View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.9 बालकांड - नवम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ नवमस्सर्गः ।

एतच्छ्रुत्वा रहस्सूतो राजानमिदमब्रवीत् ।
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ॥ 1 ॥

सनत्कुमारो भगवान्पूर्वं कथितवान्कथाम् ।
ऋषीणां सन्निधौ राजन् तव पुत्रागमं प्रति ॥ 2 ॥

काश्यपस्यतु पुत्रोऽस्ति विभंडक इति श्रुतः ।
ऋष्यशृंग इति ख्यातस्तस्य पुत्रो भविष्यति ॥ 3 ॥

स वने नित्यसंवृद्धो मुनिर्वनचरस्सदा ।
नान्यं जानाति विप्रेंद्रो नित्यं पित्रनुवर्तनात् ॥ 4 ॥

द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ।
लोकेषु प्रथितं राजन्विप्रैश्च कथितं सदा ॥ 5 ॥

तस्यैवं वर्तमानस्य कालस्समभिवर्तत ।
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ॥ 6 ॥

एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ।
अंगेषु प्रथितो राजा भविष्यति महाबलः ॥ 7 ॥

तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा ।
अनावृष्टिस्सुघोरा वै सर्वभूतभयावहा ॥ 8 ॥

अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ।
ब्राह्मणान्श्रुतवृद्धांश्च समानीय प्रवक्ष्यति ॥ 9 ॥

भवंतश्श्रुतधर्माणो लोकचारित्रवेदिनः ।
समादिशंतु नियमं प्रायश्चित्तं यथा भवेत् ॥ 10 ॥

वक्ष्यंति ते महीपालं ब्राह्मणा वेदपारगाः ।
विभंडकसुतं राजन्सर्वोपायैरिहानय ॥ 11 ॥

आनाय्य च महीपाल ऋश्यशृंगं सुसत्कृतम् ।
प्रयच्छ कन्यां शांतां वै विधिना सुसमाहितः ॥ 12 ॥

तेषां तु वचनं श्रुत्वा राजा चिंतां प्रपत्स्यते ।
केनोपायेन वै शक्य इहानेतुं स वीर्यवान् ॥ 13 ॥

ततो राजा विनिश्चित्य सह मंत्रिभिरात्मवान् ।
पुरोहितममात्यांश्च ततः प्रेष्यति सत्कृतान् ॥ 14 ॥

ते तु राज्ञो वचश्श्रुशृत्वा व्यथिता विनताननाः ।
न गच्छेम ऋषेर्भीता अनुनेष्यंति तं नृपम् ॥ 15 ॥

वक्ष्यंति चिंतयित्वा ते तस्योपायांश्च तत्क्षमान् ।
आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥ 16 ॥

एवमंगाधिपेनैव गणिकाभिः ऋषेस्सुतः ।
आनीतोऽवर्षयद्देवश्शांता चास्मै प्रदीयते ॥ 17 ॥

ऋश्यशृंगस्तु जामाता पुत्रांस्तव विधास्यति ।
सनत्कुमारकथितमेतावद्व्याहृतं मया ॥ 18 ॥

अथ हृष्टो दशरथस्सुमंत्रं प्रत्यभाषत ।
यथर्श्यशृंगस्त्वानीतो विस्तरेण त्वयोच्यताम् ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे नवमस्सर्गः ॥




Browse Related Categories: