View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.54 सुंदरकांड - चतुःपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ चतुःपंचाशस्सर्गः ।

वीक्षमाणस्ततो लंकां कपिः कृतमनोरथः ॥ 1 ॥

वर्धमानसमुत्साहः कार्यशेषमचिंतयत् ।
किन्नु खल्ववशिष्टं मे कर्तव्यमिह सांप्रतम् ॥ 2 ॥

यदेषां रक्षसां भूयः संतापजननं भवेत् ।
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः ॥ 3 ॥

बलैकदेशः क्षपितश्शेषं दुर्गविनाशनम् ।
दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम् ।
अल्पयत्नेन कार्येऽस्मिन् मम स्यात्सफलश्श्रमः ॥ 4 ॥

यो ह्ययं मम लांगूले दीप्यते हव्यवाहनः ।
अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ॥ 5 ॥

ततः प्रदीप्तलांगूलस्सविद्युदिव तोयदः ।
भवनाग्रेषु लंकाया विचचार महाकपिः ॥ 6 ॥

गृहाद्गृहं राक्षसानामुद्यानानि च वानरः ।
वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ॥ 7 ॥

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।
अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ॥ 8 ॥

ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।
मुमोच हनुमानग्निं कालानलशिखोपमम् ॥ 9 ॥

वज्रदंष्ट्रस्य च तदा पुप्लुवे स महाकपिः ।
शुकस्य च महातेजास्सारणस्य च धीमतः ॥ 10 ॥

तथा चेंद्रजितो वेश्म ददाह हरियूथपः ।
जंबुमाले स्सुमालेश्च ददाह भवनं ततः ॥ 11 ॥

रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ।
ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ 12 ॥

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः ।
विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥ 13 ॥

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।
कुंभकर्णस्य भवनं मकराक्षस्य चैव हि ॥ 14 ॥

यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च ।
नरांतकस्य कुंभस्य निकुंभस्य दुरात्मनः ॥ 15 ॥

वर्जयित्वा महातेजा विभीषणगृहं प्रति ।
क्रममाणः क्रमेणैव ददाह हरिपुंगवः ॥ 16 ॥

तेषु तेषु महार्हेषु भवनेषु महायशाः ।
गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः ॥ 17 ॥

सर्वेषां समतिक्रम्य राक्षसेंद्रस्य वीर्यवान् ।
आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ॥ 18 ॥

ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते ।
मेरुमंदरसंकाशे सर्वमंगलशोभिते ॥ 19 ॥

प्रदीप्तमग्निमुत्सृज्य लांगूलाग्रे प्रतिष्ठितम् ।
ननाद हनुमान्वीरो युगांतजलदो यथा ॥ 20 ॥

श्वसनेन च संयोगादतिवेगो महाबलः ।
कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥ 21 ॥

प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् ।
अभूच्छ्वसनसंयोगादतिवेगो हुताशनः ॥ 22 ॥

तानि कांचनजालानि मुक्तामणिमयानि च ।
भवनान्यवशीर्यंत रत्नवंति महांति च ॥ 23 ॥

संजज्ञे तुमुलश्शब्दो राक्षसानां प्रधावताम् ।
स्वगृहस्य परित्राणे भग्नोत्साहोर्जितश्रियाम् ॥ 24 ॥

नूनमेषोऽग्निरायातः कपिरूपेण हा इति ।
क्रंदंत्यस्सहसा पेतुः स्तनंधयधराः स्त्रियः ॥ 25 ॥

काश्चिदग्निपरीतेभ्यो हर्मेभ्यो मुक्तमूर्धजाः ।
पतंत्यो रेजिरेऽभ्रेभ्यस्सौदामन्य इवांबरात् ॥ 26 ॥

वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान् ।
विचित्रान्भवनाद्धातून् स्यंदमानांददर्श सः ॥ 27 ॥

नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा ।
हनूमान् राक्षसेंदाणां विशस्तानां न तृप्यति ॥ 28 ॥

क्वचित्किंशुकसंकाशाः क्वचिच्छाल्मलिसन्निभाः ॥ 29 ॥

क्वचित्कुंकुमसंकाशाश्शिखा वह्नेश्चकाशिरे ।
हनूमता वेगवता वानरेण महात्मना ।
लंकापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ॥ 30 ॥

ततस्तु लंकापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः ।
प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ॥ 31 ॥

युगांतकालानलतुल्यवेग स्समारुतोऽग्निर्ववृधे दिविस्पृक् ।
विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्यसमर्पतार्चिः ॥ 32 ॥

आदित्यकोटीसदृशस्सुतेजा लंकां समस्तां परिवार्य तिष्ठन् ।
शब्दैरनेकैरशनिप्ररूढैर्भिंदन्निवांडं प्रबभौ महाग्निः ॥ 33 ॥

तत्रांबरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ।
निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥ 34 ॥

वज्री महेंद्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽनिलो वा ।
रुद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः ॥ 35 ॥

किं ब्रह्मणस्सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य ।
इहाऽऽगतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः ॥ 36 ॥

किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः ।
अनंतमव्यक्तमचिंत्यमेकं स्वमायया सांप्रतमागतं वा ॥ 37 ॥

इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे ।
सप्राणिसंघां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ॥ 38 ॥

ततस्तु लंका सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा ।
सपक्षिसंघा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ॥ 39 ॥

हा तात हा पुत्रक कांत मित्र हा जीवितं भोगयुतं सुपुण्यम् ।
रक्षोभिरेवं बहुधा ब्रुवद्भि श्शब्दः कृतो घोरतरस्सुभीमः ॥ 40 ॥

हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लंका ॥ 41 ॥

स संभ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनांकिताम् ।
ददर्श लंकां हनुमान्महामनाः स्वयंभूकोपोपहतामिवावनिम् ॥ 42 ॥

भंक्त्वा वनं पादपरत्नसंकुलं हत्वा तु रक्षांसि महांति संयुगे ।
दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान्पवनात्मजः कपिः ॥ 43 ॥

त्रिकूटशृंगाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ।
प्रदीप्तलांगूलकृतार्चिमाली व्यराजताऽऽदित्य इवांशुमाली ॥ 44 ॥

स राक्षसांस्तान्सुबहूंश्च हत्वा वनं च भंक्त्वा बहुपादपं तत् ।
विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा ॥ 45 ॥

ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् ।
महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे ॥ 46 ॥

भंक्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे ।
दग्ध्वा लंकापुरीं रम्यां रराज स महाकपिः ॥ 47 ॥

तत्र देवास्सगंधर्वास्सिद्धाश्च परमर्षयः ।
दृष्ट्वा लंकां प्रदग्धां तां विस्मयं परमं गताः ॥ 48 ॥

तं दृष्ट्वा वानरश्रेष्ठं हनुमंतं महाकपिम् ।
कालाग्निरिति संचिंत्य सर्वभूतानि तत्रसुः ॥ 49 ॥

देवाश्च सर्वे मुनिपुंगवाश्च गंधर्वविद्याधरनागयक्षाः ।
भूतानि सर्वाणि महांति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ॥ 50 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे चतुःपंचाशस्सर्गः ॥




Browse Related Categories: