श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ सप्तविंशस्सर्गः ।
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥ 1 ॥
शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम् ।
नानागुल्मलतागूढं बहुपादपसंकुलम् ॥ 2 ॥
ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् ।
मेघराशिनिभं शैलं नित्यं शुचिजलाशयम् ॥ 3 ॥
तस्य शैलस्य शिखरे महतीमायतां गुहाम् ।
प्रत्यगृह्णत वासार्थं रामस्सौमित्रिणा सह ॥ 4 ॥
कृत्वा च समयं रामस्सुग्रीवेण सहानघः ।
कालयुक्तं महद्वाक्यमुवाच रघुनंदनः ॥ 5 ॥
विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ।
इयं गिरिगुहा रम्या विशाला युक्तमारुता ।
अस्यां वत्स्याम सौमित्रे वर्षरात्रमरिंदम ॥ 6 ॥
गिरिशृंगमिदं रम्यमुन्नतं पार्थिवात्मज ॥ 7 ॥
श्वेताभिः कृष्णताम्राभिश्शिलाभिरुपशोभितम् ।
नानाधातुसमाकीर्णं दरीनिर्झरशोभितम् ॥ 8 ॥
विविधैर्वृक्षषंडैश्च चारुचित्रलतायुतम् ।
नानाविहगसंघुष्टं मयूररवनादितम् ॥ 9 ॥
मालतीकुंदगुल्मैश्च सिंधुवारैश्शिरीषकैः ।
कदंबार्जुनसर्जैश्च पुष्पितैरुपशोभितम् ॥ 10 ॥
इयं च नलिनी रम्या फुल्लपंकजमंडिता ।
नातिदूरे गुहायानौ भविष्यति नृपात्मज ॥ 11 ॥
प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति ।
पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति ॥ 12 ॥
गुहाद्वारे च सौमित्रे शिला समतला शुभा ।
श्लक्ष्णा चैवायता चैव भिन्नांजनचयोपमा ॥ 13 ॥
गिरिशृंगमिदं तात पश्य चोत्तरतः शुभम् ।
भिन्नांजनचयाकारमंभोधरमिवोत्थितम् ॥ 14 ॥
दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम् ।
कैलासशिखरप्रख्यं नानाधातुविभूषितम् ॥ 15 ॥
प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् ।
गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव ॥ 16 ॥
चंदनैस्तिलकैस्तालैस्तमालैरतिमुक्तकैः ।
पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ॥ 17 ॥
वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः ।
हिंतालैस्तिनिशैर्नीपैर्वेत्रकैः कृतमालकैः ॥ 18 ॥
तीरजैश्शोभिता भाति नानारूपै स्ततस्ततः ।
वसनाभरणोपेता प्रमदेवाभ्यलंकृता ॥ 19 ॥
शतशः पक्षिसंघैश्च नानानादैर्विनादिता ।
एकैकमनुरक्तैश्च चक्रवाकैरलंकृता ॥ 20 ॥
पुलिनैरतिरम्यैश्च हंससारससेवितैः ।
प्रहसंतीवभात्येषा नारी सर्वविभूषिता ॥ 21 ॥
क्वचिन्नीलोत्पलैश्छन्ना भाति रक्तोत्पलैः क्वचित् ।
क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुट्मलैः ॥ 22 ॥
पारिप्लवशतैर्जुष्टा बर्हिक्रौंचविनादिता ।
रमणीया नदी सौम्य मुनिसंघैर्निषेविता ॥ 23 ॥
पश्य चंदनवृक्षाणां पंक्तीस्सुरचिता इव ।
ककुभानां च दृश्यंते मनसेवोदितास्समम् ॥ 24 ॥
अहो सुरमणीयोऽयं देशश्शत्रुनिषूदन ।
दृढं रंस्याव सौमित्रे साध्वत्र निवसावहै ॥ 25 ॥
इतश्च नातिदूरे सा किष्किंधा चित्रकानना ।
सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥ 26 ॥
गीतवादित्रनिर्घोषश्श्रूयते जयतां वर ।
नर्दतां वानराणां च मृदंगाडंबरै स्सह ॥ 27 ॥
लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः ।
ध्रुवं नंदति सुग्रीवस्संप्राप्य महतीं श्रियम् ॥ 28 ॥
इत्युक्त्वा न्यवसत्तत्र राघवस्सहलक्ष्मणः ।
बहुदृश्यदरीकुंजे तस्मिन्प्रस्रवणे गिरौ ॥ 29 ॥
सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे ।
वसतस्तस्य रामस्य रतिरल्पापिना भवेत् ॥ 30 ॥
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् ।
उदयाभ्युदितं दृष्ट्वा शशांकं च विशेषतः ॥ 31 ॥
आविवेश न तं निद्रा निशासु शयनं गतम् ।
तत्समुत्थेन शोकेन बाष्पोपहतचेतसम् ॥ 32 ॥
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ।
तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः ॥ 33 ॥
अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि ।
शोचतो व्यवसीदंति सर्वार्था विदितं हि ते ॥ 34 ॥
भवान्क्रियापरो लोके भवान् देवपरायणः ।
आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥ 35 ॥
न ह्यव्यवसितश्शत्रुं राक्षसं तं विशेषतः ।
समर्थस्त्वं रणे हंतुं विक्रमैर्जिह्मकारिणम् ॥ 36 ॥
समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु ।
ततस्सपरिवारं तं निर्मूलं कुरु राक्षसम् ॥ 37 ॥
पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् ।
परिवर्तयितुं शक्तः किमंगपुन रावणम् ॥ 38 ॥
शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः ।
ततस्सराष्ट्रं सगणं रावणं त्वं वधिष्यसि ॥ 39 ॥
अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये ।
दीप्सैराहुतिभिः काले भस्मच्छन्नमिवानलम् ॥ 40 ॥
लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् ।
राघवस्सुहृदं स्निग्धमिदं वचनमब्रवीत् ॥ 41 ॥
वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च ।
सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ॥ 42 ॥
एष शोकः परित्यक्तस्सर्वकार्यावसादकः ।
विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ॥ 43 ॥
शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव ।
सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ 44 ॥
उपकारेण वीरस्तु प्रतीकारेण युज्यते ।
अकृतज्ञोऽप्रतिकृतो हंति सत्त्ववतां मनः ॥ 45 ॥
अथैव मुक्तःप्रणिधाय लक्ष्मणः कृतांजलिस्तत्प्रतिपूज्य भाषितम् ।
उवाच रामं स्वभिरामदर्शनं प्रदर्शयंदर्शनमात्मनश्शुभम् ॥ 46 ॥
यथोक्तमेतत्तव सर्वमीप्सितं नरेंद्र कर्ता न चिराद्धरीश्वरः ।
शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः ॥ 47 ॥
नियम्य कोपं प्रतिपाल्यतां शरत् क्षमस्व मासां श्चतुरो मया सह ।
वसाचलेऽस्मिन्मृगराजसेविते संवर्धयन् शत्रुवधे समुद्यमम् ॥ 48 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे सप्तविंशस्सर्गः ॥