनसः ।
प्रहस्तःपरमायत्तस्ततस्सुस्रावशोणितम् ॥ 50 ॥

ततःशोणितदिग्धांगःप्रगृह्यसुमहातरुम् ।
प्रहस्तस्योरसिक्रुद्धोविससर्जमहाकपिः ॥ 51 ॥

तमचिंत्यप्रहारंसप्रगृह्यमुसलंमहत् ।
अभिदुद्रावबलिनंबलाननीलंप्लवंगमम् ॥ 52 ॥

तमुग्रवेगंसंरब्धमापतंतंमहाकपिः ।
ततस्संप्रेक्ष्यजग्राहमहावेगोमहाशिलाम् ॥ 53 ॥

तस्ययुद्धाभिकामस्यमृथेमुसलयोधिन ।
प्रहस्तस्यशिलांनीलोमूर्ध्नितूर्णमपातयत् ॥ 54 ॥

सातेनकपिमुख्येनविमुक्तामहतीशिला ।
बिभेदबहुधाघोराप्रहस्तस्यशिरस्तदा ॥ 55 ॥

विभिन्न शिरसस् तस्य बहु सुस्राव शोणितम् ।
शरीराद् अपि सुस्राव गिरेह् प्रस्रवणं यथा ॥ 56 ॥

विभिन्नशिरसस्तस्यबहुसुस्रावशोणितम् ।
शरीरादपिसुस्रावगिरेःप्रस्रवणंयथा ॥ 57 ॥

हतेप्रहस्तेनीलेनतदकंप्यंमहाबलम् ।
राक्षसानामहृष्टानांलंकामभिजगामह ॥ 58 ॥

नशेकुस्समवस्थातुंनिहतेवाहिनीपतौ ।
सेतुबंधंसमासाद्यविशीर्णंसलिलंयथा ॥ 59 ॥

हतेतस्मिंश्चमूमुख्येराक्षसास्तेनिरुद्यमाः ।
रक्षःपतिगृहंगत्वाध्यानमूकत्वमास्थिताः ॥ 60 ॥

प्राप्ताश्शोकार्णवंतीव्रंनिस्सज्ञौइवतेऽभवन् ।
ततस्तुनीलोविजयीमहाबलःप्रशस्यमानःसुकृतेनकर्मणा ।
समेत्यरामेणसलक्ष्मणेनप्रहृष्टरूपस्तुबभूवयूथपः ॥ 61 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अष्टपंचाशस्सर्गः ॥




Browse Related Categories: