View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.40 किष्किंधाकांड - चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ चत्वारिंशस्सर्गः ।

अथ राजा समृद्धार्थस्सुग्रीवः प्लवगेश्वरः ।
उवाच नरशार्दूलं रामं परबलार्दनम् ॥ 1 ॥

आगता विनिविष्टाश्च बलिनः कामरूपिणः ।
वानरा वारणेंद्रभाः ये मद्विषयवासिनः ॥ 2 ॥

त इमे बहुविक्रांतैर्हरिभिर्भीमविक्रमैः ।
आगता वानरा घोरा दैत्यदानवसन्निभाः ॥ 3 ॥

ख्यातकर्मापदानाश्च बलवंतो जितक्लमाः ।
पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ 4 ॥

पृथिव्यंबुचरा राम नानानगनिवासिनः ।
कोट्यग्रश इमे प्राप्ता वानरास्तव किंकराः ॥ 5 ॥

निदेशवर्तिनस्सर्वे सर्वे गुरुहिते रताः ।
अभिप्रेतमनुष्ठातुं तव शक्ष्यंत्यरिंदम ॥ 6 ॥

त इमे बहुसाहस्रैरनीकै भीमविक्रमैः ।
आगता वानरा घोरा दैत्यदानवसन्निभाः ॥ 7 ॥

यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् ।
तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ 8 ॥

काममेषामिदं कार्यं विदितं मम तत्त्वतः ।
तथापि तु यथातत्त्वमाज्ञापयितुमर्हसि ॥ 9 ॥

इति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः ।
बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत् ॥ 10 ॥

ज्ञायतां मम वैदेही यदि जीवति वा न वा ।
स च देशो महाप्राज्ञ यस्मिन्वसति रावणः ॥ 11 ॥

अधिगम्य तु वैदेहीं निलयं रावणस्य च ।
प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया ॥ 12 ॥

नाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः ।
त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ 13 ॥

त्वमेवाऽज्ञापय विभो मम कार्यविनिश्चयम् ।
त्वं हि जानासि यत्कार्यं मम वीर न संशयः ॥ 14 ॥

सुहृद्वितीयो विक्रांतः प्राज्ञः कालविशेषवित् ।
भवानस्मध्दिते युक्त स्सुकृतार्थोऽर्थवित्तमः ॥ 15 ॥

एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् ।
अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः ॥ 16 ॥

शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः ।
सोमसूर्यात्मजै स्सार्धं वानरैर्वानरोत्तम ॥ 17 ॥

देशकालनयैर्युक्तः कार्या कार्यविनिश्चये ।
वृतश्शतसहश्रेण वानराणां तरस्विनाम् ॥ 18 ॥

अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ।
तत्र सीतां च वैदेहीं निलयं रावणस्य च ॥ 19 ॥

मार्गध्वं गिरिशृंगेषु वनेषु च नदीषु च ।
नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ॥ 20 ॥

कालिंदीं यमुनां रम्यां यामुनं च महागिरिम् ।
सरस्वतीं च सिंधुं च शोणं मणिनिभोदकम् ॥ 21 ॥

महीं कालमहीं चैव शैलकाननशोभिताम् ।
ब्रह्ममालान्विदेहांश्च मालवान्कालिकोसलान् ॥ 22 ॥

मागधांश्च महाग्रामान्पुंड्रांन्वंगां स्तथैव च ।
पत्तनं कोशकाराणां भूमिं च रजताकराम् ॥ 23 ॥

सर्वमेतद्विचेतव्यं मृगयद्भिस्ततस्ततः ।
रामस्य दयितां भार्यां सीतां दशरथस्नुषाम् ॥ 24 ॥

समुद्रमवगाढांश्च पर्वतान्पत्तनानि च ।
मंदरस्य च ये कोटिं संश्रिताः केचिदायताम् ॥ 25 ॥

कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः ।
घोरलोहमुखाश्चैव जवनाश्चैकपादकाः ॥ 26 ॥

अक्षया बलवंतश्च पुरुषाः पुरुषादकाः ।
किराताः कर्ण चूडाश्च हेमांगाः प्रियदर्शनाः ॥ 27 ॥

आममीनाशनास्तत्र किराता द्वीपवासिनः ।
अंतर्जलचरा घोरा नरव्याघ्रा इति शृताः ॥ 28 ॥

एतेषामाश्रयास्सर्वे विचेयाः कावनौकसः ।
गिरिभिर्ये च गम्यंते प्लवनेन प्लवेन च ॥ 29 ॥

रत्नवंतं यवद्वीपं सप्तराज्योपशोभितम् ।
सुवर्णरूप्यकं चैव सुवर्णाकरमंडितम् ॥ 30 ॥

यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ।
दिवं स्पृशति शृंगेण देवदानवसेवितः ॥ 31 ॥

एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च ।
मार्गध्वं सहितास्सर्वे रामपत्नीं यशस्विनीम् ॥ 32 ॥

ततो रक्तजलं शोणमगाधं शीघ्रगामिनम् ।
गत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ॥ 33 ॥

तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च ।
रावण स्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 34 ॥

तत स्समुद्रद्वीपांश्च सुभीमांद्रष्टुमर्हथ ।
ऊर्मिमंतं समुद्रं च क्रोशंतमनिलोद्धतम् ॥ 35 ॥

तत्रासुरा महाकायाश्छायां गृह्णंति नित्यशः ।
ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥ 36 ॥

तं कालमेघप्रतिमं महोरगनिषेवितम् ।
अभिगम्य महानादं तीर्थेनैव महोदधिम् ॥ 37 ॥

ततो रक्तजलं भीमं लोहितं नाम सागरम् ।
गत्वा प्रेक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥ 38 ॥

गृहं च वैनतेयस्य नानारत्नविभूषितम् ।
तत्र कैलाससंकाशं विहितं विश्वकर्मणा ॥ 39 ॥

तत्र शैलनिभा भीमा मंदेहा नाम राक्षसाः ।
शैलशृंगेषु लंबंते नानारूपा भयावहाः ॥ 40 ॥

ते पतंति जले नित्यं सूर्यस्योदयनं प्रति ।
निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः ॥ 41 ॥

अभितप्ताश्च सूर्येण लंबंते स्म पुनः पुनः ।
ततः पांडुरमेघाभं क्षीरोदं नाम सागरम् ॥ 42 ॥

गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः ।
तस्य मध्ये महान् श्वेतो ऋषभो नाम पर्वतः ॥ 43 ॥

दिव्यगंधैः कुसुमितै राजितैश्च नगैर्वृतः ।
सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः ॥ 44 ॥

नाम्ना सुदर्शनं नाम राजहंसैस्समाकुलम् ।
विबुधाश्चारणा यक्षाः किन्नराश्चाप्सरोगणाः ॥ 45 ॥

हृष्टास्समभिगच्छंति नलिनीं तां रिरंसवः ।
क्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः ॥ 46 ॥

जलोदं सागरं शीघ्रं सर्वभूतभयावहम् ।
तत्र तत्कोपजं तेजः कृतं हयमुखं महत् ॥ 47 ॥

अस्याहुस्तन्महावेगमोदनं सचराचरम् ।
तत्र विक्रोशतां नादो भूतानां सागरौकसाम् ॥ 48 ॥

श्रूयते च समर्थानां दृष्ट्वा तद्बडबामुखम् ।
स्वादूदस्योत्तरे देशे योजनानि त्रयोदश ॥ 49 ॥

जातरूपशिलो नाम महान्कनकपर्वतः ।
तत्र चंद्रप्रतीकाशं पन्नगं धरणीधरम् ॥ 50 ॥

पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः ।
आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् ॥ 51 ॥

सहस्रशिरसं देवमनंतं नीलवाससम् ।
त्रिशिराः कांचनः केतुस्तालस्तस्य महात्मनः ॥ 52 ॥

स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ।
पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः ॥ 53 ॥

ततः परं हेममय श्श्रीमानुदयपर्वतः ।
तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ॥ 54 ॥

जातरूपमयी दिव्या विराजति सवेदिका ।
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ॥ 55 ॥

जातरूपमयैर्दिव्यै श्शोभते सूर्यसन्निभैः ।
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ॥ 56 ॥

शृंगं सौमनसं नाम जातरूपमयं ध्रुवम् ।
तत्रपूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे ॥ 57 ॥

द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ।
त्तरेण परिक्रम्य जंबूद्वीपं दिवाकरः ॥ 58 ॥

दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ।
तत्र वैखानसा नाम वालखिल्या महर्षयः ॥ 59 ॥

प्रकाशमाना दृश्यंते सूर्यवर्णास्तपस्विनः ।
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ॥ 60 ॥

यस्मिं स्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ।
शैलस्य तस्य शृंगेषु कंदरेषु वनेषु च ॥ 61 ॥

रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ।
कांचनस्य च शैलस्य सूर्यस्य च महात्मनः ॥ 62 ॥

आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते ।
पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च ॥ 63 ॥

सूर्यस्योदयनं चैव पर्वा ह्येषा दिगुच्यते ।
तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च ॥ 64 ॥

रावण स्सह वैदेह्या मार्गितव्यस्ततस्ततः ।
ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता ॥ 65 ॥

रहिता चंद्रसूर्याभ्यामदृश्या तिमिरावृता ।
शैलेषु तेषु सर्वेषु कंदरेषु वनेषु च ॥ 66 ॥

ये च नोक्ता मया देशा विचेया तेषु जानकी ।
एतावद्वानरैश्शक्यं गंतुं वानरपुंगवाः ॥ 67 ॥

अभास्करममर्यादं न जानीमस्ततः परम् ।
अधिगम्य तु वैदेहीं निलयं रावणस्य च ॥ 68 ॥

मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ।
ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम ॥ 69 ॥

सिद्धार्थास्सन्निवर्तध्वमधिगम्य तु मैथिलीम् ।
महेंद्रकांतां वनषंडमंडितां दिशं चरित्वा निपुणेन वानराः ।
अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्तास्सुखिनो भविष्यथ ॥ 70 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे चत्वारिंशस्सर्गः ॥




Browse Related Categories: