View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.66 अयोध्याकांड - षट्षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षट्षष्टितमस्सर्गः ।

तमग्निमिव संशांतमंबुहीनमिवार्णवम् ।
हतप्रभमिवाऽऽदित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ॥ 1 ॥

कौसल्या बाष्पपूर्णाक्षी विविधां शोककर्शिता ।
उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत ॥ 2 ॥

तमग्निमिव संशांतमंबुहीनमिवार्णवम् ।
हतप्रभमिवाऽऽदित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ॥ 3 ॥

कौसल्या बाष्पपूर्णाक्षी विविधां शोककर्शिता ।
उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत ॥ 4 ॥

सकामा भव कैकेयि भुंक्ष्व राज्यमकंटकम् ।
त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि ॥ 5 ॥

विहाय मां गतो रामः भर्ता च स्वर्गतो मम ।
विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ॥ 6 ॥

भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः ।
इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ॥ 7 ॥

न लुब्धो बुध्यते दोषान् किंपाकमिव भक्षयन् ।
कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम् ॥ 8 ॥

अनियोगे नियुक्तेन राज्ञा रामं विवासितम् ।
सभार्यं जनकश्श्रुत्वा परितप्स्यत्यहं यथा ॥ 9 ॥

स मामनाथां विधवां नाद्य जानाति धार्मिकः ।
रामः कमलपत्राक्षः जीवन्नाशमितो गतः ॥ 10 ॥

विदेहराजस्य सुता तथा सीता तपस्विनी ।
दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति ॥ 11 ॥

नदतां भीमघोषाणां निशासु मृगपक्षिणाम् ।
निशम्य नूनं संत्रस्ता राघवं संश्रयिष्यति ॥ 12 ॥

वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनुचिंतयन् ।
सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् ॥ 13 ॥

साऽहमद्यैव दिष्टांतं गमिष्यामि पतिव्रता ।
इदं शरीर मालिंग्य प्रवेक्ष्यामि हुताशनम् ॥ 14 ॥

तां ततस्संपरिष्वज्य विलपंतीं तपस्विनीम् ।
व्यपनीय सुदुःखार्तां कौसल्यां व्यावहारिकाः ॥ 15 ॥

तैलद्रोण्यामथामात्या सम्वेश्य जगतीपतिम् ।
राज्ञस्सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनंतरम् ॥ 16 ॥

न तु संकलनं राज्ञो विना पुत्रेण मंत्रिणः ।
सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षंति भूमिपम् ॥ 17 ॥

तैलद्रोण्यां तु सचिवैश्शायितं तं नराधिपम् ।
हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् ॥ 18 ॥

बाहूनुद्यम्य कृपणाः नेत्रप्रस्रवणैर्मुखैः ।
रुदंत्य श्शोकसंतप्ताः कृपणं पर्यदेवयन् ॥ 19 ॥

हा महाराज रामेण सततं प्रियवादिना ।
विहीनास्सत्यसंधेन किमर्थं विजहासि नः ॥ 20 ॥

कैकेय्या दुष्टभावायाः राघवेण वियोजिताः ।
कथं पतिघ्नया वत्स्याम स्समीपे विधवा वयम् ॥ 21 ॥

स हि नाथस्सदास्माकं तव च प्रभुरात्मवान् ।
वनं रामो गतश्श्रीमान्विहाय नृपतिश्रियम् ॥ 22 ॥

त्वया तेन च वीरेण विना व्यसनमोहिताः ।
कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः ॥ 23 ॥

यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।
सीतया सह संत्यक्ता स्साकमन्यं न हास्यति ॥ 24 ॥

ता बाष्पेण च संवीताश्शोकेन विपुलेन च ।
व्यवेष्टंत निरानंदा राघवस्य वरस्त्रियः ॥ 25 ॥

निशा चंद्रविहीनेव स्त्रीव भर्तृविवर्जिता ।
पुरी नाराजतायोध्या हीना राज्ञा महात्मना ॥ 26 ॥

बाष्पपर्याकुलजना हाहाभूतकुलांगना ।
शून्यचत्वरवेश्मांता न बभ्राज यथापुरम् ॥ 27 ॥

गते तु शोकात् त्रिदिवं नराधिपे महीतलस्थासु नृपांगनासु च ।
निवृत्तचारस्सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता ॥ 28 ॥

ऋते तु पुत्राद्धहनं महीपतेर्नरोचयंते सुहृदस्समागताः ।
इतीव तस्मिन् शयने न्यवेशयन् वनिचिंत्य राजानमचिंत्य दर्शनम् ॥ 29 ॥

गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी ।
पुरी बभासे रहिता महात्मना न चास्रकंठाऽकुलमार्गचत्वरा ॥ 30 ॥

नराश्च नार्यश्च समेत्य संघशः विगर्हमाणा भरतस्य मातरम् ।
तदा नगर्यां नरदेवसंक्षये बभूवुरार्ता न च शर्म लेभिरे ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षट्षष्टितमस्सर्गः ॥




Browse Related Categories: