View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.45 अरण्यकांड - पंचचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ पंचचत्वारिंशस्सर्गः ।

आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ।
उवाच लक्ष्मणं सीता गच्छ जीनीहि राघवम् ॥ 1 ॥

न हि मे हृदयं स्थाने जीवितं वाऽवतिष्ठति ।
क्रोशतः परमार्तस्य श्रुतश्शब्दो मया भृशम् ॥ 2 ॥

आक्रंदमानं तु वने भ्रातरं त्रातुमर्हसि ।
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥ 3 ॥

रक्षसां वशमापन्नं सिंहानामिव गोवृषम् ।
न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥ 4 ॥

तमुवाच ततस्तत्र कुपिता जनकात्मजा ।
सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ॥ 5 ॥

यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे ।
इच्छसि त्वं विनश्यंतं रामं लक्ष्मण मत्कृते ॥ 6 ॥

लोभात्त्वं मत्कृते नूनं नानुगच्छसि राघवम् ।
व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरिनास्तिते ॥ 7 ॥

तेन तिष्ठसि विश्रब्धंतमपश्यन्महाद्युतिम् ।
किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ॥ 8 ॥

कर्तव्यमिह तिष्ठंत्या यत्प्रधानस्त्वमागतः ।
इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम् ॥ 9 ॥

अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव ।
पन्नगासुरगंधर्वदेवमानुषराक्षसैः ॥ 10 ॥

अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः ।
देवि देवमनुष्येषु गंधर्वेषु पतत्रिषु ॥ 11 ॥

राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ।
दानवेषु च घोरेषु स न विद्येत शोभने ॥ 12 ॥

यो रामं प्रतियुध्येत समरे वासवोपमम् ।
अवध्यस्समरे रामो नैवं त्वं वक्तुमर्हसि ॥ 13 ॥

न त्वामस्मिन्वने हातुमुत्सहे राघवं विना ।
अनिवार्यं बलं तस्य बलैर्बलवतामपि ॥ 14 ॥

त्रिभिर्लोकैस्समुद्युक्तैस्सेश्वरैरपि सामरैः ।
हृदयं निर्वृतं तेऽस्तुसंतापस्त्यज्यतामयम् ॥ 15 ॥

आगमिष्यति ते भर्ता श्रीघ्रं हत्वा मृगोत्तमम् ।
न च तस्य स्वरो व्यक्तं मायया केन चित्कृतः ।
गंधर्वनगरप्रख्या माया सा तस्य रक्षसः ॥ 16 ॥

न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ॥ 17 ॥

रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ।
कृतवैराश्च वैदेहि वयमेतैर्निशाचरैः ॥ 18 ॥

खरस्य निधनादेव जनस्थानवधं प्रति ।
राक्षसा विविधा वाचो विसृजंति महावने ॥ 19 ॥

हिंसाविहारा वैदेहि न चिंतयितुमर्हसि ।
लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना ॥ 20 ॥

अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ।
अनार्याकरणारंभ नृशंस कुलपांसन ॥ 21 ॥

अहं तव प्रियं मन्ये रामस्य व्यसनं महत् ।
रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे ॥ 22 ॥

नैतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत् ।
त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥ 23 ॥

सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि ।
मम हेतोः प्रतिच्छन्नः प्रयुक्तोभरतेन वा ॥ 24 ॥

तन्नसिध्यति सौमित्रे तव वा भरतस्य वा ।
कथमिंदीवरश्यामं पद्मपत्रनिभेक्षणम् ॥ 25 ॥

उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ।
समक्षं तव सौमित्रे प्राणांस्त्यक्षे न संशयः ।
रामं विना क्षणमपि न हि जीवामि भूतले ॥ 26 ॥

इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ॥ 27 ॥

अब्रवील्लक्ष्मणस्सीतां प्रांजलिर्विजितेंद्रियः ।
उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ॥ 28 ॥

वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि ।
स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यते ॥ 29 ॥

विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ।
न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे ॥ 30 ॥

श्रोत्रयोरुभयोर्मेद्य तप्तनाराचसन्निभम् ।
उपशृण्वंतु मे सर्वे साक्षिभूता वनेचराः ॥ 31 ॥

न्यायवादी यथान्यायमुक्तोऽहं परुषं त्वया ।
धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशंकसे ।
स्त्रीत्वलदुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम् ॥ 32 ॥

गमिष्ये यत्र काकुत्स्थ स्वस्ति तेऽस्तु वरानने ॥ 33 ॥

रक्षंतु त्वां विशालाक्षि समग्रा वनदेवताः ।
निमित्तानि च घोराणि यानि प्रादुर्भवंति मे ॥ 34 ॥

अपि त्वां सह रामेण पश्येयं पुनरागतः ।
न वेत्येतन्न जानामि वैदेहि जनकात्मजे ॥ 35 ॥

लक्ष्मणेनैवमुक्ता सा रुदंती जनकात्मजा ।
प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता ॥ 36 ॥

गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण ।
अबंधिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः ॥ 37 ॥

पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् ।
न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे ॥ 38 ॥

इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता ।
पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह ॥ 39 ॥

तामार्तरूपां विमना रुदंतीं सौमित्रिरालोक्य विशालनेत्राम् ।
आश्वासयामास न चैव भर्तु स्तं भ्रातरंकिंचिदुवाच सीता ॥ 40 ॥

ततस्तु सीतामभिवाद्य लक्ष्मणः कृतांजलिः किंचिदभिप्रणम्य च ।
अन्वीक्षमाणो बहुशश्च मैथिलीं जगाम रामस्य समीपमात्मवान् ॥ 41 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे पंचचत्वारिंशस्सर्गः ॥




Browse Related Categories: