View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.21 अयोध्याकांड - एकविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकविंशस्सर्गः ।

तथा तु विलपंतीं तां कौसल्यां राममातरम् ।
उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ 1 ॥

न रोचते ममाप्येतदार्ये यद्राघवो वनम् ।
त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः ॥ 2 ॥

विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः ।
नृपः किमिव न ब्रूयाच्चोद्यमानस्समन्मथः ॥ 3 ॥

नास्यापराधं पश्यामि नापि दोषं तथाविधम् ।
येन निर्वास्यते राष्ट्राद्वनवासाय राघवः ॥ 4 ॥

न तं पश्याम्यहं लोके परोक्षमपि यो नरः ।
स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥ 5 ॥

देवकल्पमृजुं दांतं रिपूणामपि वत्सलम् ।
अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् ॥ 6 ॥

तदिदं वचनं राज्ञःपुनर्बाल्यमुपेयुषः ।
पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् ॥ 7 ॥

यावदेव न जानाति कश्चिदर्थमिमं नरः ।
तावदेव मया सार्धमात्मस्थं कुरु शासनम् ॥ 8 ॥

मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।
क स्समर्थोऽधिकं कर्तुं कृतांतस्येव तिष्ठतः ॥ 9 ॥

निर्मनुष्यामिमां कृत्स्नामयोध्यां मनुजर्षभ ।
करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ 10 ॥

भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति ।
सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते ॥ 11 ॥

प्रोत्साहितोऽयं कैकेय्या स दुष्टो यदि नः पिता ।
अमित्रभूतो निस्संगं वध्यतां बध्यतामपि ॥ 12 ॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥ 13 ॥

बलमेष किमाश्रित्य हेतुं वापुरुषर्षभ ।
दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ॥ 14 ॥

त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् ।
काऽस्य शक्तिश्श्रियं दातुं भरतायारिशासन ॥ 15 ॥

अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः ।
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ 16 ॥

दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति ।
प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ॥ 17 ॥

हरामि वीर्याद्दुःखं ते तम स्सूर्य इवोदितः ।
देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ॥ 18 ॥

एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः ।
उवाच रामं कौशल्या रुदंती शोकलालसा ॥ 19 ॥

भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया ।
यदत्रानंतरं कार्यं कुरुष्व यदि रोचते ॥ 20 ॥

न चाधर्म्यं वच श्रुत्वा सपत्न्या मम भाषितम् ।
विहाय शोकसंतप्तां गंतुमर्हसि मामितः ॥ 21 ॥

धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि ।
शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् ॥ 22 ॥

शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् ।
परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥ 23 ॥

यथैव राजा पूज्यस्ते गौरवेण तथाऽस्म्यहम् ।
त्वां नाहमनुजानामि न गंतव्यमितो वनम् ॥ 24 ॥

त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा ।
त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ॥ 25 ॥

यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ।
अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् ॥ 26 ॥

ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् ।
ब्रह्महत्यामिवाधर्मात्समुद्र स्सरितां पतिः ॥ 27 ॥

विलपंतीं तथा दीनां कौसल्यां जननीं ततः ।
उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ 28 ॥

नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम ।
प्रसादये त्वां शिरसा गंतुमिच्छाम्यहं वनम् ॥ 29 ॥

ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा ।
गौर्हता जानता धर्मं कंडुनाऽपि विपश्चिता ॥ 30 ॥

अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः ।
खनद्भिस्सागरैर्भूमिमवाप्तस्सुमहान्वधः ॥ 31 ॥

जामद्ग्न्येन रामेण रेणुका जननी स्वयम् ।
कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा ॥ 32 ॥

एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् ।
पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम् ॥ 33 ॥

न खल्वेतन्मयैकेन क्रियते पितृशासनम् ।
एतैरपि कृतं देवि ये मया तव कीर्तिताः ॥ 34 ॥

नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये ।
पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥ 35 ॥

तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा ।
पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ 36 ॥

तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् ।
वाक्यं वाक्यविदां श्रेष्ठश्श्रेष्ठस्सर्वधनुष्मताम् ॥ 37 ॥

तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।
विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ॥ 38 ॥

मम मातुर्महद्दुःखमतुलं शुभलक्षण ।
अभिप्रायमविज्ञाय सत्यस्य च शमस्य च ॥ 39 ॥

धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् ।
धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥ 40 ॥

संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ।
न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ 41 ॥

सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् ।
पितुर्हिवचनाद्वीर कैकेय्याऽहं प्रचोदितः ॥ 42 ॥

तदेतां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् ।
धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥ 43 ॥

तमेवमुत्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः ।
उवाच भूयः कौसल्यां प्रांजलिश्शिरसानतः ॥ 44 ॥

अनुमन्यस्व मां देवि गमिष्यंतमितो वनम् ।
शापिताऽसि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥ 45 ॥

तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् ।
ययातिरिव राजर्षिःपुरा हित्वा पुनर्दिवम् ॥ 46 ॥

शोकस्संधार्यतां मात र्हृदये साधु मा शुचः ।
वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥ 47 ॥

त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।
पितुर्नियोगे स्थातव्यमेष धर्मस्सनातनः ॥ 48 ॥

अंब संहृत्य संभारान् दुःखं हृदि निगृह्य च ।
वनवासकृता बुद्धिर्मम धर्म्याऽनु वर्त्यताम् ॥ 49 ॥

एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लबं च ।
मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच ॥ 50 ॥

यथैव ते पुत्र पिता तथाऽहं गुरु स्स्वधर्मेण सुहृत्तया च ।
न त्वाऽनुजानामि न मां विहाय सुदुःखितामर्हसि गंतुमेवम् ॥ 51 ॥

किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयाऽमृतेन ।
श्रेयो मुहूर्तं तव सन्निधानं ममेह कृत्स्नादपि जीवलोकात् ॥ 52 ॥

नरैरिवोल्काभिरपोह्यमानो महागजोऽध्वानमनुप्रविष्टः ।
भूयः प्रजज्वाल विलापमेवं निशम्य रामः करुणं जनन्याः ॥ 53 ॥

स मातरं चैव विसंज्ञकल्पा मार्तं च सौमित्रिमभिप्रतप्तम् ।
धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम् ॥ 54 ॥

अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च ।
मम त्वभिप्रायमसन्निरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम् ॥ 55 ॥

धर्मार्थकामाः खलु तात लोके समीक्षिता धर्मफलोदयेषु ।
ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याऽभिमता सुपुत्रा ॥ 56 ॥

यस्मिंस्तु सर्वे स्युरसन्निविष्टा धर्मो यत स्स्यात्तदुपक्रमेत ।
द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता ॥ 57 ॥

गुरुश्च राजा च पिता च वृद्धः क्रोधात्प्रहर्षाद्यदि वाऽपि कामात् ।
यद्व्यादिशेत्कार्यमवेक्ष्य धर्मं कस्तन्न कुर्यादनृशंसवृत्तिः ॥ 58 ॥

स वै न शक्नोमि पितुः प्रतिज्ञा मिमामकर्तुं सकलां यथावत् ।
स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गति स्सधर्मः ॥ 59 ॥

तस्मिन्पुनर्जीवति धर्मराजे विशेषतस्स्वे पथि वर्तमाने ।
देवी मया सार्धमितोऽपगच्छेत् कथं स्विदन्या विधवेव नारी ॥ 60 ॥

सा माऽनुमन्यस्व वनं व्रजंतं कुरुष्व न स्स्वस्त्ययनानि देवि ।
यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः ॥ 61 ॥

यशो ह्यहं केवलराज्यकारणा न्न पृष्ठतः कर्तुमलं महोदयम् ।
अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः ॥ 62 ॥

प्रसादयन्नरवृषभ स्समातरं पराक्रमाज्जिगमिषुरेव दंडकान् ।
अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम् ॥ 63 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकविंशस्सर्गः ॥




Browse Related Categories: