View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.35 सुंदरकांड - पंचत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ पंचत्रिंशस्सर्गः ।

तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात् ।
उवाच वचनं सांत्वमिदं मधुरया गिरा ॥ 1 ॥

क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।
वानराणां नराणां च कथमासीत्समागमः ॥ 2 ॥

यानि रामस्य लिंगानि लक्ष्मणस्य च वानर ।
तानि भूयस्समाचक्ष्व न मां शोकस्समाविशेत् ॥ 3 ॥

कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ।
कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ॥ 4 ॥

एवमुक्तस्तु वैदेह्या हनुमान्मारुतात्मजः ।
ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ 5 ॥

जानंती बत दिष्ट्या मां वैदेहि परिपृच्छसि ।
भर्तुः कमलपत्त्राक्षि संस्थानं लक्ष्मणस्य च ॥ 6 ॥

यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।
लक्षितानि विशालाक्षि वदतश्शृणु तानि मे ॥ 7 ॥

रामः कमलपत्त्राक्ष स्सर्वसत्त्वमनोहरः ।
रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे ॥ 8 ॥

तेजसाऽदित्य संकाशः क्षमया पृथिवीसमः ।
बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ॥ 9 ॥

रक्षिता जीवलोकस्य स्वजनस्याभिरक्षिता ।
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः ॥ 10 ॥

रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।
मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ 11 ॥

अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ।
साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ 12 ॥

राजविद्याविनीतश्च ब्राह्मणानामुपासिता ।
श्रुतवान्शीलसंपन्नो विनीतश्च परंतपः ॥ 13 ॥

यजुर्वेदविनीतश्च वेदविद्भिस्सुपूजितः ।
धनुर्वेदे च वेदेषु वेदांगेषु च निष्ठितः ॥ 14 ॥

विपुलांसो महाबाहुः कंबुग्रीवश्शुभाननः ।
गूढजत्रुस्सुताम्राक्षो रामो देवि जनै श्श्रुतः ॥ 15 ॥

दुंदुभिस्वननिर्घोष स्स्निग्धवर्णः प्रतापवान् ।
सम स्समविभक्तांगो वर्णं श्यामं समाश्रितः ॥ 16 ॥

त्रिस्थिरस्त्रिप्रलंबश्च त्रिसमस्त्रिषु चोन्नतः ।
त्रिताम्रस्त्रिषु च स्निग्धो गंभीरस्त्रिषु नित्यशः ॥ 17 ॥

त्रिवलीवांस्त्र्यवनतश्चतुर्व्यंगस्त्रिशीर्षवान् ।
चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतु स्समः ॥ 18 ॥

चतुर्दशसमद्वंद्वश्चतुर्दंष्ट्रश्चतुर्गतिः ।
महोष्ठहनुनासश्च पंचस्निग्धोऽष्टवंशवान् ॥ 19 ॥

दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान् ।
षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः ॥ 20 ॥

सत्यधर्मपरश्श्रीमान् संग्रहानुग्रहे रतः ।
देशकालविभागज्ञस्सर्वलोकप्रियंवदः ॥ 21 ॥

भ्राता तस्य च द्वैमात्रस्सौमित्रिरपराजितः ।
अनुरागेण रूपेण गुणैश्चैव तथाविधः ॥ 22 ॥

तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ ।
विचिन्वंतौ महीं कृत्स्नामस्माभिरभिसंगतौ ॥ 23 ॥

त्वामेव मार्गमाणौ तौ विचरंतौ वसुंधराम् ।
ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ॥ 24 ॥

ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले ।
भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ॥ 25 ॥

वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम् ।
परिचर्यामहे राज्यात्पूर्वजेनावरोपितम् ॥ 26 ॥

ततस्तौ चीरवसनौ धनुः प्रवरपाणिनौ ।
ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ॥ 27 ॥

स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।
अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥ 28 ॥

ततस्स शिखरे तस्मिन्वानरेंद्रो व्यवस्थितः ।
तयोस्समीपं मामेव प्रेषयामास सत्वरम् ॥ 29 ॥

तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू ।
रूपलक्षणसंपन्नौ कृतांजलिरुपस्थितः ॥ 30 ॥

तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ॥ 31 ॥

निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।
तयोरन्योन्यसल्लापाद्भृशं प्रीतिरजायत ॥ 32 ॥

ततस्तौ प्रीतिसंपन्नौ हरीश्वरनरेश्वरौ ।
परस्परकृताश्वासौ कथया पूर्ववृत्तया ॥ 33 ॥

ततस्स सांत्वयामास सुग्रीवं लक्ष्मणाग्रजः ।
स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ॥ 34 ॥

ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।
लक्ष्मणो वानरेंद्राय सुग्रीवाय न्यवेदयत् ॥ 35 ॥

स श्रुत्वा वानरेंद्रस्तु लक्ष्मणेनेरितं वचः ।
तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान् ॥ 36 ॥

ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।
यान्याभरणजालानि पातितानि महीतले ॥ 37 ॥

तानि सर्वाणि रामाय आनीय हरियूथपाः ।
संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ॥ 38 ॥

तानि रामाय दत्तानि मयैवोपहृतानि च ।
स्वनवंत्यवकीर्णानि तस्मिन्विगतचेतसि ॥ 39 ॥

तान्यंके दर्शनीयानि कृत्वा बहुविधं तव ।
तेन देवप्रकाशेन देवेन परिदेवितम् ॥ 40 ॥

पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः ।
प्रादीपयंदाशरथेस्तानि शोकहुताशनम् ॥ 41 ॥

शयितं च चिरं तेन दुःखार्तेन महात्मना ।
मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः ॥ 42 ॥

तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः ।
राघवस्सह सौमित्रिस्सुग्रीवे स न्यवेदयत् ॥ 43 ॥

स तवादर्शनादार्ये राघवः परितप्यते ।
महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥ 44 ॥

त्वत्कृते तमनिद्रा च शोकश्चिंता च राघवम् ।
तापयंति महात्मानमग्न्यगारमिवाग्नयः ॥ 45 ॥

तवादर्शनशोकेन राघवः प्रविचाल्यते ।
महता भूमिकंपेन महानिव शिलोच्चयः ॥ 46 ॥

काननानि सुरम्याणि नदीः प्रस्रवणानि च ।
चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ॥ 47 ॥

स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।
समित्रबांधवं हत्वा रावणं जनकात्मजे ॥ 48 ॥

सहितौ रामसुग्रीवावुभावकुरुतां तदा ।
समयं वालिनं हंतुं तव चान्वेषणं तथा ॥ 49 ॥

ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः ।
किष्किंधां समुपागम्य वाली युद्धे निपातितः ॥ 50 ॥

ततो निहत्य तरसा रामो वालिनमाहवे ।
सर्वर्क्षहरिसंघानां सुग्रीवमकरोत्पतिम् ॥ 51 ॥

रामसुग्रीवयोरैक्यं देव्येवं समजायत ।
हनुमंतं च मां विद्धि तयोर्दूतमिहागतम् ॥ 52 ॥

स्वराज्यं प्राप्य सुग्रीवस्समानीय हरीश्वरान् ।
त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥ 53 ॥

आदिष्टा वानरेंद्रेण सुग्रीवेण महौजसा ।
अद्रिराजप्रतीकाशास्सर्वतः प्रस्थितौ महीम् ॥ 54 ॥

ततस्ते मार्गमाणा वै सुग्रीववचनातुराः ।
चरंति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ 55 ॥

अंगदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः ।
प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ॥ 56 ॥

तेषां नो विप्रणष्टानां विंध्ये पर्वतसत्तमे ।
भृशं शोकपरीतानामहोरात्रगणा गताः ॥ 57 ॥

ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च ।
भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ॥ 58 ॥

विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।
अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ॥ 59 ॥

दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुंगवान् ।
भृशं शोकार्णवे मग्नः पर्यदेवयदंगदः ॥ 60 ॥

तव नाशं च वैदेहि वालिनश्च वधं तथा ।
प्रायोपवेशमस्माकं मरणं च जटायुषः ॥ 61 ॥

तेषां नस्वामिसंदेशान्निराशानां मुमूर्षताम् ।
कार्यहेतोरिवायातश्शकुनिर्वीर्यवान्महान् ॥ 62 ॥

गृध्रराजस्य सोदर्यः संपातिर्नाम गृध्रराट् ।
श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ॥ 63 ॥

यवीयान्केन मे भ्राता हतः क्व च निपातितः ।
एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ॥ 64 ॥

अंगदोऽकथयत्तस्य जनस्थाने महद्वधम् ।
रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ॥ 65 ॥

जटायुषो वधं श्रुत्वा दुःखितस्सोऽरुणात्मजः ।
त्वां शशंस वरारोहे वसंतीं रावणालये ॥ 66 ॥

तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम् ।
अंगदप्रमुखास्तूर्णं ततस्संप्रस्थिता वयम् ॥ 67 ॥

विंध्यादुत्थाय संप्राप्ता स्सागरस्यांतमुत्तरम् ।
त्वद्धर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवंगमाः ॥ 68 ॥

अंगदप्रमुखास्सर्वे वेलोपांतमुपस्थिताः ।
चिंतां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ॥ 69 ॥

अथाहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ।
व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः ॥ 70 ॥

लंका चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।
रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ॥ 71 ॥

एतत्ते सर्वमाख्यातं यथावृत्तमनंदिते ।
अभिभाषस्व मां देवि दूतो दाशरथेरहम् ॥ 72 ॥

तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।
सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम् ॥ 73 ॥

कुशली तव काकुत्स्थस्सर्वशस्त्रभृतां वरः ।
गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ॥ 74 ॥

तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।
अहमेकस्तु संप्राप्त स्सुग्रीववचनादिह ॥ 75 ॥

मयेयमसहायेन चरता कामरूपिणा ।
दक्षिणा दिगनुक्रांता त्वन्मार्गविचयैषिणा ॥ 76 ॥

दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।
अपनेष्यामि संतापं तवाभिगमशंसनात् ॥ 77 ॥

दिष्ट्या हि मम न व्यर्थं देवि सागरलंघनम् ।
प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ॥ 78 ॥

राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।
समित्रबांधवं हत्वा रावणं राक्षसाधिपम् ॥ 79 ॥

माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ।
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ॥ 80 ॥

स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ।
तीर्थे नदीपतेः पुण्ये शंबसादनमुद्धरत् ॥ 81 ॥

तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।
हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ॥ 82 ॥

विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ।
अचिराद्राघवो देवि त्वामितो नयिताऽनघे ॥ 83 ॥

एवं विश्वासिता सीता हेतुभिश्शोककर्शिता ।
उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ॥ 84 ॥

अतुलं च गता हर्षं प्रहर्षेण च जानकी ।
नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानंदजं जलम् ॥ 85 ॥

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥ 86 ॥

हनुमंतं कपिं व्यक्तं मन्यते नान्यथेति सा ।
अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥ 87 ॥

एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि ।
किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ॥ 88 ॥

हतेऽसुरे संयति शंबसादने कपिप्रवीरेण महर्षिचोदनात् ।
ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ॥ 89 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे पंचत्रिंशस्सर्गः ॥




Browse Related Categories: