View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.68 बालकांड - अष्टषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ अष्टषष्टितमस्सर्गः ।

जनकेन समादिष्टा दूतास्ते क्लांतवाहनाः ।
त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम् ॥ 1 ॥

राज्ञो भवनमासाद्य द्वारस्थानिदमब्रुवन् ।
शीघ्रं निवेद्यतां राज्ञे दूतान्नो जनकस्य च ॥ 2 ॥

इत्युक्ता द्वारपालास्ते राघवाय न्यवेदयन् ।
ते राजवचनाद्दूता राजवेश्मप्रवेशिताः ।
ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम् ॥ 3 ॥

बद्धांजलिपुटा स्सर्वे दूता विगतसाध्वसाः ।
राजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम् ॥ 4 ॥

मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम् ।
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् ॥ 5 ॥

मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा ।
जनकस्त्वां महाराज पृच्छते सपुरस्सरम् ॥ 6 ॥

पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः ।
कौशिकानुमते वाक्यं भवंतमिदमब्रवीत् ॥ 7 ॥

पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा ।
राजानश्च कृतामर्षानिर्वीर्या विमुखीकृताः ॥ 8 ॥

सेयं मम सुता राजन् विश्वामित्रपुरस्सरैः ।
यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः ॥ 9 ॥

तच्च राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना ।
रामेण हि महाराज महत्यां जनसंसदि ॥ 10 ॥

अस्मै देया मया सीता वीर्यशुल्का महात्मने ।
प्रतिज्ञां कर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥ 11 ॥

सोपाध्यायो महाराज पुरोहितपुरस्सरः ।
शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ॥ 12 ॥

प्रीतिं च मम राजेंद्र निर्वर्तयितुमर्हसि ।
पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे ॥ 13 ॥

एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् ॥ 14 ॥

विश्वामित्राभ्यनुज्ञात श्शतानंदमते स्थितः ।
इत्युक्त्वा विरता दूता राजगौरवशंकिताः ॥ 15 ॥

दूतवाक्यं च तच्छ्रुत्वा राजा परमहर्षितः ।
वसिष्ठं वामदेवं च मंत्रिणोऽन्यांश्च सोऽब्रवीत् ॥ 16 ॥

गुप्तः कुशिकपुत्रेण कौसल्यानंदवर्धनः ।
लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥ 17 ॥

दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना ।
संप्रदानं सुतायास्तु राघवे कर्तुमिच्छति ॥ 18 ॥

यदि वो रोचते वृत्तं जनकस्य महात्मनः ।
पुरीं गच्छामहे शीघ्रं मा भूत्कालस्य पर्ययः ॥ 19 ॥

मंत्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः ।
सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मंत्रिणः ॥ 20 ॥

मंत्रिणस्तु नरेंद्रस्य रात्रिं परमसत्कृताः ।
ऊषु स्तेमुदिता स्सर्वे गुणै स्सर्वैस्समन्विताः ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे अष्टषष्टितमस्सर्गः ॥




Browse Related Categories: