View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.30 सुंदरकांड - त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ त्रिंशस्सर्गः ।

हनुमानपि विक्रांतः सर्वं शुश्राव तत्त्वतः ।
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ॥ 1 ॥

अवेक्षमाणस्तां देवीं देवतामिव नंदने ।
ततो बहुविधां चिंतां चिंतयामास वानरः ॥ 2 ॥

यां कपीनां सहस्राणि सुबहून्ययुतानि च ।
दिक्षु सर्वासु मार्गंते सेयमासादिता मया ॥ 3 ॥

चारेण तु सुयुक्तेन शत्रोश्शक्तिमवेक्षता ।
गूढेन चरता तावदवेक्षितमिदं मया ॥ 4 ॥

राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।
राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥ 5 ॥

युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।
समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ॥ 6 ॥

अहमाश्वासयाम्येनां पूर्णचंद्रनिभाननाम् ।
अदृष्टदुःखां दुःखार्तां दुःखस्यांतमगच्छतीम् ॥ 7 ॥

यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् ।
अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ॥ 8 ॥

गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।
परित्राणमविंदंती जानकी जीवितं त्यजेत् ॥ 9 ॥

मया च स महाबाहुः पूर्णचंद्रनिभाननः ।
समाश्यासयितुं न्याय्यस्सीतादर्शनलालसः ॥ 10 ॥

निशाचरीणां प्रत्यक्षमनर्हं चाभिभाषितम् ।
कथन्नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥ 11 ॥

अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।
सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् ॥ 12 ॥

रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः ।
किमहं तं प्रति ब्रूयामसंभाष्य सुमध्यमाम् ॥ 13 ॥

सीतासंदेशरहितं मामितस्त्वरयाऽगतम् ।
निर्दहेदपि काकुत्स्य क्रुद्धस्तीव्रेण चक्षुषा ॥ 14 ॥

यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ 15 ॥

अंतरं तु अहं आसाद्य राक्षसीनां इह स्थितः ।
शनैः आश्वासयिष्यामि सम्ताप बहुलां इमाम् ॥ 16 ॥

अहं त्वतितनुश्चैव वानरश्च विशेषतः ।
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥ 17 ॥

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥ 18 ॥

वानरस्य विशेषेण कथं स्यादभिभाषणम् ।
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ॥ 19 ॥

मया सांत्वयितुं शक्या नान्यथेयमनिंदिता ।
सेयमालोक्य मे रूपं जानकी भाषितं तथा ॥ 20 ॥

रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ।
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ॥ 21 ॥

जानमाना विशालाक्षी रावणं कामरूपिणम् ।
सीतया च कृते शब्दे सहसा राक्षसीगणाः ।
नानाप्रहरणो घोरः समेयादंतकोपमः ॥ 22 ॥

ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ॥ 23 ॥

वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ।
गृह्य शाखाः प्रशाखाश्च स्कंधांश्चोत्तमशाखिनाम् ॥ 24 ॥

दृष्ट्वा विपरिधावंतं भवेयुर्भयशंकिताः ।
मम रूपं च संप्रेक्ष्य वने विचरतो महत् ॥ 25 ॥

राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ।
ततः कुर्युस्समाह्वानं राक्षस्यो रक्षसामपि ॥ 26 ॥

राक्षसेंद्रनियुक्तानां राक्षसेंद्रनिवेशने ।
ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ॥ 27 ॥

आपतेयुर्विमर्देऽस्मिन्वेगेनोद्वेगकारणात् ।
समृद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ॥ 28 ॥

शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ।
मां वा गृह्णीयुराप्लुत्य बहवश्शीघ्रकारिणः ॥ 29 ॥

स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ।
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ॥ 30 ॥

विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ।
उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते ॥ 31 ॥

सागरेण परिक्षिप्ते गुप्ते वसति जानकी ।
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ॥ 32 ॥

नान्यं पश्यामि रामस्य सहायं कार्यसाधने ।
विमृशंश्च न पश्यामि यो हते मयि वानरः ॥ 33 ॥

शतयोजनविस्तीर्णं लंघयेत महोदधिम् ।
कामं हंतुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् ॥ 34 ॥

न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ।
असत्यानि च युद्धानि संशयो मे न रोचते ॥ 35 ॥

कश्च निस्संशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् ।
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ॥ 36 ॥

एष दोषो महान्हि स्यान्मम सीताभिभाषणे ।
भूताश्चार्था विनश्यंति देशकालविरोधिताः ॥ 37 ॥

विक्लबं दूतमासाद्य तमः सूर्योदये यथा ।
अर्थानर्थांतरे बुद्धिनिश्चितापि न शोभते ॥ 38 ॥

घातयंति हि कार्याणि दूताः पंडितमानिनः ।
न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत् ॥ 39 ॥

लंघनं च समुद्रस्य कथं नु न वृथा भवेत् ।
कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत वा ।
इति संचिंत्य हनुमांश्चकार मतिमान्मतिम् ॥ 40 ॥

राममक्लिष्टकर्माणं सुबंधुमनुकीर्तयन् ॥ 41 ॥

नैनामुद्वेजयिष्यामि तद्बंधुगतमानसाम् ।
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ॥ 42 ॥

शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ॥ 43 ॥

श्रद्धास्यति यथाहीयं तथा सर्वं समादधे ।
इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।
मधुरमवितथं जगाद वाक्यं द्रुमविटपांतरमास्थितो हनूमान् ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे त्रिंशस्सर्गः ॥




Browse Related Categories: