View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.38 अयोध्याकांड - अष्टत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अष्टत्रिंशस्सर्गः ।

तस्यां चीरं वसानायां नाथवत्यामनाथवत् ।
प्रचुक्रोश जनस्सर्वो धिक्त्वां दशरथं त्विति ॥ 1 ॥

तेन तत्र प्रणादेन दुःखितस्स महीपतिः ।
चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः ॥ 2 ॥

स निःश्वस्योष्णमैक्ष्वाक स्तां भार्यामिदमब्रवीत् ।
कैकेयि कुशचीरेण न सीता गंतुमर्हति ॥ 3 ॥

सुकुमारी च बाला च सततं च सुखोचिता ।
नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ 4 ॥

इयं हि कस्यापकरोति किंचि त्तपस्विनी राजवरस्य कन्या ।
या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञाश्रमणीव काचित् ॥ 5 ॥

चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा ।
यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः ॥ 6 ॥

अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत् ।
तवया हि बाल्यात् प्रतिपन्नमेतत् तन्मां दहेद्वेणुमिवात्मपुष्पम् ॥ 7 ॥

रामेण यदि ते पापे किंचित्कृतमशोभनम् ।
अपकारः क इह ते वैदेह्या दर्शितोऽधमे ॥ 8 ॥

मृगीवोत्फुल्लनयना मृदुशीला तपस्वीनी ।
अपकारं कमिह ते करोति जनकात्मजा ॥ 9 ॥

ननु पर्याप्त मेतत्ते पापे रामविवासनम् ।
किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ 10 ॥

प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता ।
रामं यदभिषेकाय त्वमिहागतमब्रवीः ॥ 11 ॥

तत्त्वेतत्समतिक्रम्य निरयं गंतुमिच्छसि ।
मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ 12 ॥

इतीव राजा विलपन्महात्मा शोकस्य नांतं स ददर्श किंचित् ।
भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसनेन मग्नः ॥ 13 ॥

एवं ब्रुवंतं पितरं रामस्संप्रस्थितो वनम् ।
अवाक्छिरसमासीनमिदं वचनमब्रवीत् ॥ 14 ॥

यं धार्मिक कौशल्या मम माता यशस्विनी ।
वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते ॥ 15 ॥

मया विहीनां वरद प्रपन्नां शोकसागरम् ।
अदृष्टपूर्वव्यसनां भूयस्सम्मंतुमर्हसि ॥ 16 ॥

पुत्रशोकं यथा नर्च्छेत्त्वया पूज्येन पूजिता ।
मां हि संचिंतयंती सा त्वयि जीवेत्तपस्विनी ॥ 17 ॥

इमां महेंंद्रोपम जातगर्धिनीं तथा विधातुं जननीं ममार्हसि ।
यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ 18 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अष्टत्रिंशस्सर्गः ॥




Browse Related Categories: