View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.87 अयोध्याकांड - सप्ताशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्ताशीतितमस्सर्गः ।

गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।
ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥ 1 ॥

सुकुमारो महासत्त्वस्सिंहस्कंधो महाभुजः ।
पुंडरीकविशालाक्ष स्तरुणः प्रियदर्शनः ॥ 2 ॥

प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः ।
पपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः ॥ 3 ॥

तदवस्थं तु भरतं शत्रुघ्नोऽनंतरस्थितः ।
परिष्वज्य रुरोदोच्चैर्विसंज्ञश्शोककर्शितः ॥ 4 ॥

ततस्सर्वास्समापेतुर्मातरो भरतस्य ताः ।
उपवासकृशा दीना भर्तृव्यसनकर्शिताः ॥ 5 ॥

ताश्च तं पतितं भूमौ रुदंत्यः पर्यवारयन् ।
कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे ॥ 6 ॥

वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी ।
परिपप्रच्छ भरतं रुदंती शोकलालसा ॥ 7 ॥

पुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते ।
अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् ॥ 8 ॥

त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृकेगते ।
वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥ 9 ॥

कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किंचदप्रियम् ।
पुत्रे वाऽप्येकपुत्राया स्सहभार्ये वनं गते ॥ 10 ॥

स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः ।
कौसल्यां परिसांत्वेद्यं गुहं वचनमब्रवीत् ॥ 11 ॥

भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः ।
अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥ 12 ॥

सोऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः ।
यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ 13 ॥

अन्नमुच्चावचं भक्षाः फलानि विविधानि च ।
रामायाभ्यवहारार्थं बहुचोपहृतं मया ॥ 14 ॥

तत्सर्वं प्रत्यनुज्ञासीद्राम स्सत्यपराक्रमः ।
न तु तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन् ॥ 15 ॥

न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा ।
इति तेन वयं राजन्ननुनीता महात्मना ॥ 16 ॥

लक्ष्मणेन समानीतं पीत्वा वारि महायशाः ।
औपवास्यं तदाऽकार्षीद्राघवस्सह सीतया ॥ 17 ॥

ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा ।
वाग्यतास्ते त्रय स्संध्यां समुपासत संहिताः ॥ 18 ॥

सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम् ।
स्वयमानीय बर्हींषि क्षिप्रं राघवकारणात् ॥ 19 ॥

तस्मिन्समाविशद्राम स्स्वास्तरे सह सीतया ।
प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥ 20 ॥

एतत्तदिंगुदीमूलमिदमेव च तत्तृणम् ।
यस्मिन्रामश्च सीता च रात्रिं तां शयितावुभौ ॥ 21 ॥

नियम्य पृष्ठे तु तलांगुलित्रवान् शरैस्सुपूर्णाविषुधी परंतपः ।
महाद्धनु स्सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत्परितोऽस्य केवलम् ॥ 22 ॥

तत स्त्वहंचोत्तमबाणचापधृत् स्थितोऽभवं तत्र स यत्र लक्ष्मणः ।
अतंद्रितैर्ज्ञातिभिरात्तकार्मुकैर्महेंद्रकल्पं परिपालयंस्तदा ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्ताशीतितमस्सर्गः ॥




Browse Related Categories: