View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.4 सुंदरकांड - चतुर्थ सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ चतुर्थस्सर्गः ।

स निर्जित्य पुरीं श्रेष्ठां लंकां तां कामरूपिणीम् ।
विक्रमेण महातेजा हनुमान् कपिसत्तमः ॥ 1 ॥

अद्वारेण च महाबाहुः प्राकारमभिपुप्लुवे ।
प्रविश्य नगरीं लंकां कपिराजहितंकरः ॥ 2 ॥

चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ।
प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः ॥ 3 ॥

स महापथमास्थाय मुक्तापुष्पविराजितम् ।
ततस्तु तां पुरीं लंकां रम्यामभिययौ कपिः ॥ 4 ॥

हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्सरैः ।
वज्रांकुशनिकाशैश्च वज्रजालविभूषितैः ॥ 5 ॥

गृहमेघैः पुरी रम्या बभासे द्यौरिवांबुदैः ।
प्रजज्वाल ततो लंका रक्षोगणगृहैः शुभैः ॥ 6 ॥

सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ।
वर्धमानगृहैश्चापि सर्वतः सुविभूषिता ॥ 7 ॥

तां चित्रमाल्याभरणां कपिराजहितंकरः ।
राघवार्थं चरन् श्रीमान् ददर्श च ननंद च ॥ 8 ॥

भवनाद्भवनं गच्छन् ददर्श पवनात्मजः ।
विविधाकृतिरूपाणि भवनानि ततस्ततः ॥ 9 ॥

शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् ।
स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव ॥ 10 ॥

शुश्राव कांचीनिनदं नूपुराणां च, निःस्वनम् ।
सोपाननिनदांश्चैव भवनेषु महात्मनाम् ॥ 11 ॥

अस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः ।
शुश्राव जपतां तत्र मंत्रान् रक्षोगृहेषु वै ॥ 12 ॥

स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः ।
रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि ॥ 13 ॥

राजमार्गं समावृत्य स्थितं रक्षोबलं महत् ।
ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून् ॥ 14 ॥

दीक्षितान् जटिलान् मुंडान् गोजिनांबरवाससः ।
दर्भमुष्टिप्रहरणानग्निकुंडायुघांस्तथा ॥ 15 ॥

कूटमुद्गरपाणींश्च दंडायुधधरानपि ।
एकाक्षानेककर्णांश्च लंबोदरपयोधरान् ॥ 16 ॥

करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा ।
धन्विनः खंगिनश्चैव शतघ्नीमुसलायुधान् ॥ 17 ॥

परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ।
नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ॥ 18 ॥

नातिगौरान्नातिकृष्णान्नातिकुब्जान्न वामनान् ।
विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः ॥ 19 ॥

ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान् ।
शक्तिवृक्षायुधांश्चैव पट्टिसाशनिधारिणः ॥ 20 ॥

क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ।
स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ॥ 21 ॥

नानावेषसमायुक्तान् यथास्स्वैरगतान् बहून् ।
तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् ॥ 22 ॥

शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ।
रक्षोधिपतिनिर्दिष्टं ददर्शांतःपुराग्रतः ॥ 23 ॥

स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम् ।
राक्षसेंद्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥ 24 ॥

पुंडरीकावतंसाभिः परिखाभिरलंकृतम् ।
प्राकारावृतमत्यंतं ददर्श स महाकपिः ॥ 25 ॥

त्रिविष्टपनिभं दिव्यं दिव्यनादनिनादितम् ।
वाजिहेषितसंघुष्टं नादितं भूषणैस्तथा ॥ 26 ॥

रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः ।
वारणैश्च चतुर्थंतैः श्वेताभ्रनिचयोपमैः ॥ 27 ॥

भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ।
रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः ।
राक्षसाधिपतेर्गुप्तमाविवेश महाकपिः ॥ 28 ॥

सहेमजांबूनदचक्रवालं महार्हमुक्तामणिभूषितांतम् ।
परार्थ्यकालागुरुचंदनाक्तं स रावणांतःपुरमाविवेश ॥ 29 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे चतुर्थस्सर्गः ॥




Browse Related Categories: