View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.48 सुंदरकांड - अष्टचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ अष्टचत्वारिंशस्सर्गः ।

ततस्तु रक्षोधिपतिर्महात्मा हनूमताक्षे निहते कुमारे ।
मनस्समाधाय सदेवकल्पं समादिदेशेंद्रजितं सरोषः ॥ 1 ॥

त्वमस्त्रविच्छस्त्रविदां वरिष्ठस्सुरासुराणामपि शोकदाता ।
सुरेषु सेंद्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः ॥ 2 ॥

तवास्त्रबलमासाद्य ससुराः समरुद्गणाः ।
न शेकुस्समरे स्थातुं सुरेश्वरसमाश्रिताः ॥ 3 ॥

न कश्चित्त्रिषु लोकेषु संयुगेन गतश्रमः ।
भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ॥ 4 ॥

देशकालविभागज्ञस्त्वमेव मतिसत्तमः ।
न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमंत्रणे ।
न सोऽस्ति कश्चित्त्रिषु संग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते ॥ 5 ॥

ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे ।
न त्वां समासाद्य रणावमर्दे मनश्श्रमं गच्छति निश्चितार्थम् ॥ 6 ॥

निहताः किंकरास्सर्वे जंबुमाली च राक्षसः ।
अमात्यपुत्रा वीराश्च पंच सेनाग्रयायिनः ॥ 7 ॥

बलानि सुसमृद्धानि साश्वनागरथानि च ।
सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ॥ 8 ॥

न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ।
इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च ।
त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ॥ 9 ॥

बलावमर्थस्तयि सन्निकृष्टे यथा गते शाम्यति शांतशत्रौ ।
तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ॥ 10 ॥

न वीरसेना गणशोच्यवंति न वज्रमादाय विशालसारम् ।
न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हंतुम् ॥ 11 ॥

तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा ।
स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व ॥ 12 ॥

न खल्वियं मतिश्श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् ।
इयं च राजधर्माणां क्षत्रियस्य मतिर्मता ॥ 13 ॥

नानाशस्त्रेषु संग्रामे वैशारद्यमरिंदम ।
अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ 14 ॥

ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ।
चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ॥ 15 ॥

ततस्तै स्स्वगणैरिष्टैरिंद्रजित् प्रतिपूजितः ।
युद्धोद्धतः कृतोत्साहस्संग्रामं प्रत्यपद्यत ॥ 16 ॥

श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेस्सुतः ।
निर्जगाम महातेजास्समुद्र इव पर्वसु ॥ 17 ॥

स पक्षिराजोपमतुल्यवेगै ।
र्व्यालैश्चतुर्भिः सिततीक्ष्णदम्ष्ट्रैः ।
रथं समायुक्तमसम्गवेगम् ।
समारुरोहेंद्रजिदिंद्रकल्पः ॥ 18 ॥

स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोस्त्रविदां वरः ।
रथेनाभिययौ क्षिप्रं हनुमान्यत्र सोऽभवत् ॥ 19 ॥

स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ।
निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत् ॥ 20 ॥

सुमहच्चापमादाय शितशल्यांश्च सायकान् ।
हनुमंतमभिप्रेत्य जगाम रणपंडितः ॥ 21 ॥

तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति चापपाणौ ।
दिशश्च सर्वाः कलुषा बभूवु र्मृगाश्च रौद्रा बहुधा विनेदुः ॥ 22 ॥

समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः ।
नभस्समावृत्य च पक्षिसंघा विनेदुरुच्चैः परमप्रहृष्टाः ॥ 23 ॥

आयांतं सरथं दृष्ट्वा तूर्णमिंद्रजितं कपिः ।
विननाद महानादं व्यवर्धत च वेगवान् ॥ 24 ॥

इंद्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः ।
धनुर्विष्फारयामास तटिदूर्जितन्निस्स्वनम् ॥ 25 ॥

ततस्समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशंकौ ।
कपिश्च रक्षोधिपतेस्तनूजः सुरासुरेंद्राविव बद्धवैरौ ॥ 26 ॥

स तस्य वीरस्य महारथस्य धनुष्मतः संयति सम्मतस्य ।
शरप्रवेगं व्यहनत्प्रवृद्ध श्चचार मार्गे पितुरप्रमेयः ॥ 27 ॥

ततश्शरानायततीक्ष्णशल्यान् सुपत्रिणः कांचनचित्रपुंखान् ।
मुमोच वीरः परवीरहंता सुसन्नतान् वज्रनिपातवेगान् ॥ 28 ॥

ततस्तु तत्स्यंदननिस्स्वनं च मृदंगभेरीपटहस्वनं च ।
विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ॥ 29 ॥

शराणामंतरेष्वाशु व्यवर्तत महाकपिः ।
हरिस्तस्याभिलक्ष्यस्य मोघयन्लक्ष्यसंग्रहम् ॥ 30 ॥

शराणामग्रतस्तस्य पुनः समभिवर्तत ।
प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥ 31 ॥

तावुभौ वेगसंपन्नौ रणकर्मविशारदौ ।
सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ॥ 32 ॥

हनुमतो वेद न राक्षसोऽंतरं न मारुतिस्तस्य महात्मनोऽंतरम् ।
परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ॥ 33 ॥

ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु ।
जगाम चिंतां महतीं महात्मा समाधिसंयोगसमाहितात्मा ॥ 34 ॥

ततो मतिं राक्षसराजसूनु श्चकार तस्मिन् हरिवीरमुख्ये ।
अवध्यतां तस्य कपेस्समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ॥ 35 ॥

ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः ।
संदधे सुमहत्तेजाः तं हरिप्रवरं प्रति ॥ 36 ॥

अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।
निजग्राह महाबाहुर्मारुतात्मजमिंद्रजित् ॥ 37 ॥

तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः ।
अभवन्निर्विचेष्टश्च पपात स महीतले ॥ 38 ॥

ततोऽथ बुद्ध्वा स तदस्त्रबंधं प्रभोः प्रभावाद्विगतात्मवेगः ।
पितामहानुग्रहमात्मनश्च विचिंतयामास हरिप्रवीरः ॥ 39 ॥

तत स्स्वायंबुवैर्मंत्रैर्ब्रह्मास्त्रमभिमंत्रितम् ।
हनुमांश्चिंतयामास वरदानं पितामहात् ॥ 40 ॥

न मेऽस्त्रबंधस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् ।
इत्येव मत्वा विहितोऽस्त्रबंधो मयात्मयोनेरनुवर्तितव्यः ॥ 41 ॥

स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च ।
विमोक्षशक्तिं परिचिंतयित्वा पितामहाज्ञामनुवर्तते स्म ॥ 42 ॥

अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।
पितामहमहेंद्राभ्यां रक्षितस्यानिलेन च ॥ 43 ॥

ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम् ।
राक्षसेंद्रेण संवादस्तस्माद्गृह्णंतु मां परे ॥ 44 ॥

स निश्चितार्थः परवीरहंता समीक्ष्यकारी विनिवृत्तचेष्टः ।
परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्त्रैः परिभर्त्स्यमानः ॥ 45 ॥

ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिंदमम् ।
बबंधुश्शणवल्कैश्च द्रुमचीरैश्च संहतैः ॥ 46 ॥

स रोचयामास परैश्च बंधनं प्रसह्य वीरैरभिनिग्रहं च ।
कौतूहलान्मां यदि राक्षसेंद्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः ॥ 47 ॥

स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् ।
अस्त्रबंधः स चान्यं हि न बंधमनुवर्तते ॥ 48 ॥

अथेंद्रजित्तु द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् ।
विमुक्तमस्त्रेण जगाम चिंतां नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ॥ 49 ॥

अहो महत्कर्म कृतं निरर्थकम्कं न राक्षसैर्मंत्रगतिर्विमृष्टा ।
पुनश्च मंत्रे विहतेऽस्त्रमन्यत्प्रवर्तते संशयिता स्स्मसर्वे ॥ 50 ॥

अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यत ।
कृष्यमाणस्तु रक्षोभि स्तौश्च बंधैर्निपीडितः ॥ 51 ॥

हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ।
समीपं राक्षसेंद्रस्य प्राकृष्यत स वानरः ॥ 52 ॥

अथेंद्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः ।
न्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे ॥ 53 ॥

तं मत्तमिव मातंगं बद्धं कपिवरोत्तमम् ।
राक्षसा राक्षसेंद्राय रावणाय न्यवेदयन् ॥ 54 ॥

कोऽयं कस्य कुतोवात्र किं कार्यं को व्यपाश्रयः ।
इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ॥ 55 ॥

हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ।
राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ॥ 56 ॥

अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोधिपपादमूले ।
ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ॥ 57 ॥

स ददर्श महातेजा रावणः कपिसत्तमम् ।
रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ॥ 58 ॥

राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ।
तेजोबलसमायुक्तं तपंतमिव भास्करम् ॥ 59 ॥

सरोषसम्वर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य ।
अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मंत्रिमुख्यान् ॥ 60 ॥

यथाक्रमं तैस्स कपिर्विपृष्टः कार्यार्थमर्धस्य च मूलमादौ ।
निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि ॥ 61 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे अष्टचत्वारिंशस्सर्गः ॥




Browse Related Categories: