View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.19 अयोध्याकांड - एकोनविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकोनविंशस्सर्गः ।

तदप्रियममित्रघ्नो वचनं मरणोपमम् ।
श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ 1 ॥

एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः ।
जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ 2 ॥

इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः ।
नाभिनंदति दुर्धर्षो यथापूर्वमरिंदमः ॥ 3 ॥

मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः ।
यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ 4 ॥

हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च ।
नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥ 5 ॥

अलीकं मानसं त्वेकं हृदयं दहतीव मे ।
स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ॥ 6 ॥

अहं हि सीतां राज्यं च प्राणानिष्टांधनानि च ।
हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ 7 ॥

किं पुनर्मनुजेंद्रेण स्वयं पित्रा प्रचोदितः ।
तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ 8 ॥

तदाश्वासय हीमं त्वं किन्विदं यन्महीपतिः ।
वसुधासक्तनयनो मंदमश्रूणि मुंचति ॥ 9 ॥

गच्छंतु चैवानयितुं दूताश्श्रीघ्रजवैर्हयैः ।
भरतं मातुलकुलादद्यैव नृपशासनात् ॥ 10 ॥

दंडकारण्यमेषोऽहमितो गच्छामि सत्वरः ।
अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ 11 ॥

सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी ।
प्रस्थानं श्रद्धधाना हि त्वरयामास राघवम् ॥ 12 ॥

एवं भवतु यास्यंति दूता श्शीघ्रजवैर्हयैः ।
भरतं मातुलकुलादुपावर्तयितुं नराः ॥ 13 ॥

तव त्वहं क्षमं मन्ये नोत्सुकस्य विलंबनम् ।
राम तस्मादित श्शीघ्रं वनं त्वं गंतुमर्हसि ॥ 14 ॥

व्रीडान्वित स्स्वयं यच्च नृपस्त्वां नाभिभाषते ।
नैतत्किंचिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम् ॥ 15 ॥

यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् ।
पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा ॥ 16 ॥

धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः ।
मूर्छितो न्यपतत्तस्मिन्पर्यंके हेमभूषिते ॥ 17 ॥

रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः ।
कशयेवाहतो वाजी वनं गंतुं कृतत्वरः ॥ 18 ॥

तदप्रियमनार्याया वचनं दारुणोदयम् ।
श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ 19 ॥

नाहमर्थपरो देवि लोकमावस्तुमुत्सहे ।
विद्धिमामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥ 20 ॥

यदत्र भवतः किंचिच्छक्यं कर्तुं प्रियं मया ।
प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ 21 ॥

न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम् ।
यथा पितरिशुश्रूषा तस्य वा वचनक्रिया ॥ 22 ॥

अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् ।
वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ 23 ॥

न नूनं मयि कैकयि किंचिदाशंससे गुणम् ।
यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ 24 ॥

यावन्मातरमाप्नच्छे सीतां चानुनयाम्यहम् ।
ततोऽद्यैव गमिष्यामि दंडकानां महद्वनम् ॥ 25 ॥

भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।
तथा भवत्या कर्तव्यं स हि धर्म स्सनातनः ॥ 26 ॥

स रामस्य वचश्श्रृत्वा भृशं दुःखहतः पिता ।
शोकादशक्नुवन्वकतुं प्ररुरोद महास्वनम् ॥ 27 ॥

वंदित्वा चरणौ रामो विसंज्ञस्य पितुस्तथा ।
कैकेय्याश्चाप्यनार्यायाः निष्पपात महाद्युतिः ॥ 28 ॥

स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् ।
निष्क्रम्यांतःपुरात्तस्मात्स्वं ददर्श सुहृज्जनम् ॥ 29 ॥

तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह ।
लक्ष्मणः परमक्कृध्दः स्सुमित्रानंदवर्धनः ॥ 30 ॥

अभिषेचनिकं भांडं कृत्वा रामः प्रदक्षिणम् ।
शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् ॥ 31 ॥

न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति ।
लोककांतस्य कांतत्वाच्छीतरश्मेरिव क्षपा ॥ 32 ॥

न वनं गंतुकामस्य त्यजतश्च वसुंधराम् ।
सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ 33 ॥

प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते ।
विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥ 34 ॥

धारयन् मनसा दुःखमिंद्रियाणि निगृह्य च ।
प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान् ॥ 35 ॥

सर्वोह्यभिजनश्श्रीमान् श्रीमतस्सत्यवादिनः ।
नालक्षयत रामस्य किंचिदाकारमानने ॥ 36 ॥

उचितं च महाबाहुर्नजहौहर्षमात्मनः ।
शारद स्समुदीर्णांशुश्चंद्रस्तेज इवात्मजम् ॥ 37 ॥

वाचा मधुरया रामस्सर्वं सम्मानयंजनम् ।
मातुस्समीपं धीरात्मा प्रविवेश महायशाः ॥ 38 ॥

तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः ।
सौमित्रिरनुवव्राज धारयंदुःखमात्मजम् ॥ 39 ॥

प्रविश्य वेश्मातिभृशं मुदाऽन्वितं समीक्ष्य तां चार्थविपत्तिमागताम् ।
न चैव रामोऽत्रजगामविक्रियां सुहृज्जनस्यात्मविपत्तिशंकया ॥ 40 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकोनविंशस्सर्गः ॥




Browse Related Categories: