View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.27 किष्किंधाकांड - सप्तविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ सप्तविंशस्सर्गः ।

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥ 1 ॥

शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम् ।
नानागुल्मलतागूढं बहुपादपसंकुलम् ॥ 2 ॥

ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् ।
मेघराशिनिभं शैलं नित्यं शुचिजलाशयम् ॥ 3 ॥

तस्य शैलस्य शिखरे महतीमायतां गुहाम् ।
प्रत्यगृह्णत वासार्थं रामस्सौमित्रिणा सह ॥ 4 ॥

कृत्वा च समयं रामस्सुग्रीवेण सहानघः ।
कालयुक्तं महद्वाक्यमुवाच रघुनंदनः ॥ 5 ॥

विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ।
इयं गिरिगुहा रम्या विशाला युक्तमारुता ।
अस्यां वत्स्याम सौमित्रे वर्षरात्रमरिंदम ॥ 6 ॥

गिरिशृंगमिदं रम्यमुन्नतं पार्थिवात्मज ॥ 7 ॥

श्वेताभिः कृष्णताम्राभिश्शिलाभिरुपशोभितम् ।
नानाधातुसमाकीर्णं दरीनिर्झरशोभितम् ॥ 8 ॥

विविधैर्वृक्षषंडैश्च चारुचित्रलतायुतम् ।
नानाविहगसंघुष्टं मयूररवनादितम् ॥ 9 ॥

मालतीकुंदगुल्मैश्च सिंधुवारैश्शिरीषकैः ।
कदंबार्जुनसर्जैश्च पुष्पितैरुपशोभितम् ॥ 10 ॥

इयं च नलिनी रम्या फुल्लपंकजमंडिता ।
नातिदूरे गुहायानौ भविष्यति नृपात्मज ॥ 11 ॥

प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति ।
पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति ॥ 12 ॥

गुहाद्वारे च सौमित्रे शिला समतला शुभा ।
श्लक्ष्णा चैवायता चैव भिन्नांजनचयोपमा ॥ 13 ॥

गिरिशृंगमिदं तात पश्य चोत्तरतः शुभम् ।
भिन्नांजनचयाकारमंभोधरमिवोत्थितम् ॥ 14 ॥

दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम् ।
कैलासशिखरप्रख्यं नानाधातुविभूषितम् ॥ 15 ॥

प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् ।
गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव ॥ 16 ॥

चंदनैस्तिलकैस्तालैस्तमालैरतिमुक्तकैः ।
पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ॥ 17 ॥

वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः ।
हिंतालैस्तिनिशैर्नीपैर्वेत्रकैः कृतमालकैः ॥ 18 ॥

तीरजैश्शोभिता भाति नानारूपै स्ततस्ततः ।
वसनाभरणोपेता प्रमदेवाभ्यलंकृता ॥ 19 ॥

शतशः पक्षिसंघैश्च नानानादैर्विनादिता ।
एकैकमनुरक्तैश्च चक्रवाकैरलंकृता ॥ 20 ॥

पुलिनैरतिरम्यैश्च हंससारससेवितैः ।
प्रहसंतीवभात्येषा नारी सर्वविभूषिता ॥ 21 ॥

क्वचिन्नीलोत्पलैश्छन्ना भाति रक्तोत्पलैः क्वचित् ।
क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुट्मलैः ॥ 22 ॥

पारिप्लवशतैर्जुष्टा बर्हिक्रौंचविनादिता ।
रमणीया नदी सौम्य मुनिसंघैर्निषेविता ॥ 23 ॥

पश्य चंदनवृक्षाणां पंक्तीस्सुरचिता इव ।
ककुभानां च दृश्यंते मनसेवोदितास्समम् ॥ 24 ॥

अहो सुरमणीयोऽयं देशश्शत्रुनिषूदन ।
दृढं रंस्याव सौमित्रे साध्वत्र निवसावहै ॥ 25 ॥

इतश्च नातिदूरे सा किष्किंधा चित्रकानना ।
सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥ 26 ॥

गीतवादित्रनिर्घोषश्श्रूयते जयतां वर ।
नर्दतां वानराणां च मृदंगाडंबरै स्सह ॥ 27 ॥

लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः ।
ध्रुवं नंदति सुग्रीवस्संप्राप्य महतीं श्रियम् ॥ 28 ॥

इत्युक्त्वा न्यवसत्तत्र राघवस्सहलक्ष्मणः ।
बहुदृश्यदरीकुंजे तस्मिन्प्रस्रवणे गिरौ ॥ 29 ॥

सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे ।
वसतस्तस्य रामस्य रतिरल्पापिना भवेत् ॥ 30 ॥

हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् ।
उदयाभ्युदितं दृष्ट्वा शशांकं च विशेषतः ॥ 31 ॥

आविवेश न तं निद्रा निशासु शयनं गतम् ।
तत्समुत्थेन शोकेन बाष्पोपहतचेतसम् ॥ 32 ॥

तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ।
तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः ॥ 33 ॥

अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि ।
शोचतो व्यवसीदंति सर्वार्था विदितं हि ते ॥ 34 ॥

भवान्क्रियापरो लोके भवान् देवपरायणः ।
आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥ 35 ॥

न ह्यव्यवसितश्शत्रुं राक्षसं तं विशेषतः ।
समर्थस्त्वं रणे हंतुं विक्रमैर्जिह्मकारिणम् ॥ 36 ॥

समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु ।
ततस्सपरिवारं तं निर्मूलं कुरु राक्षसम् ॥ 37 ॥

पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् ।
परिवर्तयितुं शक्तः किमंगपुन रावणम् ॥ 38 ॥

शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः ।
ततस्सराष्ट्रं सगणं रावणं त्वं वधिष्यसि ॥ 39 ॥

अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये ।
दीप्सैराहुतिभिः काले भस्मच्छन्नमिवानलम् ॥ 40 ॥

लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् ।
राघवस्सुहृदं स्निग्धमिदं वचनमब्रवीत् ॥ 41 ॥

वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च ।
सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ॥ 42 ॥

एष शोकः परित्यक्तस्सर्वकार्यावसादकः ।
विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ॥ 43 ॥

शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव ।
सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ 44 ॥

उपकारेण वीरस्तु प्रतीकारेण युज्यते ।
अकृतज्ञोऽप्रतिकृतो हंति सत्त्ववतां मनः ॥ 45 ॥

अथैव मुक्तःप्रणिधाय लक्ष्मणः कृतांजलिस्तत्प्रतिपूज्य भाषितम् ।
उवाच रामं स्वभिरामदर्शनं प्रदर्शयंदर्शनमात्मनश्शुभम् ॥ 46 ॥

यथोक्तमेतत्तव सर्वमीप्सितं नरेंद्र कर्ता न चिराद्धरीश्वरः ।
शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः ॥ 47 ॥

नियम्य कोपं प्रतिपाल्यतां शरत् क्षमस्व मासां श्चतुरो मया सह ।
वसाचलेऽस्मिन्मृगराजसेविते संवर्धयन् शत्रुवधे समुद्यमम् ॥ 48 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे सप्तविंशस्सर्गः ॥




Browse Related Categories: