View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.54 बालकांड - चतुःपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ चतुःपंचाशस्सर्गः ।

कामधेनुं वसिष्ठोऽपि यदा न त्यज्यते मुनिः ।
तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥ 1 ॥

नीयमाना तु शबला राम राज्ञा महात्मना ।
दुःखिता चिंतयामास रुदंती शोककर्शिता ॥ 2 ॥

परित्यक्ता वसिष्ठेन किमहं सुमहात्मना ।
याहं राजभटैर्दीना ह्रियेय भृशदुःखिता ॥ 3 ॥

किं मयाऽपकृतं तस्य महर्षेर्भावितात्मनः ।
यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ॥ 4 ॥

इति सा चिंतयित्वा तु विनिश्श्वस्य पुनःपुनः ।
निर्धूय तांस्तदा भृत्यान् शतशश्शत्रुसूदन ।
जगामानिलवेगेन पादमूलं महात्मनः ॥ 5 ॥

शबला सा रुदंती च क्रोशंती चेदमब्रवीत् ।
वसिष्ठस्याग्रतस्स्थित्वा मेघदुंदुभिराविणी ॥ 6 ॥

भगवन् किं परित्यक्ता त्वयाऽहं ब्रह्मणस्सुत ।
यस्माद्राजभृता मां हि नयंते त्वत्सकाशतः ॥ 7 ॥

एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् ।
शोकसंतप्तहृदयां स्वसारमिव दुःखिताम् ॥ 8 ॥

न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया ।
एष त्वां नयते राजा बलोन्मत्तो महाबलः ॥ 9 ॥

न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः ।
बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥ 10 ॥

इयमक्षौहिणी पूर्णा सवाजिरथसंकुला ।
हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥ 11 ॥

एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।
वचनं वचनज्ञा सा ब्रह्मर्षिममितप्रभम् ॥ 12 ॥

न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः ।
ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ॥ 13 ॥

अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः ।
विश्वामित्रो महावीर्यस्तेज स्तव दुरासदम् ॥ 14 ॥

नियुंक्ष्व मां महाभाग त्वद्ब्रह्मबलसंभृताम् ।
तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ॥ 15 ॥

इत्युक्तस्तु तया राम वसिष्ठ स्सुमहायशाः ।
सृजस्वेति तदोवाच बलं परबलार्दनम् ॥ 16 ॥

तस्य तद्वचनं श्रुत्वा सुरभिस्साऽसृजत्तदा ॥ 17 ॥

तस्या हुंभारवोत्सृष्टाः पप्लवाश्शतशो नृप ।
नाशयंति बलं सर्वं विश्वामित्रस्य पश्यतः ॥ 18 ॥

बलं भग्नं ततो दृष्ट्वा रथेनाक्रम्य कौशिकः ।
स राजा परमक्रुद्धो रोषविस्फारितेक्षणः ।
पप्लवान्नाशयामास शस्त्रैरुच्चावचैरपि ॥ 19 ॥

विश्वामित्रार्दितान् दृष्ट्वा पप्लवांछतशस्तदा ।
भूय एवासृजत्कोपाच्छकान् यवनमिश्रितान् ॥ 20 ॥

तैरासीत् संवृता भूमि श्शकैर्यवनमिश्रितैः ।
प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसन्निभैः ॥ 21 ॥

दीर्घासिपट्टिशधरैःमवर्णांबरावृतैः ।
निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः ॥ 22 ॥

ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह ।
तैस्तैर्यवनकांभोजाः पप्लवाश्चाकुलीकृताः ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे चतुःपंचाशस्सर्गः ॥




Browse Related Categories: