View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.17 बालकांड - सप्तदश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ सप्तदशस्सर्गः ।

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य सुमहात्मनः ।
उवाच देवतास्सर्वास्स्वयंभूर्भगवानिदम् ॥ 1 ॥

सत्यसंधस्य वीरस्य सर्वेषान्नो हितैषिणः ।
विष्णोस्सहायान्बलिनस्सृजध्वं कामरूपिणः ॥ 2 ॥

मायाविदश्च शूरांश्च वायुवेगसमांजवे ।
नयज्ञान्बुद्धिसंपन्नान्विष्णुतुल्यपराक्रमान् ॥ 3 ॥

असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् ।
सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव ॥ 4 ॥

अप्सरस्सु च मुख्यासु गंधर्वाणां तनूषु च ।
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥ 5 ॥

पूर्वमेव मया सृष्टो जांबवानृक्षपुंगवः ।
जृंभमाणस्य सहसा मम वक्त्रादजायत ॥ 6 ॥

ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् ।
जनयामासुरेवं ते पुत्रान्वानररूपिणः ॥ 7 ॥

ऋषयश्च महात्मानस्सिद्धविद्याधरोरगाः ।
चारणाश्च सुतान्वीरान्ससृजुर्वनचारिणः ॥ 8 ॥

वानरेंद्रं महेंद्राभमिंद्रो वालिनमूर्जितम् ।
सुग्रीवं जनयामास तपनस्तपतां वरः ॥ 9 ॥

बृहस्पतिस्त्वजनयत्तारं नाम महाहरिम् ।
सर्ववानरमुख्यानां बुद्धिमंतमनुत्तमम् ॥ 10 ॥

धनदस्य सुतश्श्रीमान् वानरो गंधमादनः ।
विश्वकर्मात्वजनयन्नलं नाम महाहरिम् ॥ 11 ॥

पावकस्य सुतश्श्रीमान् नीलोऽग्निसदृशप्रभः ।
तेजसा यशसा वीर्यादत्यरिच्यत वानरान् ॥ 12 ॥

रूपद्रविणसंपन्नावश्विनौ रूपसम्मतौ ।
मैंदं च द्विविदं चैव जनयामासतुस्स्वयम् ॥ 13 ॥

वरुणो जनयामास सुषेणं वानरर्षभम् ।
शरभं जनयामास पर्जन्यस्तु महाबलम् ॥ 14 ॥

मारुतस्यात्मजश्श्रीमान्हनुमान्नाम वीर्यवान् ।
वज्रसंहननोपेतो वैनतेयसमो जवे ॥ 15 ॥

ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः ।
अप्रमेयबला वीरा विक्रांताः कामरूपिणः ॥ 16 ॥

मेरुमंदरसंकाशा वपुष्मंतो महाबलाः ।
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ॥ 17 ॥

यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ।
अजायत समस्तेन तस्य तस्य सुतः पृथक् ॥ 18 ॥

गोलांगूलीषु चोत्पन्नाः केचित्सम्मतविक्रमाः ।
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ॥ 19 ॥

देवा महर्षिगंधर्वास्तार्क्ष्या यक्षा यशस्विनः ।
नागाः किंपुरुषाश्चैव सिद्धविद्याधरोरगाः ॥ 20 ॥

बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ।
वानरान्सुमहाकायान्सर्वान्वै वनचारिणः ॥ 21 ॥

अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च ।
नागकन्यासु च तथा गंधर्वीणां तनूषु च ॥ 22 ॥

कामरूपबलोपेता यथाकामं विचारिणः ।
सिंहशार्दूलसदृशा दर्पेण च बलेन च ॥ 23 ॥

शिलाप्रहरणास्सर्वे सर्वे पादपयोधिनः ॥ 24 ॥

नखदंष्ट्रायुधास्सर्वे सर्वे सर्वास्त्रकोविदाः ।
विचालयेयुश्शैलेंद्रान्भेदयेयुस्स्थिरांद्रुमान् ।
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ॥ 25 ॥

दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् ।
नभःस्थलं विशेयुश्च गृह्णीयुरपि तोयदान् ॥ 26 ॥

गृह्णीयुरपि मातंगान्मत्तान्प्रव्रजतो वने ।
नर्दमानाश्च नादेन पातयेयुर्विहंगमान् ॥ 27 ॥

ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ।
शतं शतसहस्राणि यूथपानां महात्मनाम् ॥ 28 ॥

ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ।
बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन् ॥ 29 ॥

अन्ये ऋक्षवतः प्रस्थानवतस्थु स्सहस्रशः ।
अन्ये नानाविधान्शैलान्भेजिरे काननानि च ॥ 30 ॥

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ।
भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः ॥ 31 ॥

नलं नीलं हनूमंतमन्यांश्च हरियूथपान् ।
3 ते तार्क्ष्यबलसंपन्नास्सर्वे युद्धविशारदाः ।
विचरंतोऽर्दयंदर्पात्सिंहव्याघ्रमहोरगान् ॥ 32 ॥

तांश्च सर्वान्महाबाहुर्वाली विपुलविक्रमः ।
जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ 33 ॥

तैरियं पृथिवी शूरैस्सपर्वतवनार्णवा ।
कीर्णा विविधसंस्थानैर्नानाव्यंजनलक्षणैः ॥ 34 ॥

तैर्मेघबृंदाचलकूटकल्पैः महाबलैर्वानरयूथपालैः ।
बभूव भूर्भीमशरीररूपै स्समावृता रामसहायहेतोः ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे सप्तदशस्सर्गः ॥




Browse Related Categories: