View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.46 बालकांड - षट्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ षट्चत्वारिंशस्सर्गः ।

हतेषु तेषु पुत्रेषु दितिः परमदुःखिता ।
मारीचं काश्यपं राम भर्तारमिदमब्रवीत् ॥ 1 ॥

हतपुत्राऽस्मि भगवंस्तव पुत्रैर्महाबलैः ।
शक्रहंतारमिच्छामि पुत्रं दीर्घतपोऽर्जितम् ॥ 2 ॥

साऽहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि ।
ईश्वरं शक्रहंतारं त्वमनुज्ञातुमर्हसि ॥ 3 ॥

तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा ।
प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ 4 ॥

एवं भवतु, भद्रं ते शुचिर्भव तपोधने ।
जनयिष्यसि पुत्रं त्वं शक्रहंतारमाहवे ॥ 5 ॥

पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि ।
पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ॥ 6 ॥

एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् ।
समालभ्य ततस्स्वस्तीत्युक्त्वा स तपसे ययौ ॥ 7 ॥

गते तस्मिन्नरश्श्रेष्ठ दितिः परमहर्षिता ।
कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ॥ 8 ॥

तपस्तस्यां हि कुर्वंत्यां परिचर्यां चकार ह ।
सहस्राक्षो नरश्श्रेष्ठ परया गुणसंपदा ॥ 9 ॥

अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च ।
न्यवेदयत्सहस्राक्षो यच्चान्यदपि कांक्षितम् ॥ 10 ॥

गात्रसंवहनश्चैव श्रमापनयनैस्तथा ।
शक्रस्सर्वेषु कालेषु दितिं परिचचार ह ॥ 11 ॥

अथ वर्षसहस्रे तु दशोने रघुनंदन ।
दितिः परमसंप्रीता सहस्राक्षमथाब्रवीत् ॥ 12 ॥

याचितेन सुरश्रेष्ठ तव पित्रा महात्मना ।
वरो वर्षसहस्रांते दत्तो मम सुतं प्रति ॥ 13 ॥

तपश्चरंत्या वर्षाणि दश वीर्यवतां वर ।
अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ 14 ॥

तमहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम् ।
त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः ॥ 15 ॥

एवमुक्त्वा दितिश्शक्रं प्राप्ते मध्यं दिवाकरे ।
निद्रयाऽपहृता देवी पादौ कृत्वाऽथ शीर्षतः ॥ 16 ॥

दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम् ।
शिरस्स्थाने कृतौ पादौ जहास च मुमोद च ॥ 17 ॥

तस्याश्शरीरविवरं विवेश च पुरंदरः ।
गर्भं च सप्तधा राम बिभेद परमात्मवान् ॥ 18 ॥

भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा ।
रुरोद सुस्वरं राम ततो दितिरबुध्यत ॥ 19 ॥

मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत ।
बिभेद च महातेजा रुदंतमपि वासवः ॥ 20 ॥

न हंतव्यो न हंतव्य इत्येवं दितिरब्रवीत् ।
निष्पपात ततश्शक्रो मातुर्वचनगौरवात् ॥ 21 ॥

प्रांजलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ।
अशुचिर्देवि सुप्ताऽसि पादयोः कृतमूर्धजा ॥ 22 ॥

तदंतरमहं लब्ध्वा शक्रहंतारमाहवे ।
अभिदं सप्तधा देवि तन्मे त्वं क्षंतुमर्हसि ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे षट्चत्वारिंशस्सर्गः ॥




Browse Related Categories: