View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.9 किष्किंधाकांड - नवम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ नवमस्सर्गः ।

वाली नाम मम भ्राता ज्येष्ठश्शत्रुनिषूदनः ।
पितुर्बहुमतो नित्यं ममापि च तथा पुरा ॥ 1 ॥

पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मंत्रिभिः ।
कपीनामीश्वरो राज्ये कृतः परमसम्मतः ॥ 2 ॥

राज्यं प्रशासतस्तस्य पितृपैतामहं महत् ।
अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः ॥ 3 ॥

मायावी नाम तेजस्वी पूर्वजो दुंदुभेः सुतः ।
तेन तस्य महद्वैरं स्त्रीकृतं विश्श्रुतं पुरा ॥ 4 ॥

स तु सुप्तजने रात्रौ किष्किंधाद्वारमागतः ।
नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ॥ 5 ॥

प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् ।
श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥ 6 ॥

स तु वै निस्सृतः क्रोधात्तं हंतुमसुरोत्तमम् ।
वार्यमाणस्तत स्त्रीभिर्मया च प्रणतात्मना ॥ 7 ॥

स तु निर्धूय ताः सर्वा निर्जगाम महाबलः ।
ततोऽहमपि सौहार्दान्निस्सृतो वालिना सह ॥ 8 ॥

स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् ।
असुरो जातसंत्रासः प्रदुद्राव ततो भृशम् ॥ 9 ॥

तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ ।
प्रकाशश्च कृतो मार्गश्चंद्रेणोद्गच्छता तदा ॥ 10 ॥

स तृणैरावृतं दुर्गं धरण्या विवरं महत् ।
प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥ 11 ॥

तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः ।
मामुवाच तदा वाली वचनं क्षुभितेंद्रियः ॥ 12 ॥

इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः ।
यावत्तत्र प्रविश्याहं निहन्मि सहसा रिपुम् ॥ 13 ॥

मया त्वेतद्वचश्श्रुत्वा याचितस्स परंतपः ।
शापयित्वा तु मां पद्भ्यां प्रविवेश बिलं महत् ॥ 14 ॥

तस्य प्रविष्टस्य बिलं साग्रस्संवत्सरो गतः ।
स्थितस्य मम बिलद्वारि स कालो व्यत्यवर्तत ॥ 15 ॥

अहं तु नष्टं ज्ञात्वा तं स्नेहादागतसंभ्रमः ।
भ्रातरं न च पश्यामि पापाशंकि च मे मनः ॥ 16 ॥

अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिस्सृतम् ।
सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ॥ 17 ॥

नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः ।
निरस्तस्य च संग्रामे क्रोशतोनिस्स्वनो गुरोः ॥ 18 ॥

अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् ।
पिधाय च बिलद्वारं शिलया गिरिमात्रया ॥ 19 ॥

शोकार्तश्चोदकं कृत्वा किष्किंधामागतस्सखे ।
गूहमानस्य मे तत्त्वं यत्नतो मंत्रिभिश्श्रुतम् ॥ 20 ॥

ततोऽहं तैस्समागम्य सम्मतैरभिषेचितः ।
राज्यं प्रशासतस्तस्य न्यायतो मम राघव ॥ 21 ॥

आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ।
अभिषिक्तं तु मां दृष्ट्वा वाली संरक्तलोचनः ।
मदीयान्मंत्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ॥ 22 ॥

निग्रहेऽपि समर्थस्य तं पापं प्रति राघव ।
न प्रावर्तत मे बुद्धिर्भ्रातुर्गौरवयंत्रिता ॥ 23 ॥

हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा ॥ 24 ॥

मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् ।
उक्ताश्च नाशिषस्तेन संतुष्टेनांतरात्मना ॥ 25 ॥

नत्वा पादावहं तस्य मकुटेनास्पृशं प्रभो अपि वाली मम क्रोधान्न प्रसादं चकार सः ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे नवमस्सर्गः ॥




Browse Related Categories: