View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.70 बालकांड - सप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ सप्ततितमस्सर्गः ।

ततः प्रभाते जनकः कृतकर्मा महर्षिभिः ।
उवाच वाक्यं वाक्यज्ञ श्शतानंदं पुरोहितम् ॥ 1 ॥

भ्राता मम महातेजा यवीयानतिधार्मिकः ।
कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ 2 ॥

वार्याफलकपर्यंतां पिबन्निक्षुमतीं नदीम् ।
सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम् ॥ 3 ॥

तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः ।
प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥ 4 ॥

एवमुक्ते तु वचने शतानंदस्य सन्निधौ ।
आगताः केचिदव्यग्रा जनकस्तान् समादिशत् ॥ 5 ॥

शासनात्तु नरेंद्रस्य प्रययुश्शीघ्रवाजिभिः ।
समानेतुं नरव्याघ्रं विष्णुमिंद्राज्ञया यथा ॥ 6 ॥

सांकाश्यां ते समागत्य ददृशुश्च कुशध्वजम् ।
न्यवेदयन्यथावृत्तं जनकस्य च चिंतितम् ॥ 7 ॥

तद्वृत्तं नृपति श्शृत्वा दूतश्रेष्ठैर्महाबलैः ।
अज्ञायाऽथ नरेंद्रस्य आजगाम कुशध्वजः ॥ 8 ॥

स ददर्श महात्मानं जनकं धर्मवत्सलम् ।
सोऽभिवाद्य शतानंदं राजानं चापि धार्मिकम् ॥ 9 ॥

राजार्हं परमं दिव्यमासनं चाऽध्यरोहत ।
उपविष्टावुभौ तौ तु भ्रातरावतितेजसौ ॥ 10 ॥

प्रेषयामासतुर्वीरौ मंत्रिश्रेष्ठं सुदामनम् ।
गच्छ मंत्रिपते शीघ्रमैक्ष्वाकुममितप्रभम् ॥ 11 ॥

आत्मजैस्सह दुर्धर्षमानयस्व समंत्रिणम् ।
औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ॥ 12 ॥

ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् ।
अयोध्याधिपते वीर वैदेहो मिथिलाधिपः ॥ 13 ॥

स त्वां द्रष्टुं व्यवसितस्सोपाध्यायपुरोहितम् ।
मंत्रिश्रेष्ठवच श्शृत्वा राजा सर्षिगणस्तदा ॥ 14 ॥

सबंधुरगमत्तत्र जनको यत्र वर्तते ।
स राजा मंत्रिसहित स्सोपाध्यायः सबांधवः ॥ 15 ॥

वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ।
विदितं ते महाराज इक्ष्वाकुकुलदैवतम् ॥ 16 ॥

वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः ।
विश्वामित्राभ्यनुज्ञातस्सह सर्वैर्महर्षिभिः ॥ 17 ॥

एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ।
एवमुक्त्वा नरश्रेष्ठे राज्ञां मध्ये महात्मनाम् ॥ 18 ॥

तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः ।
उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम् ॥ 19 ॥

अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।
तस्मान्मरीचि स्संजज्ञे मरीचेः काश्यपः सुतः ॥ 20 ॥

विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वत स्स्मृतः ।
मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोस्सुतः ॥ 21 ॥

तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।
इक्ष्वाकोस्तु सुतश्श्रीमान् कुक्षिरित्येव विश्रुतः ॥ 22 ॥

कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत ।
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ॥ 23 ॥

बाणस्य तु महातेजा अनरण्यः प्रतापवान् ।
अनरण्यात्पृथुर्जज्ञे त्रिशंकुस्तु पृथोस्सुतः ॥ 24 ॥

त्रिशंकोरभवत्पुत्रो दुंदुमारो महायशाः ।
युवनाश्वसुतस्त्वासीन्मांधाता पृथिवीपतिः ॥ 25 ॥

मांधातुस्तु सुत श्श्रीमान् सुसंधिरुदपद्यत ।
सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ॥ 26 ॥

यशस्वी ध्रुवसंधेस्तु भरतो नाम नामतः ।
भरतात्तु महातेजा असितो नाम जातवान् ॥ 27 ॥

यस्यैते प्रतिराजान उदपद्यंत शत्रवः ।
हैहयास्तालजंघाश्च शूराश्च शशिबिंदवः ॥ 28 ॥

तांस्तु स प्रतियुध्यन् वै युद्धे राजा प्रवासितः ।
हिमवंतमुपागम्य भृगुप्रस्रवणेऽवसत् ॥ 29 ॥

असितोऽल्पबलो राजा मंत्रिभिस्सहितस्तदा ।
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम् ॥ 30 ॥

एका गर्भविनाशाय सपत्न्यै सगरं ददौ ।
तत श्शैलवरं रम्यं बभूवाभिरतो मुनिः ॥ 31 ॥

भार्गवश्च्यवनो नाम हिमवंतमुपाश्रितः ।
तत्रैका तु महाभागा भार्गवं देववर्चसम् ॥ 32 ॥

ववंदे पद्मपत्राक्षी कांक्षंती सुतमात्मनः ।
तमृषिं साऽभ्युपागम्य कालिंदी चाभ्यवादयत् ॥ 33 ॥

स तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ।
तव कुक्षौ महाभागे सुपुत्रस्सुमहाबलः ॥ 34 ॥

महावीर्यो महातेजा अचिरात्संजनिष्यति ।
गरेण सहित श्श्रीमान् मा शुचः कमलेक्षणे ॥ 35 ॥

च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता ।
पतिशोकातुरा तस्मात्पुत्रं देवी व्यजायत ॥ 36 ॥

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
सह तेन गरेणैव जातः स सगरोऽभवत् ॥ 37 ॥

सगरस्यासमंजस्तु असमंजात्तथांऽशुमान् ।
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ 38 ॥

भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुतः ।
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ॥ 39 ॥

कल्माषपादो ह्यभवत्तस्माज्जातस्तु शंखणः ।
सुदर्शनः शंघणस्य अग्निवर्ण स्सुदर्शनात् ॥ 40 ॥

शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरु स्सुतः ।
मरोः प्रशुश्रुकस्त्वासीदंबरीषः प्रशुश्रृकात् ॥ 41 ॥

अंबरीषस्य पुत्रोऽभून्नहुषः पृथिवीपतिः ।
नहुषस्य ययातिस्तु नाभागस्तु ययातिजः ॥ 42 ॥

नाभागस्य बभूवाजः अजाद्दशरथोऽभवत् ।
अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ 43 ॥

आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् ।
इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥ 44 ॥

रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप ।
सदृशाभ्यां नृपश्रेष्ठ सदृशे दातुमर्हसि ॥ 45 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे सप्ततितमस्सर्गः ॥




Browse Related Categories: