श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ पंचषष्टितमस्सर्गः ।
अथांगदवचश्श्रुत्वा ते सर्वे वानरर्षभाः ।
स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम् ॥ 1 ॥
गजो गवाक्षो गवयश्शरभो गंधमादनः ।
मैंदश्च द्विविदश्चैव सुषेणो जांबवां स्तथा ॥ 2 ॥
आबभाषे गजस्तत्र प्लवेयं दशयोजनम् ।
गवाक्षो योजननान्याह गमिष्यामीति विंशतिम् ॥ 3 ॥
गवयो वानरस्तत्र वानरां स्तानुवाच ह ।
त्रिंशतं तु गमिष्यामि योजनानां प्लवंगमाः ॥ 4 ॥
शरभस्तानुवाचाथ वानरान् वानरर्षभः ।
चत्वारिंशद्गमिष्यामि योजनानां प्लवंगमाः ॥ 5 ॥
वानरस्तु महातेजा अब्रवीद्गंधमादनः ।
योजनानां गमिष्यामि पंचाशत्तु न संशयः ॥ 6 ॥
मैंदस्तु वानरस्तत्र वानरांस्तानुवाच ह ।
योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥ 7 ॥
ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ।
गमिष्यामि न संदेहस्सप्ततिं योजनान्यहम् ॥ 8 ॥
सुषेणस्तु महातेजाःप्रोक्तवान्हरिसत्तमान् ।
अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः ॥ 9 ॥
तेषां कथयतां तत्र सर्वांस्ताननुमान्य च ।
ततो वृद्धतमस्तेषां जांबवान्प्रत्यभाषत ॥ 10 ॥
पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः ।
ते वयं वयसः पारमनुप्राप्तास्स्म सांप्रतम् ॥ 11 ॥
किंतु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् ।
यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ ॥ 12 ॥
सांप्रतं कालभेदेन या गतिस्तां निबोधत ।
नवतिं योजनानां तु गमिष्यामि न संशयः ॥ 13 ॥
तांश्च सर्वान्हरिश्रेष्ठांजांबवान्पुनरब्रवीत् ।
न खल्वेतावदेवासीद्गमने मे पराक्रमः ॥ 14 ॥
मया महाबलेश्चैव यज्ञे विष्णुस्सनातनः ।
प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम् ॥ 15 ॥
स इदानीमहं वृद्धः प्लवने मंदविक्रमः ।
यौवने च तदाऽसीन्मे बलमप्रतिमं परैः ॥ 16 ॥
संप्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम् ।
नैतावता हि संसिद्धिः कार्यस्यास्य भविष्यति ॥ 17 ॥
अथोत्तरमुदारार्थमब्रवीदंगदस्तदा ।
अनुमान्य तथा प्राज्ञो जांबवंतं महाकपिम् ॥ 18 ॥
अहमेतद्गमिष्यामि योजनानां शतं महत् ।
निवर्तने तु मे शक्तिस्स्यान्न वेति न निश्चितम् ॥ 19 ॥
तमुवाच हरिश्रेष्ठं जांबवान्वाक्यकोविदः ।
ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ॥ 20 ॥
कामं शतं सहस्रं वा न ह्येष विधिरुच्यते ।
योजनानां भवान् शक्तो गंतुं प्रतिनिवर्तितुम् ॥ 21 ॥
न हि प्रेषयिता तात स्वामी प्रेष्यः कथंचन ।
भवताऽयं जनस्सर्वः प्रेष्यः प्लवगसत्तम ॥ 22 ॥
भवान् कलत्रं अस्माकं स्वामि भावे व्यवस्थितः ।
स्वामी कलत्रं सैन्यस्य गतिः एषा परंतप ॥ 23 ॥
अपि वै एतस्य कार्यस्य भवान् मूलं अरिं दम ।
तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् ॥ 24 ॥
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ।
मूले सति हि सिद्ध्यंति गुणा फलो पुष्पोदयाः ॥ 25 ॥
तद्भवानस्य कार्यस्य साधने सत्यविक्रम ।
बुद्धिविक्रमसंपन्नो हेतुरत्र परंतप ॥ 26 ॥
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ।
भवंतमाश्रित्य वयं समर्था ह्यर्थसाधने ॥ 27 ॥
उक्तवाक्यं महाप्राज्ञं जांबवंतं महाकपिः ।
प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथांगदः ॥ 28 ॥
यदि नाहं गमिष्यामि नान्यो वानरपुंगवः ।
पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ॥ 29 ॥
न ह्यकृत्वा हरिपतेस्संदेशं तस्य धीमतः ।
तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् ॥ 30 ॥
स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः ।
अतीत्य तस्य संदेशं विनाशो गमने भवेत् ॥ 31 ॥
तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ।
तद्भवानेव दृष्टार्थस्संचिंतयितु मर्हति ॥ 32 ॥
सोऽंगदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ।
जांबवानुत्तरं वाक्यं प्रोवाचेदं ततोऽंगदम् ॥ 33 ॥
अस्य ते वीर कार्यस्य न किंचित्परिहीयते ।
एष संचोदयाम्येनं यः कार्यं साधयिष्यति ॥ 34 ॥
ततःप्रतीतं प्लवतांवरिष्ठं एकांतमाश्रित्य सुसुखेपविष्ठं संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमंतमेव ॥ 35 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे पंचषष्टितमस्सर्गः ॥