View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.105 अयोध्याकांड - पंचाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ पंचाधिकशततमस्सर्गः ।

ततः पुरुषसिंहानां वृतानां तै स्सुहृद्गणैः ।
शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥ 1 ॥

रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः ।
मंदाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ 2 ॥

तूष्णीं ते समुपासीना न कश्चित्किंचिदब्रवीत् ।
भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ 3 ॥

सांत्विता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि तवैवाहं भुंक्ष्व राज्यमकंटकम् ॥ 4 ॥

महतेवांबुवेगेन भिन्नस्सेतुर्जलागमे ।
दुरावारं त्वदन्येन राज्यखंडमिदं महत् ॥ 5 ॥

गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः ।
अनुगंतुं न शक्तिर्मे गतिं तव महीपते ॥ 6 ॥

सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।
राम तेन तु दुर्जीवं यः परानुपजीवति ॥ 7 ॥

यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः ।
ह्रस्वकेण दुरारोहो रूढस्कंधो महाद्रुमः ॥ 8 ॥

स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।
स तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः ॥ 9 ॥

एषोपमा महाबाहो तमर्थं वेत्तु मर्हसि ।
यदि त्वमस्मान्वृषभो भर्ता भृत्यान्न शाधि हि ॥ 10 ॥

श्रेणयस्त्वां महाराज पश्यंत्वग्य्राश्च सर्वशः ।
प्रतपंतमिवादित्यं राज्ये स्थित मरिंदमम् ॥ 11 ॥

तवानुयाने काकुत्स्थ मत्ता नर्दंतु कुंजराः ।
अंतःपुरगता नार्यो नंदंतु सुसमाहिताः ॥ 12 ॥

तस्य साध्वित्यमन्यंत नागरा विविधा जनाः ।
भरतस्य वच श्श्रुत्वा रामं प्रत्यनुयाचतः ॥ 13 ॥

तमेवं दुःखितं प्रेक्ष्य विलपंतं यशस्विनम् ।
रामः कृतात्मा भरतं समाश्वासयदात्मवान् ॥ 14 ॥

नाऽत्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः ।
इतश्चेतरतश्चैनं कृतांतः परिकर्षति ॥ 15 ॥

सर्वे क्षयांताः निचयाः पतनांता समुच्छ्रयाः ।
संयोगा विप्रयोगांता मरणांतं च जीवितम् ॥ 16 ॥

यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ 17 ॥

यथाऽगारं दृढस्थूणं जीर्णं भूत्वाऽवसीदति ।
तथैव सीदंति नरा जरामृत्युवशं गताः ॥ 18 ॥

अत्येति रजनी या तु सा न प्रतिनिवर्तते ।
यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ 19 ॥

अहो रात्राणि गग्च्छंति सर्वेषां प्राणिनां इह ।
आयूम्षि क्षपयंत्य् आशु ग्रीष्मे जलं इव अंशवः ॥ 20 ॥

आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।
आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ 21 ॥

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।
गत्वासुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ 22 ॥

गात्रेषु वलयः प्राप्ता श्श्वेताश्चैव शिरोरुहाः ।
जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ 23 ॥

नंदंत्युदित आदित्ये नंदंत्यस्तमितेऽहनि ।
आत्मनो नावबुध्यंते मनुष्या जीवितक्षयम् ॥ 24 ॥

हृष्यंत्यृतुमुखं दृष्ट्वा नवं नवमिहागतम् ।
ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः ॥ 25 ॥

यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।
समेत्य च व्यपेयातां कालमासाद्य कंचन ॥ 26 ॥

एवं भार्याश्चपुत्राश्च ज्ञातयश्च धनानि च ।
समेत्य व्यवधावंति ध्रुवो ह्येषां विनाभवः ॥ 27 ॥

यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।
समेत्य च व्यपेयातां कालमासाद्य कंचन ॥ 28 ॥

एवं भार्याश्चपुत्राश्च ज्ञातयश्च धनानि च ।
समेत्य व्यवधावंति ध्रुवो ह्येषां विनाभवः ॥ 29 ॥

नात्र कश्चिद्यथाभावं प्राणी समभिवर्तते ।
तेन तस्मिन्न सामर्थ्यं प्रेतस्या स्त्यनुशोचतः ॥ 30 ॥

यथा हि सार्थं गच्छंतं ब्रूयात्कश्चित्पथि स्थितः ।
अहमप्यागमिष्यामि पृष्ठतो भवता मिति ॥ 31 ॥

एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः ।
तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥ 32 ॥

वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः ।
आत्मा सुखे नियोक्तव्यस्सुखभाजः प्रजाः स्मृताः ॥ 33 ॥

धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः ।
स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥ 34 ॥

भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात् ।
अर्थादानाच्च धर्मेण पिता न स्त्रिदिवंगतः ॥ 35 ॥

कर्मभि स्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः ।
स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥ 36 ॥

इष्ट्वा बहुविधैर्यज्ञैर्भोगां श्चावाप्य पुष्कलान् ।
उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥ 37 ॥

आयुरुत्तममासाद्य भोगानपि च राघवः ।
स न शोच्यः पिता तात स्वर्गत स्सत्कृत स्सताम् ॥ 38 ॥

स जीर्णं मानुषं देहं परित्यज्य पिता हि नः ।
दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ 39 ॥

तं तु नैवंविधः कश्चित्प्राज्ञ श्शोचितुमर्हति ।
तत्विधो मद्विधश्चापि श्रुतवान्बुद्धिमत्तरः ॥ 40 ॥

एते बहुविधा शोका विलापरुदिते तथा ।
वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ 41 ॥

स स्वस्थो भव मा शोचेर्यात्वा चावसतां पुरीम् ।
तथा पित्रा नियुक्तोऽसि वशिना वदतां वर ॥ 42 ॥

यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा ।
तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् ॥ 43 ॥

न मया शासनं तस्य त्यक्तुं न्याय्य मरिंदम ।
स त्वयापि सदा मान्यं स वै बंधु स नः पिता ॥ 44 ॥

तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः ।
कर्मणा पालयिष्यामि वनवासेन राघव ॥ 45 ॥

धार्मिकेणानृशंसेन नरेण गुरुवर्तिना ।
भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ 46 ॥

आत्मानमनुतिष्ठत्वं स्वभावेन नरर्षभ ।
निशाम्यतु शुभं वृत्तं पितुर्दशरथस्य नः ॥ 47 ॥

इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेश प्रतिपालनार्थम् ।
यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ 48 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे पंचाधिकशततमस्सर्गः ॥




Browse Related Categories: