View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.43 सुंदरकांड - त्रिचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ त्रिचत्वारिंशस्सर्गः ।

ततस्स किंकरान्हत्वा हनुमांध्यानमास्थितः ।
वनं भग्नं मया चैत्यप्रासादो न विनाशितः ॥ 1 ॥

तस्मात्प्रासादमप्येवं भीमं विध्वंसयाम्यहम् ।
इति संचिंत्य मनसा हनुमांदर्शयन्बलम् ॥ 2 ॥

चैत्यप्रासादमाप्लुत्य मेरुशृंगमिवोन्नतम् ।
आरुरोह कपिश्रेष्ठो हनुमान्मारुतात्मजः ॥ 3 ॥

आरुह्य गिरिसंकाशं प्रासादं हरियूथपः ।
बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ॥ 4 ॥

संप्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम् ।
हनुमान्प्रज्वलन्लक्ष्म्या पारियात्रोपमोऽभवत् ॥ 5 ॥

स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः ।
धृष्टमास्फोटयामास लंकां शब्देन पूरयन् ॥ 6 ॥

तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।
पेतुर्विहंगमास्तत्र चैत्यपालाश्च मोहिताः ॥ 7 ॥

अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 8 ॥

दासोऽहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान्शत्रुसैन्यानां निहंता मारुतात्मजः ॥ 9 ॥

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ 10 ॥

अर्दयित्वा पुरीं लंकामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ 11 ॥

एवमुक्त्वा विमानस्थश्चैत्यस्थान्हरियूथपः ।
ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम् ॥ 12 ॥

तेन शब्देन महता चैत्यपालाश्शतं ययुः ।
गृहीत्वा विविधानस्त्रान्प्रासान्खंगान्परश्वथान् ॥ 13 ॥

विसृजंतो महाकाया मारुतिं पर्यवारयन् ।
ते गदाभिर्विचित्राभिः परिघैः कांचनांगदैः ।
आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः ॥ 14 ॥

आवर्त इव गंगायास्तोयस्य विपुलो महान् ।
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ॥ 15 ॥

ततो वातात्मजः क्रुद्धो भीम रूपं समास्थितः ॥ 16 ॥

प्रासादस्य महंतस्य स्तंबं हेमपरिष्कृतम् ।
उत्पाटयित्वा वेगेन हनुमान्पवनात्मजः ॥ 17 ॥

ततस्तं भ्रामयामास शतधारं महाबलः ।
तत्र चाग्निस्समभवत्प्रासादश्चाप्यदह्यत ॥ 18 ॥

दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः ।
स राक्षसशतं हत्त्वा वज्रेणेंद्र इवासुरान् ॥ 19 ॥

अंतरिक्षे स्थितश्श्तीमानिदं वचनमब्रवीत् ।
मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ॥ 20 ॥

बलिनां वानरेंद्राणां सुग्रीववशवर्तिनाम् ।
अटंति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ 21 ॥

दशनागबलाः केचित्केचिद्दशगुणोत्तराः ।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ 22 ॥

संति चौघबलाः केचित्केचिद्वायुबलोपमाः ।
अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः ॥ 23 ॥

ईदृग्विधैस्तु हरिभिर्वृतो दंतनखायुधैः ।
शतैश्शतसहस्रैश्च कोटीभिरयुतैरपि ॥ 24 ॥

आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ।
नेयमस्ति पुरी लंका न यूयं न च रावणः ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे त्रिचत्वारिंशस्सर्गः ॥




Browse Related Categories: