View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.26 सुंदरकांड - षड्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ षड्विंशस्सर्गः ।

प्रसक्ताश्रुमुखीत्यवं ब्रुवंती जनकात्मजा ।
आधोगतमुखी बाला विलप्तुमुपचक्रमे ॥ 1 ॥

उन्मत्तेव प्रमत्तेव भ्रांतचित्तेव शोचती ।
उपावृत्ता किशोरीव विवेष्टंती महीतले ॥ 2 ॥

राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा ।
रावणेन प्रमथ्याहमानीता क्रोशती बलात् ॥ 3 ॥

राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् ।
चिंतयंती सुदुःखार्ता नाहं जीवितुमुत्सुहे ॥ 4 ॥

न हि मे जीवितेनार्थो नैवार्थेर्न च भूषणैः ।
वसंत्या राक्षसीमध्ये विना रामं महारथम् ॥ 5 ॥

अश्मसारमिदं नूनमथवाप्यजरामरम् ।
हृदयं मम येनेदं न दुःखेनावशीर्यते ॥ 6 ॥

धिङ्मामनार्यामसतीं याहं तेना विना कृता ।
मुहूर्तमपि रक्षामि जीवितं पापजीविता ॥ 7 ॥

का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।
भर्तारं सागरांताया वसुधायाः प्रियंवदम् ॥ 8 ॥

भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।
न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ॥ 9 ॥

चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।
रावणं किं पुनरहं काममेयं विगर्हितम् ॥ 10 ॥

प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ।
यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ॥ 11 ॥

छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता ।
रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ॥ 12 ॥

ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।
सद्वृत्तो निरनुक्रोशश्शंके मद्भाग्यसंक्षयात् ॥ 13 ॥

राक्षसानां सहस्राणि जनस्थाने चतुर्दश ।
येनैकेन निरस्तानि स मां किं नाभिपद्यते ॥ 14 ॥

निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ।
समर्थः खलु मे भर्ता रावणं हंतुमाहवे ॥ 15 ॥

विराधो दंडकारण्ये येन राक्षसपुंगवः ।
रणे रामेण निहतस्स मां किं नाभिपद्यते ॥ 16 ॥

कामं मध्ये समुद्रस्य लंकेयं दुष्प्रधर्षणा ।
न तु राघवबाणानां गतिरोधो भविष्यति ॥ 17 ॥

किन्नु तत्कारणं येन रामो दृढपराक्रमः ।
रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते ॥ 18 ॥

इहस्थां मां न जानीते शंके लक्ष्मणपूर्वजः ।
जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति ॥ 19 ॥

हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् ।
गृध्रराजोऽपि स रणे रावणेन निपातितः ॥ 20 ॥

कृतं कर्म महत्तेन मां तथाऽभ्यवपद्यता ।
तिष्ठता रावणद्वंद्वे वृद्धेनापि जटायुषा ॥ 21 ॥

यदि मामिह जानीयाद्वर्तमानां स राघवः ।
अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ॥ 22 ॥

विधमेच्च पुरीं लंकां शोषयेच्च महोदधिम् ।
रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ॥ 23 ॥

ततो निहतनाथानां राक्षसीनां गृहे गृहे ।
यथाहमेवं रुदती तथा भूयो न संशयः ॥ 24 ॥

अन्विष्य रक्षसां लंकां कुर्याद्रामस्सलक्ष्मणः ।
न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ॥ 25 ॥

चिताधूमाकुलपथा गृध्रमंडलसंकुला ।
अचिरेण तु लंकेयं श्मशानसदृशी भवेत् ॥ 26 ॥

अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् ।
दुष्प्रस्थानोऽयामाख्याति सर्वेषां वो विपर्ययम् ॥ 27 ॥

यादृशानीह दृश्यंते लंकायामशुभानि वै ।
अचिरेणैव कालेन भविष्यति हतप्रभा ॥ 28 ॥

नूनं लंका हते पापे रावणे राक्षसाधमे ।
शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥ 29 ॥

पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी ।
भविष्यति पुरी लंका नष्टभर्त्री यथांगना ॥ 30 ॥

नूनं राक्षसकन्यानां रुदंतीनां गृहे गृहे ।
श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ॥ 31 ॥

सांथकारा हतद्योता हतराक्षसपुंगवा ।
भविष्यति पुरी लंका निर्दग्धा रामसायकैः ॥ 32 ॥

यदि नाम स शूरो मां रामो रक्तांतलोचनः ।
जानीयाद्वर्तमानां हि रावणस्य निवेशने ॥ 33 ॥

अनेन तु नृशंसेन रावणेनाधमेन मे ।
समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ॥ 34 ॥

स च मे विहितो मृत्युरस्मिन् दुष्टे न वर्तते ।
अकार्यं ये न जानंति नैरृताः पापकारिणः ॥ 35 ॥

अधर्मात्तु महोत्पातो भविष्यति हि सांप्रतम् ।
नैते धर्मं विजानंति राक्षसाः पिशिताशनाः ॥ 36 ॥

ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।
साहं कथं करिष्यामि तं विना प्रियदर्शनम् ॥ 37 ॥

क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ।
नाजानाज्जीवतीं रामस्स मां लक्ष्मणपूर्वजः ॥ 38 ॥

जानंतौ तौ न कुर्यातां नोर्य्वां हि मम मार्गणम् ।
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ॥ 39 ॥

देवलोकमितो यातस्त्यक्त्वा देहं महीतले ।
धन्या देवास्सगंधर्वाः सिद्धाश्च परमर्षयः ॥ 40 ॥

मम पश्यंति ये नाथं रामं राजीवलोचनम् ।
अथवा न हि तस्यार्थो धर्मकामस्य धीमतः ॥ 41 ॥

मया रामस्य राजर्षेर्भार्यया परमात्मनः ।
दृश्यमाने भवेत्प्रीति स्सौहृदं नास्त्यपश्यतः ॥ 42 ॥

नाशयंति कृतघ्नास्तु न रामो नाशयिष्यति ।
किं नु मे न गुणाः केचित्किं वा भाग्यक्षयो मम ॥ 43 ॥

याहं सीदामि रामेण हीना मुख्येन भामिनी ।
श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः ॥ 44 ॥

रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ।
अथवा न्यस्तशत्रौ तौ वने मूलफलाशिनौ ॥ 45 ॥

भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ।
अथवा राक्षसेंद्रेण रावणेन दुरात्मना ॥ 46 ॥

छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ ।
साऽहमेवंगते काले मर्तुमिच्छामि सर्वथा ॥ 47 ॥

न च मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तते ।
धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः ॥ 48 ॥

जितात्मनो महाभागा येषां न स्तः प्रियाप्रिये ।
प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम् ॥ 49 ॥

ताभ्यां हि ये वियुज्यंते नमस्तेषां महात्मनाम् ।
साहं त्यक्ता प्रियार्हेण रामेण विदितात्मना ॥ 50 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे षड्विंशस्सर्गः ॥




Browse Related Categories: